भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 248, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 248

( २२८ ) अन्वयः यद् अवगाहितनिःशेषशास्त्रनिर्मलधी अपि असौ कुमारः अकारणम् अधीरतां प्राप्तः । व्याख्या यद्यस्मात् कारणादवगाहितानि विलोडितानि निःशेषशास्त्राणि सकलागमा- स्तैर्निर्मला विशदा धीर्बुद्धिर्यस्य सः 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । निर्मथितसकलशास्त्रतत्त्वतया विशदप्रज्ञोऽपि असौ कुमारो विक्रमाङ्क- देवोऽकारण कारणरहितं यथा स्यात्तथाऽधीरता चाञ्चल्य प्राप्त । सचिन्तो भूदित्यर्थः । यदित्यनेन पूर्वश्लोकार्थ सम्बध्यते । भाषा इस कारण से सम्पूर्ण शास्त्रों के अध्ययन से निर्मल बुद्धि वाला भी वह राजकुमार निष्कारण ही अधीर हो उठा । सर्वस्वदानमालोच्य दुर्निमित्तप्रशान्तये । अप्रयाणमसौ चक्रे ततः कृष्णानदीतटे ॥३६॥ अन्वयः ततः असौ दुर्निमित्तप्रशान्तये सर्वस्वदानम् आलोच्य कृष्णानदीतटे अप्रयाणं चक्रे । व्याख्या ततस्तदनन्तरमसौ प्रसिद्ध कुमारो दुर्निमित्तस्य वामाक्षिस्फुरणरूपदुश्शकुनस्य प्रशान्तये निवारणाय सर्वस्वस्य विजयापहृताना सकलवस्तूना दान पात्रेषु वितरणं समालोच्य निर्धार्य कृष्णानद्यास्तटे तीरेऽप्रयाणमवस्थान चक्रे । तत्रैव स्थितोऽभू- दित्यर्थ । भाषा इसके अनन्तर वह (बाँई आँख का फडकना रूप) बुरे शकुन की शान्ति के लिये, विजय में प्राप्त सब वस्तुओं का दान कर देने का निश्चय कर, कृष्णा नदी के तट पर रुक गया ।