विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 253, कुल 493 में से
संदर्भ में पढ़ें( २३३ ) अन्वयः हे कुमार आत्मानं दृढं विधेहि धीरतां मा अवधीरय एषः दुर्वाती- प्रलयाम्बुदः व्यासिपर्ति । व्याख्या हे कुमार ! हे राजकुमार ! विक्रमाङ्कदेव ! आत्मानं स्वं दृढं निश्चलं विधेहि कुरु । धीरतां धैर्यं माऽवधीरय मा तिरस्कुरु । एष अग्रे कथनीयो दुर्वार्तारूपोऽमङ्गल्यवृत्तान्तरूपः प्रलयाम्बुदः प्रलयकालिकमेघो व्यासिपर्ति व्यापारं करोति । प्रलयकालिकमेघजन्यकष्टसमं कष्टप्रदां वार्तां श्रोतुं धैर्ययुक्तो भवेति भावः । भाषा हे राजकुमार ! विक्रमाङ्कदेव ! अपने को कड़ा बनालो । धैर्य मत छोड़ो । आगे कहा जाने वाला बुरा वृत्तान्त रूपी प्रलयकाल का मेघ अब व्यापार करने जा रहा है । अर्थात् प्रलयकाल के मेघ से होने वाले कष्ट के समान कष्ट देने वाली दुखद वार्ता अब मैं सुनाने जा रहा हूँ । इसलिये दृढ़ होकर धैर्य से सुनो । आपाण्डुपाण्ड्यमालोल-चोलमाक्रान्तसिंहलम् । देवस्त्वद्विजयं श्रुत्वा भेजे सुखमयीं स्थितिम् ॥४५॥ अन्वयः देवः आपाण्डुपाण्ड्यम् आलोलचोलम् आक्रान्तसिंहलं त्वद्विजयं श्रुत्वा सुखमयीं स्थिति भेजे । व्याख्या देवो राजाऽऽहवमल्लदेव आपाण्डुरासमन्तात्पाण्डुः पाण्डुरः 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः । पाण्ड्यः पाण्ड्यनृपो येन तमासमन्ताल्लोलश्चलश्चोलदेशभूपो येन तमाक्रान्तः सिंहलः सिंहलद्वीपो येन तं तव भवतो विजयं दिग्विजयं श्रुत्वाऽऽ- कर्ण्य सुखमयीं सुखैकानुभवभूतां स्थितिमवस्थां भेजे प्राप ।