विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 223, कुल 493 में से
संदर्भ में पढ़ें( २०० ) तस्यारिलक्ष्मीपरिरम्भकेलि-समुत्सुकप्राज्यभुजद्वयस्य । केयूर-रत्नाङ्कुरकण्टकानां तैक्ष्ण्यं कृपाणाहतिभिर्निरस्तम् ॥७२॥ अन्वयः अरिलक्ष्मीपरिरम्भकेलिसमुत्सुकप्राज्यभुजद्वयस्य तस्य केयूररत्नाङ्कुर- कण्टकानां तैक्ष्ण्यं कृपाणाहतिभिः निरस्तम् । व्याख्या अरीणां शत्रूणां लक्ष्मीः श्रीस्तस्याः परिरम्भ आलिङ्गनमेव केलिः क्रीड़ा तस्यां समुत्सुकं समुत्कण्ठितं प्राज्यं विशालं भुजद्वयं बाहुयुगलं यस्य तस्य राजकुमारस्य केयूरेऽङ्गदे स्थितानि रत्नानि तेषामङ्कुरा अग्रभागा एव कण्ट- कानि तेषां तैक्ष्ण्यं तीव्रता कृपाणैः शत्रूणां खङ्गैराहतयः प्रहारास्तैर्निरस्तं कृतम् । कृपाणाहतिभिः केयूररत्नाङ्कुरकण्टकानां तैक्ष्ण्यनिराकरणादालिङ्गनं निष्प्रत्यूहम- भवदिति भावः । एतेन लक्ष्म्यास्तस्य राजकुमारस्य सर्वतोभावेन स्वीकरणं ध्वन्यते तेन रसाभासध्वनिः । भाषा शत्रुओं की लक्ष्मी की आलिङ्कनरूपी क्रीड़ा में उत्सुक लम्बी २ दो भुजाओं वाले उस राजकुमार के विजायत मे जड़े हुये रत्नों का अग्रभाग रूपी कांटो का तीखापन, शत्रुओं के खङ्ग के प्रहारों से नष्ट हो गया था । अतएव आलिङ्गन में लक्ष्मी को उन काँटों के गड़ने की आशंका न थी । एकातपत्रोर्जितराज्यलोभाच्छत्रान्तराणामिव वारणाय । स भूभृतामुन्नतवंशभाजां दण्डानशेषाञ्छतधा बभंज ॥७३॥ अन्वयः सः एकातपत्रोर्जितराज्यलोभात् छत्रान्तराणां वारणाय इव उन्नतवंश- भाजां भूभृताम् अशेपान् दण्डान् शतधा बभंज । व्याख्या स राजकुमार एकमेवातपत्रं छत्रं यस्मिन्तदेकातपत्रमेकच्छत्रमूर्जितं समृद्धि- मद्विशालं राज्यं तस्य लोभात्तस्य प्रतिष्ठावाञ्छायाऽन्यच्छत्रं छत्रान्तरं तेषामन्य