विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 23, कुल 493 में से
संदर्भ में पढ़ें( १६ ) ततश्च रोमहर्षणो रणः प्रवृत्ते । किमपर द्रविडपतिराकुलमतित्वेन पलायितः सोमदेवश्च बन्धनागारे न्यविशत । ततश्च विक्रमस्तुङ्गभद्रा जगाम । अग्रजाय राज्य वितरितु कृतमति स शङ्करेण भूयोऽपि न्यषेधि । इत्थ चाऽनिच्छया स प्रतापाऽतिशयेन राजसिंहासनमारुरोह, स्वानुगतमनुज च वनवासमण्डला- खण्डल चकार । सप्तमसर्गे— अथाऽसौ निर्वापितचोलप्रतापो विक्रमादित्य कल्याणपुर प्रविवेश । अत्रान्तरे शृङ्गारवधूर्मानिकेतनसखियो वसन्त आविर्बभूव ।। वसन्तर्तोरभिनव-कल्पनो- त्प्रेक्षाकृतवर्णनेनैव सप्तमोऽय सर्ग समाप्तिमगात् । इति राज्ञो विक्रमाङ्कदेवस्य सम्बन्धे यानि पुस्तकानि लिखितानि ये च लेखाः प्रकाशितास्तेषा सूची परिशिष्टे निबद्धा । एभिर्विक्रमाङ्कदेवविषये बहुज्ञातं भवति । परन्तु विक्रमाङ्कदेवसूनुना विदुषा सोमेश्वर-तृतीयेण, येनाऽभिलषि- तार्थचिन्तामणिर्मानसोल्लासापरनामको ग्रन्थो व्यरचि¹, तेन विक्रमाङ्काभ्युदयाख्य चम्पूकाव्यमपि विरचित यस्य हस्तलिखित पुस्तक पट्टनस्थजैनभाण्डारे वरीवर्ति । परञ्च पुस्तकमेतत् खण्डितमिति महद्दुःखास्पदम् । अन्यथा तदाधारेण समालोचकाना कवेर्वेतिहासिकादिक मत साधु दुष्ट वेति निर्णय सुतरा सारल्येन सम्भाव्य. स्यात् । तत्पुस्तकावलोकनेन तत्र समाप्ति—सूचन पार्श्वतोऽवलोक्याऽ- नुमातु शक्यते यदस्य पुस्तकान्तरमपि कुत्रचिदवश्यं भवेदिति । आशासे यद्भविव्यत्काले कोऽपि गवेषणाकुशलो विद्वान् पुस्तकान्तरमस्याऽवाप्य प्रकाश्य च साधुवादाँल्लभतेति । अन्ते चाऽस्मिन्पुस्तकेऽस्मत्कृता प्रकाशनयन्त्रजाता वा ये दोषा गुणग्राहकाणां विदुषा लोचनपथे समागच्छेयुस्ते मर्षणीवास्तेषाञ्च सूचनयाऽनुग्राह्योऽय जन इति सदर्भञ्जमभ्यर्थनम् । यतो— गच्छतस्स्खलन क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः । इति । —शुभ भूयात्— ¹ सोलंकियो का प्राचीन इतिहास पृष्ठ १२५-१२६ ।