विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 260, कुल 493 में से
संदर्भ में पढ़ें( २४१ ) व्याख्या चालुक्यस्य चालुक्यवंशस्य वसुधां पृथ्वीं बिभ्रति पालयन्तीति चालुक्यवसुधा- भृतस्तेषां चालुक्यभूपालानां शुद्धे निर्मले कुले वंशे मम जन्म जनुः । 'जनुर्जन्म- जन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । कियत्यो बहुसंख्याताः शास्त्रार्थविप्रुषोऽपि शास्त्रार्थरूपजलविन्दवोऽपि 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्य- मरः । श्रोत्रेण कर्णेन सह मैत्रीं परिचयं गताः प्राप्ताः कर्णगोचरं गता इत्यर्थः । श्रेष्ठचालुक्यवंशे जन्मना सह शास्त्रार्थोऽपि कर्णगोचरीकृत इति भावः । भाषा चालुक्यवंशीय राजाओं के विशुद्ध कुल में मेरा जन्म हुआ है। शास्त्रार्थ के कितने ही छींटे मेरे कानों में पड़े हैं। अर्थात् शास्त्रार्थों का भी मैंने बहुत श्रवण किया है । जानामि करिकर्णान्त-चञ्चलं हतजीवितम् । मम नान्यत्र विश्वासः पार्वतीजीवितेश्वरात् ॥५८॥ अन्वयः (अहं) हतजीवितं करिकर्णान्तचञ्चलं जानामि । मम पार्वतीजीविते- श्वरात् अन्यत्र विश्वासः न । व्याख्या अहं हतजीवितमधमजीवनं करीणो हस्तिनः कर्णस्तस्यान्तः प्रान्तभागस्त- द्वच्चञ्चलमस्थिरं जानामि वेद्मि । 'क्षणभङ्गुराः प्राणाः' इति श्रुतेः । मम पार्वत्या गिरिजाया जीवितस्य जीवनस्येश्वरः शिवस्तस्मादन्यत्र स्थाने विश्वासो ममाऽऽस्था नाऽस्ति । सत्यत्वस्य स्थिरत्वस्य नित्यत्वस्य वा सत्ता शिवं विहाय नाऽन्यत्र । अतः शिवसायुज्यप्राप्तिरेव मम मुख्यमुद्देश्यमिति भावः । भाषा मैं इस अधम जीवन को हाथियों के कान के प्रान्त भाग के सदृश चञ्चल समझता हूँ। मेरी पार्वतीपति शंकर को छोड़ कर अन्यत्र आस्था नहीं है। परंतु मैं शिवसायुज्य की कामना करता हूँ। १६