विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 278, कुल 493 में से
संदर्भ में पढ़ें( २६२ ) व्याख्या अथ पुरीदर्शनानन्तरमग्रे पुरः समागतेन सभाजनार्थं समुपस्थितेनाऽग्रजन्मना ज्येष्ठभ्रात्रा सोमदेवेन मानितस्समादृतस्स विक्रमाङ्कदेवस्तेनैव सोमदेवेनैव सह नृपमन्दिरं राजसदनं क्लेशेन दुःखेन सहितं सबलेशं सदुःखं शोकमनुभवन्नित्यर्थः । विवेश प्रविष्टः । भाषा कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुख से गया । अन्योन्यकण्ठाश्लेषेण पीडितस्येव निर्ययुः । बाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥६३॥ अन्वयः तत्र तयोः अन्योन्यकण्ठाश्लेषेण पीडितस्य इव बाष्पाम्भसः अति- मांसलाः धाराः चिरं निर्ययुः । व्याख्या तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा- श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्पीडितस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ- श्रुजलं तस्योऽतिमांसला अतिबलयत्य अतिविशाला इत्यर्थः । 'बल्यान्मां- सलोत्सलः' इत्यमरः । धाराः प्रवाहाश्चिर बहुकालपर्यन्त निर्ययुर्निस्स्रुताः । तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानो दबने से आंसुओं की विशाल धाराएँ चिरकाल तक निकलती रहीं । क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्नेहवृत्तिभिः । केऽपि कैतवबाह्याभिरत्यवाह्यन्त वासराः ॥६४॥ अन्वयः — क्रमात् अदुःखाभ्यां ताभ्यां कैतवबाह्याभिः अन्योन्यस्नेहवृत्तिभिः के अपि वासराः अत्यवाह्यन्त ।