विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 230, कुल 493 में से
संदर्भ में पढ़ें( २०९ ) सान्द्रचन्दननिष्यन्दपङ्किलैस्तस्य वारणैः । क्षणमौर्वाग्निसन्तापः प्रविश्य शमितोऽम्बुधेः ॥५॥ अन्वयः सान्द्रचन्दननिष्यन्दपङ्किलैः वारणैः प्रविश्य अम्बुधेः ऽऔर्वाग्निसन्तापः क्षणं शमितः । व्याख्या सान्द्रो घनीभूतो यश्चन्दनस्य श्रीखण्डवृक्षस्य निष्यन्दः प्रस्रुतो द्रवीभूत- पदार्थस्तेन पङ्किलैश्चन्दनवृक्षसंघर्षवशादार्द्रशरीरैर्वारणैर्गजैः प्रविश्य समुद्रमध्ये जलक्रीडार्थं गत्वाऽम्बुधेः समुद्रस्यौर्वोऽग्निर्यौर्वाग्निर्बडवाग्निस्तस्मात्सन्तापः पीडा क्षणं क्षणमात्रं शमितः शान्तिं नीतः । 'और्वस्तु बाडवो वडवानलः' इत्यमरः । तस्य शीतचन्दनस्यन्दलिप्ताङ्गेषु गजेषु समुद्रं प्रविष्टेषु समुद्रस्य वडवानलतापः क्षणं शान्तिं गत इति भावः । गम्योत्प्रेक्षालङ्कारः । भाषा (अपने शरीरो को चन्दनवृक्षो से रगड़ने के कारण) गाढे २ चन्दन के रस से लथपथ उसके हाथियो ने समुद्र में स्नानादि क्रीडा के लिए प्रवेश कर (चन्दन की ठण्डक से) समुद्र की वडवानल की गर्मी को थोड़े देर के लिये शान्त कर दिया । और्वाग्नितप्तपाथोधौ चन्दनस्यन्दवासिताः । शीतोपचारसाम्राज्यं भेजुर्मलयनिम्नगाः ॥६॥ अन्वयः चन्दनस्यन्दवासिताः मलयनिम्नगाः और्वाग्नितप्तपाथोधौ शीतोपचार- साम्राज्यं भेजुः । व्याख्या चन्दनस्य श्रीखण्डवृक्षस्य स्यन्देन प्रस्रुतजलेन वासिताः सुगन्धित्वमापन्ना मलयस्य मलयाद्रेर्निम्नगा नद्यः 'स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा' इत्यमरः । और्वाग्निना वडवानलेन तप्त उष्णतां प्रापितः पायोधिस्समुद्रस्त- १४