विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 267, कुल 493 में से
संदर्भ में पढ़ें( २५० ) अन्वयः अथ अविश्रान्तबाष्पसन्तानदुर्दिनः असौ कियतीः अपि कालकलाः तथा स्थित्वा अचिन्तयत् । व्याख्या अथ पितृमरणदुर्घटनावश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्पसंतानस्याऽ- श्रुधाराया दुर्दिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतीरपि काश्चिदपि कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ- चिन्तयत् चिन्तयामास । भाषा बाद में लगातार आंसुओं की झड़ी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल तक उसी दशा में रहने के बाद विचार किया । तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् । प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥७४॥ अन्वयः हे आदिकूर्म कर्माणि तव सुखस्थितिं निषेधन्ति । हे शेष निष्पेषात् , अस्थिपञ्जरशेषतां प्रयाहि । व्याख्या हे आदिकूर्म ! हे कच्छपावतार ! कर्माणि भाग्यानि तव सुखस्थितिं सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू- भारधारणेन भूवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष । नागराज ! निष्पेषाद्वाशोऽभावादूभूभारस्याऽधिक्यात्तस्य धारणेन तवाऽङ्गाना- मत्यन्तसम्मर्दनादस्थिपञ्जरः शेषोऽवशिष्टांशो यस्य स तस्य भावोऽस्थिपञ्जर- शेषता तामधिकभारवहनजन्यदुःखातिशयान्मांसांशपेणाऽस्थिमात्रावशिष्टस्वरूपं प्रयाहि प्राप्नुहि । भाषा हे आदिकूर्म ! हे विष्णु के अवतार रूप । दुर्भाग्य से तुम को अब चैन से रहने को नहीं मिल सकता । क्योंकि राजा आहवमल्लदेव के