विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 206, कुल 493 में से
संदर्भ में पढ़ें( १८४ ) व्याख्या यस्या राजलक्ष्म्या कृते भूमिं बिभ्रति पालयन्तीति भूमिभूतस्तेषां पृथिवी- पालानां कुमारा पुत्रा राजकुमारों इत्यर्थ । केषां नयस्य नीतेर्विप्लवा विपर्या- सास्तेषां नयविप्लवानाडनीतीनां पात्रं भाजनं न, न जाता । सा उन्मत्ता मदान्धा ये मातङ्गा गजा 'गजेऽपि नागमातङ्गौ' इत्यमर । तेषां सहस्रं तद्वद्गुर्वी भारवती स्पृहणीया च राज्यलक्ष्मीस्ते त्वदर्थं तृणवल्लघुरल्पीयसी तुच्छा च । अन्येराजकुमारा राज्यलक्ष्मीं सर्वतोऽधिकां मन्यमानास्तदर्थमनीति- माचरन्ति परन्तु त्वत्कृते सा तुच्छेति भाव । भाषा जिस राज्यलक्ष्मी के लिये अन्य राजाओं के पुत्र गण क्या २ अनीति नही कर डालते वह सहस्त्रो मदोन्मत्त हाथियों से भी भारी तथा बहुमूल्य राज्यलक्ष्मी तुम्हारे लिये तृण के समान हलकी है अर्थात् तुच्छ है । लङ्कासमीपाम्बुधिनिर्गतेयं रक्तासवैस्तृप्यति राक्षसीव । लक्ष्मीरसौ त्वद्भुजदण्डबद्धा पात्रं भवित्री विनयव्रतस्य ॥४७॥ अन्वयः इयं लङ्कासमीपाम्बुधिनिर्गता लक्ष्मीः राक्षसी इव रक्तासवैः तृप्यति । असौ त्वद्भुजदण्डबद्धा सती विनयव्रतस्य पात्रं भवित्री । व्याख्या इय पूर्ववर्णनता लङ्काया रावणनगर्या समीपे योऽम्बुधिस्समुद्रस्तस्मान्निर्गता जाता लक्ष्मी श्री राक्षसीव रक्तानि रुधिराण्यादासव्या मद्यानि तैस्तृप्यति तृप्तिमाप्नोति । यथा लङ्काया जाता काचिद्राक्षसी रुधिरपानेनैव तृप्यति तथैष लङ्कानिकटस्थसमुद्रजा लक्ष्मीरपि रुधिरप्रवाहेण तृप्यतीति भाव । असौ लक्ष्मीरत्वद्भुजावेव दण्डौ तयोर्बद्धा त्वद्भुजयोर्दण्डेन शासनेन वा बद्धा सती विनयव्रतस्य विनयरूताशिक्षाया पात्रमास्पदं भवित्री भविष्यति । लोके दण्डेनैव दुर्विनीतानां शासनं भवति । दुर्विनीता विनीताइव संपाद्यन्ते, क्रूरत्वञ्च विहन्यते, शुद्धभावश्च संस्थाप्यते इति भाव ।