विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 280, कुल 493 में से
संदर्भ में पढ़ें( २६४ ) अन्वयः सः दिग्वलयम् आलोढ्य उपार्जितं वस्तुजातं तस्मै समर्पयामास। यशस्विनां लोभः न अस्ति। व्याख्या स विक्रमाङ्कदेवो दिग्वलयं दिङ्मण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु- जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ। यशस्विनां कीर्तिमत्तां लोभस्सम्पत्तिलोभो नास्ति न भवति। अत्रार्थान्तरन्यासालङ्कारः। भाषा विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजें अपने बड़े भाई सोमदेव को दे दीं। यशस्वी लोगों में लोभ नहीं होता। जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः। एषा भगवती केन भज्यते भवितव्यता ॥६७॥ अन्वयः ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः। एषा भगवती भवितव्यता केन भज्यते। व्याख्या ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिर्दिवसैः कस्मि- श्चित्काले गते सतीत्यर्थः। सोमेश्वरः सोमदेवः पापे पापयुक्तकर्मणि रत आसक्तो जातो बभूव। एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण भज्यते विनाश्यते दूरीक्रियते इत्यर्थः। भाषा इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया। भगवती भवितव्यता को कौन टाल सकता है। मदिरेव नरेन्द्रश्रीस्तस्याभून्मदकारणम्। न विवेद परिक्षुब्धं यदशेषं यशोंऽशुकम् ॥६८॥