भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 208, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 208

( १८४ ) कैसे दृढ़ता पूर्वक बांधी जा सकती है अर्थात् बिना बँधे कैसे अपनी चञ्चलता छोड़ कर साथ रह सकती है। किञ्चिन्न मे दूषणमस्ति पृच्छ दैवज्ञचक्रं यदि कौतुकं ते। एतस्य साम्राज्यममन्यमानाः पापग्रहा एव गृहीतपापाः ॥४६॥ अन्वयः मे न किञ्चित् दूषणम् अस्ति । यदिते कौतुकं (तर्हि) दैवज्ञचक्रं पृच्छ । पापग्रहाः एव गृहीतपापाः (सन्तः) एतस्य साम्राज्यम् अमन्य- मानाः (सन्ति) । व्याख्या मे ममाऽत्र न किञ्चिद्द्षण न कोऽपि दोषोऽस्ति । नाहम् सोमदेवस्य यौवराज्यदानप्रतिबन्धक इति भाव । यदि ते तव कौतुक कुतूहलम 'कौतूहल कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमर । ज्ञातु महती समुत्कण्ठा भवेदित्यर्थ । तर्हि दैव जानन्तीति दैवज्ञा ज्योतिषिका 'सावत्सरो ज्योतिषिकौ दैवज्ञगणकावपि' इत्यमर । तेषा चक्र समूह पृच्छ । पापग्रहा क्रूरग्रहा अनिष्टग्रहा इत्यर्थ । गृहीतानि पापानि दुष्कृतजन्यादृष्टानि यैस्ते गृहीतपापा सन्त एतस्य सोमदेवस्य साम्राज्य सम्राट्पदेऽधिरोहममन्यमाना सन्ति न स्वीकुर्वन्ति न समर्थयन्तीति भाव' । भाषा सोमदेव को युवराज न बनाने में मेरा कोई दोष नही है। यदि तुमको यह जानने की उत्कट इच्छा हो तो ज्योतिषियो से पूछो। (तब तुमको विदित होगा कि) सोमदेव के पापग्रह अनिष्ट कारक होकर इसका साम्राज्य होने में प्रतिबन्धक है । साम्राज्यलक्ष्मीदयितं जगाद त्वामेव देवोऽपि मृगाङ्कमौलिः । लोकस्तुतां मे षडुपूत्रतां तु पुत्रद्वयेन व्यतनोत्परेण ॥५०॥ अन्वयः मृगाङ्कमौलिः देवः अपि त्वाम् एव साम्राज्यलक्ष्मीदयितं जगाद । लोकस्तुतां मे षडुपूत्रता तु परेण पुत्रद्वयेन व्यतनोत् ।