भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 241, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 241

० ( २२० )' शुद्धकुङ्कुमादिरक्तीकरणलेपाभावाच्च शुक्लत्वं जातमिति भावः । अत्राप्य- सङ्गत्यलङ्कारः ।

भाषा दिशा रूपी भीतों पर उसके यशरूपी सफेदी की कूची के फिरने से द्रविड़ देश की ललनाओं के कपोलस्थल सफेद पड़ गये, यह एक आश्चर्य की बात है । अर्थात् द्रविड़ देश के वीरों को मारडालने से उनकी स्त्रियों के कपोलस्थल दुःख से अथवा केसरिया चन्दन आदि का प्रयोग न होने से सफेद पड़ गये थे ।

गलितोत्तुङ्गशृङ्गत्वद् द्विषां तेन जिगीषुणा । अपि लूनशिरस्केव राजधानी व्यधीयत ॥२३॥

अन्वयः जिगीषुणा तेन द्विषां राजधानी अपि गलितोत्तुङ्गशृङ्गत्वात् लूनशिरस्का इव व्यधीयत ।

व्याख्या जेतुमिच्छुर्जिगीषुस्तेन जिगीषुणा विजयैषिणा तेन विक्रमाङ्कदेवेन द्विषां शत्रूणां 'द्विड्विपक्षाहितामित्र दस्युशात्रवशत्रवः' इत्यमरः । राजधानी धीयन्ते राजानोऽस्यामिति धानी, राज्ञो धानी राजधानी प्रधानपुरी अपि गलितानि भग्नानि सन्ति पतितान्युत्तुङ्गान्यत्युच्चानि शृङ्गाणि शिखराणि 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । यस्याः सा तस्या भावो गलितोत्तुङ्गशृङ्गत्वं तस्मात् कारणाल्लूनं छिन्नं शिरो मस्तकं यस्याः सा लूनशिरस्केव 'शेषाद्विभाषेति कप्' व्यधीयत सम्पादिता । तस्या अत्युच्चप्रासादशिखरपतनात् राजधानी छिन्नमस्तकेव भाति स्मेति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा विजय की इच्छा रखने वाले विक्रमाङ्कदेव ने शत्रु की राजधानी के ऊँचे २ शिखरों के टूट कर नीचे गिर पड़ने के कारण, मानो उसे भी सिर कटी बना दिया ।

तत्तत्प्रतापमवोचन्त वस्त्रैर्विगलदश्रुभिः । पुरन्ध्रयो नरेन्द्राणां जलाद्र्रैस्समतां गतैः ॥२४॥