विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 224, कुल 493 में से
संदर्भ में पढ़ें( २०२ ) पूर्वांद्रेः पूर्वाचलस्य कटकेषु नितम्बेषु 'कटकोऽस्त्री नितम्बोद्रेः' इत्यमरः। प्रालेयमिव हिममिव शुद्धं श्वेतवर्णं यशः कीर्ति गायन्ति स्म सङ्गीतपुरस्सरं स्तुवन्ति स्म। भाषा युद्ध में गौड या बङ्गाल के राजा को जीत कर उसके हाथियों को छीन लेने वाले, कामरूप या असाम के राजा की समृद्ध प्रतापश्री को समूल नष्ट कर देने वाले उस राजकुमार विक्रमाङ्कदेव की बरफ के समान श्वेत कीर्ति को, सूर्य के रथ के पहियों की घड़घड़ाहट से प्रात काल की निद्रा के आनन्द से वञ्चित अर्थात् जागपड़ी हुई सिद्ध नामक देव कन्याएँ, पूर्वाचल के नीचे के भागों में गाया करती थीं। आसीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने सेहे किन्तु न गाढपीडितधनुष्टङ्कारमुच्चैःश्रवाः। आरूढः सुरवारणं रणरसक्रुद्धेभगन्ध—ग्रहात् तेनाप्येष पलायनप्रणयिना दूरं समुत्सारितः ॥७५॥ अन्वयः सुरपतिः तस्य संग्रामदर्शने समुत्सुकः आसीत्। किन्तु उच्चैःश्रवाः गाढपीडितधनुष्टङ्कारं न सेहे। (अतः) एषः सुरवारणम् आरूढः। (किन्तु) रणरसक्रुद्धेभगन्धग्रहात् पलायनप्रणयिना तेन अपि एषः दूरं समुत्सारितः। व्याख्या सुराणां देवानां पतिः स्वामीन्द्रस्तस्य विक्रमाङ्कदेवस्य सङ्ग्रामाणां युद्धानां दर्शने कौतुकेन निरीक्षणे समुत्सुक उत्कण्ठित आसीत्। विक्रमाङ्कदेवस्य विचित्रं युद्धकलां सर्वतो निशम्य तस्य युद्धदर्शने कौतुकयुक्तस्तराम् समुत्सुक आसीदिति भावः। किन्तुच्चैःश्रवा इन्द्राश्वः 'हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम्' इत्यमरः। गाढं यथास्यात्तथा पीडितं धनुः शरासनं तस्य टङ्कारं शब्दं न सेहे न सोढुं समर्थः। टङ्कारशब्दं श्रुत्वा पलायित इति भावः। अत एष इन्द्रः सुरवारणमैरावतमारूढोऽधिष्ठितः। किन्तु रणरसेन संग्रामरसेन क्रुद्धाः कुपिताः इभा गजास्तेषां गन्धस्य ग्रहात् ग्रहणात् पलायने वेगेन दूरापसरणे प्रणयः