भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 251, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 251

( २३१ ) स्वयूपराजभक्तानां ककुभां दिशां दिशो दिग्ङ्गनाः प्रतीत्यर्थः । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । अत्यन्तत्वरितैरत्यन्तशीघ्रगामिभिः पदैश्चरणैर्विद्रवन्तमिव धावन्तमिवाऽभान्तं भ्राजमानम् (दूतं पप्रच्छ ।) भाषा राजा की खबर पूछने वाली, अपने स्वामी की भक्त दिशाओ की तरफ अत्यन्त वेग से भाग चलने वाले (दूत को देखा ।) अनर्थवार्तावहन—महापातकदूषितम् । गणयित्वेव धैर्येण सर्वथापि निराकृतम् ॥४१॥ अन्वयः अनर्थवार्तावहनमहापातकदूषितं गणयित्वा इव सर्वथा अपि धैर्येण निराकृतं (दूतं पप्रच्छ ।) व्याख्या अनर्थवार्ताया अनिष्टवृत्तान्तस्य वहनेन प्रापणेन धारणेन वा यन्महापातकं महापापं तेन दूषितं कलुषितहृदयं गणयित्वेव विदित्वेव धैर्येण धीरतया कर्त्रा सर्वथाऽपि सर्वप्रकारेणाऽपि निराकृतं परित्यक्तं (दूतं पप्रच्छ ।) अनिष्टवृत्तान्तधारण- महापापयेमं विगणय्य धैर्येणाऽपि त्यक्तसङ्गममित्यर्थः । अत्रोत्प्रेक्षालङ्कारः भाषा अशुभ वार्ता को धारण करने के पाप से मानो दूषित समझ कर धैर्य से एकदम परित्यक्त अर्थात् अधीर (दूतको पूछा ।) । कृतप्रणाममासन्नमथ तं राजनन्दनः । कुशलं तातपादानामिति पप्रच्छ वत्सलः ॥४२॥ अन्वयः अथ वत्सलः राजनन्दनः आसन्नं कृतप्रणामं तं तातपादानां कुशलम् इति पप्रच्छ ।