भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 279, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 279

( २६३ ) व्याख्या क्रमात् क्रमशॊ नास्ति दुःखं ययोस्तौ ताभ्यां दुःखरहिताभ्यां ताभ्यां सोमदेवविक्रमाङ्कदेवाभ्यां कैतवेन कपटेन 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । बाह्या बहिर्भूतास्ताभिर्निष्कपटाभिरन्योन्यस्य परस्परस्य स्नेहवृत्तिभिः प्रेमार्द्रव्यवहारैः केऽपि कियन्तोऽपि वासरा दिवसा अत्यवाह्यन्त यापिताः । भाषा धीरे धीरे दुःख से मुक्त दोनों भाइयों ने परस्पर कपट रहित, प्रेम भरे व्यवहारों में कुछ दिन बिताये । ज्येष्ठं गुणैर्गरिष्ठोऽपि पितुस्तुल्यममंस्त सः । महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥६५॥ अन्वयः सः गुणैः गरिष्ठः अपि ज्येष्ठं पितुः तुल्यम् अमंस्त । महात्मनाम् अमार्गेण प्रवृत्तयः न भवन्ति । व्याख्या स विक्रमाङ्कदेवो गुणैश्शौर्यदयादाक्षिण्यादिनृपोचितगुणैर्गरिष्ठोऽपि गुरुतमोऽपि श्रेष्ठोऽपीतिभावः । ज्येष्ठमग्रजं सोमदेवं पितुराहवमल्लदेवस्य तुल्यं सम्मानेन समानममंस्त विज्ञातवान् । यतो महात्मनां मनस्विनां महानुभावानाममार्गेणाऽ नुचिताध्मना प्रवृत्तयोऽध्यवसाया न भवन्ति । 'ज्येष्ठो भ्राता पितुः सम' इति- स्मरणात् । अत्रार्थान्तरन्यासालङ्कारः । भाषा शौर्यादिगुणों में श्रेष्ठ होने पर भी विक्रमाङ्कदेव अपने बड़े भाई सोमदेव को पिता आहवमल्लदेव के समान ही आदरपूर्वक मानता था । बड़े लोगों के व्यवहार अनुचित तरीके से नहीं होते । स दिग्बलममालोच्य वस्तुजातमुपार्जितम् । तस्मै समर्पयामास नास्ति लोभो यशस्विनाम् ॥६६॥