विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 259, कुल 493 में से
संदर्भ में पढ़ें( २४० ) पुरे शिवलोके कैलासे समारोहणं गमनमुत्सव आनन्दोऽस्ति । कृतकृत्यस्य मेऽधुना शिवलोकप्राप्तिः प्रभूतप्रमोदावहेति भाव । भाषा इस प्रकार सांसारिक समस्त कार्यों को सफलता पूर्वक सम्पादन करने वाले और शङ्कर के भक्त शिरोमणि, मेरा, पार्वतीपति महादेव की कैलास नगरी में जाना, उत्सव है । आत्मानमुन्मदद्वाःस्थ—गलहस्तितसेवकाः । अगम्यमपि दैवस्य विदन्ति हतपार्थिवाः ॥५६॥ अन्वयः उन्मदद्वाःस्थगलहस्तितसेवकाः हतपार्थिवाः आत्मानं दैवस्य अगम्यम् अपि विदन्ति । व्याख्या द्वारि तिष्ठन्तीति द्वाःस्था द्वारपाला उन्मदा मदोन्मत्ताश्च ते द्वास्थाश्चो- न्मदद्वास्थास्तैर्गलहस्तिता गले हस्तं दत्वा दूरं प्रापितास्सेवका राजभक्ता यैस्ते हता अज्ञानेन हताः सम्यग्ज्ञानपराङ्मुखाः पार्थिवा राजान आत्मानं स्वं दैवस्य विधेः 'विधिर्विधाने दैवे च' इत्यमरः । अगम्यमप्यविषयमपि विदन्ति जानन्ति । अज्ञानिनो राजानो मदेन दैवमपि तिरस्कुर्वन्तीति भावः । भाषा मदोन्मत्त दरबानों द्वारा गर्दनिया देकर राजभक्त लोगों को हटा देने वाले अज्ञानी राजा लोग अपने को दैव से भी अगम्य समझने लगते हैं । अर्थात् दुरभिमान से दैव भी उनका कुछ बिगाड़ नहीं सकता ऐसा समझने लगते हैं । मम शुद्धे कुले जन्म चालुक्यवसुधाभृताम् । कियत्पोऽपि गताः श्रोत्र-मैत्रीं शास्त्रार्थविप्रुषः ॥५७॥ अन्वयः चालुक्यवसुधाभृतां शुद्धे कुले मम जन्म कियत्यः शास्त्रार्थविप्रुषः अपि श्रोत्रमैत्रीं गताः ।