भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 252, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 252

.( २३२ ) व्याख्या अथाभ्यन्तरं वत्सलः पितृविषयकस्नेहवान् राजनन्दनो राजकुमार आसन्नं समीपागतं कृतप्रणामं कृतनमस्कारं तं दूतं तातपादानां मम पितृचरणानां कुशलं क्षेममस्तीति 'कुशलं क्षेममस्त्रियाम्' इत्यमर । पप्रच्छ पृष्टवान् । भाषा इसके अनन्तर पास में आकर प्रणाम करने वाले उस दूत को पिता का प्रेम रखने वाले राजपुत्र ने पिता जी कुशल तो है, ऐसा पूछा । पञ्चभिः कुलकं, पञ्चश्लोकात्मकं कुलक'मत्र समासमित्यर्थः । उपविश्य शनैः पार्श्वे स निरुत्साहया गिरा । कथयामास नासाग्र-विलुठद्बाष्पशीकरः ॥४३॥ अन्वयः सः पार्श्वे शनैः उपविश्य नासाग्रविलुठद्बाष्पशीकरः (सन्) निरुत्साहया गिरा कथयामास । व्याख्या स दूतः पार्श्वे समीपे शनैर्मन्दमुपविश्य स्थित्वा नासाग्रे नासिकाग्रे विलुठन्ती वर्तमाना बाष्पशीकरा अश्रुबिन्दवो यस्यैवं भूतस्सन् 'शीकरोऽम्बुकणा स्मृताः' इत्यमरः । निरुत्साहयोत्साहशून्यया गिरा वाचा 'गीर्वाग्वाणी सरस्वती' इत्यमरः । कथयामास उवाच । भाषा वह दूत धीरे से पास में बैठ कर, नासिका के अग्रभाग में आंसू की बूंद से युक्त होकर अनुत्साहित वाणी से बोलने लगा । विधेहि दृढमात्मानं मावधीरय धीरताम् । कुमार व्यापिपत्यैष दुर्वाताप्रलयाम्बुदः ॥४४॥ १ छन्दोयदपद पद्य तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मक सदानितक त्रिभिरिष्यते । कलापक चतुर्भिश्च पञ्चभि कुलक मतम् । २ निरुत्सबमेत्यपि पाठ