भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 205, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 205

( १८० ) व्याख्या रोमाञ्चेन रोमहर्षणेन तरङ्गितानि युक्तान्यङ्गानि यस्य स राजाऽऽहवमल्लदेव एनं विक्रमाङ्कदेवमङ्क उत्सङ्गे सस्नेहं प्रेमोल्लासपूर्वकं यथास्यात्तथा विनिवेश्य संस्थाप्याऽस्य पुत्रस्य कण्ठे गलभागेऽत्युज्ज्वलाऽतिविशदा दन्तानां 'रदना दन्ता रदाः' इत्यमरः । कान्तिः प्रभा तया धवलदन्तकान्तिच्छद्मना प्रसादरूपा या मुक्तानां मौक्तिकानामावलिर्माला तां क्षिपन्निव च निक्षिपन्निव चोवाच जगाद । भाषा सर्व अङ्गों में रोमाञ्च से युक्त उस राजा आहवमल्ल देव ने अपने पुत्र विक्रमाङ्क देव को प्रेम पूर्वक अपनी गोद में बैठाकर और उसके गले में अपनी श्वेत दन्तकान्ति के मिष से मानो प्रेम से समर्पित मोतियों की माला को पहनाते हुए, कहा । भाग्यैः प्रभूतैर्भगवानसौ मे सत्यं भवानीदयितः प्रसन्नः । चालुक्यगोत्रस्य विभूषणं यत् पुत्रं प्रसादीकृतवान्भवन्तम् ॥४४॥ अन्वयः असौ भगवान् भवानीदयितः मे प्रभूतैः भाग्यैः सत्यं प्रसन्नः । यत् चालुक्यगोत्रस्य विभूषणं भवन्तं पुत्रं प्रसादीकृतवान् । व्याख्या असौ भगं विद्यते यस्मिन् स भगवान् 'भगं श्री काममाहात्म्यवीर्ययत्नार्क- कीर्तिषु' इत्यमरः । 'भगं स्त्री योनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्य- श्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' । इति मेदिनी । भवान्याः पार्वत्या दयितो वल्लभः 'अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्' इत्यमरः । शिवो मे प्रभूतैर्बहुलैर्भाग्यैर्भागधेयैः 'दैवं दिष्ट भागधेय भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । सत्यं ध्रुवं प्रसन्नः प्रीतः । यदस्मात्कारणात् चालुक्यगोत्रस्य चालुक्यवंशस्य विभूषणमलङ्कारभूतं भवन्तं त्वां पुत्रं पुत्रत्वेन प्रसादीकृतवान् दत्तवान् । त्वत्सदृशं चालुक्यवंशालङ्कारभूतं पुत्रं प्रसादीकृत्य तेन शिवेन महाननुग्रहः प्रदर्शित इति भावः । 'भवानीदयितः' इति चिन्त्यम् ।