विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 261, कुल 493 में से
संदर्भ में पढ़ें( २४२ ) उत्सङ्गे तुङ्गभद्रायास्तदेष शिवचिन्तया । वाञ्छाम्यहं निराकर्तुं देहग्रहविडम्बनाम् ॥५९॥ अन्वयः तत् एषः अहं तुङ्गभद्रायाः उत्सङ्गे शिवचिन्तया देहग्रहविडम्बनां निराकर्तुं वाञ्छामि । व्याख्या तत्तस्मात्कारणात् शिवसायुज्यप्राप्तिहेतोः एषोऽहं तुङ्गभद्रायास्तुङ्गभद्रा- नाम्न्या नद्या उत्सङ्गेऽङ्के तटे इत्यर्थः । शिवचिन्तया शिवध्यानेन देहस्य शरीरस्य ग्रहो ग्रहणं धारणमित्यर्थः । तस्य विडम्बनामुपद्रवं जन्मग्रहणदुःखं निराकर्तुमपनेतुं वाञ्छामि समभिलषामि । शिवसायुज्येन पुनर्जन्मग्रहणदुःखं मा भवत्वित्यभिलषामीति भावः । भाषा शिवसायुज्य मुक्ति प्राप्त होने के लिये मैं तुङ्गभद्रा नदी के तट पर शङ्कर का ध्यान करते हुए फिर से जन्म लेने के दुःख को सदा के लिये दूर कर देने की कामना रखता हूँ । यातोऽयमुपकाराय कायः श्रीकण्ठसेवया । कृतघ्नव्रतमेतस्य यत्र तत्र विसर्जनम् ॥६०॥ अन्वयः अयं कायः श्रीकण्ठसेवया उपकाराय यातः । एतस्य यत्र तत्र विसर्जनं कृतघ्नव्रतम् । व्याख्या अयं कायो देहः श्रीकण्ठस्य शिवस्य सेवया परिचर्ययोपकाराय स्वाभीष्ट- सिद्ध्यर्थं यातो गतः । एतस्य वपुषो यत्र तत्र तीर्घादन्यत्र विसर्जनं त्यागः कृतं घ्नन्तीति कृतघ्नाः परोपकारविस्मरणशीलास्तेषां व्रतमनुष्ठानं कार्यमित्यर्थः । कृतघ्ना एव येनाभीष्टसिद्धिं साधयन्ति तस्य कार्यनिष्पादनानन्तरं तादृशं योग्यं समादरं न कुर्वन्ति । एवमेवानेन देहेन शिवसेवाद्धारा मम महानुपकारो जातस्तस्मादस्य तीर्थस्थानेष्वेव परित्यागो युक्ततर इति भावः ।