विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 281, कुल 493 में से
संदर्भ में पढ़ें( २६५ ) अन्वयः तस्य नरेन्द्रश्रीः मदिरा इव मदकारणम् अभूत् । यत् (सः) परि- भ्रष्टम् अशेषं यशोंऽशुकं न विवेद । व्याख्या तस्य सोमदेवस्य नरेन्द्रश्री राजलक्ष्मीर्मदिरेव मद्यमिव मदकारणमविवेक- हेतुरभूत् । यद्यस्मात्कारणात् स सोमदेव परिभ्रष्ट गलितमशेषमखिल यशः कीर्तिरेवांशुक वस्त्र न विवेद न ज्ञातवान् । यथा कश्चिन्मद्योन्मत्तो मदान्धत्वात् स्वशरीरात् गलित वस्त्र न जानाति तथैवाऽय सोमदेवोऽविवेकित्वादखिल यशो विनष्टमिति न जानाति स्मेति भाव । भाषा सोमदेव की राजश्री ही मदिरा के समान उसे मदोन्मत्त बनाने में कारण हुई । इससे उसने पूर्णतया नष्ट होने हुए यश रूपी वस्त्र को नहीं जाना । अर्थात् जिस प्रकार किसी शराबी का शरीर पर का पूरा कपड़ा गिर जाता है तो भी उसे वह नशे में नहीं जान पाता । उसी प्रकार राजलक्ष्मी के मद में चूर अविवेकी सोमदेव को सम्पूर्ण कीर्ति नष्ट हो जाने का पता ही नहीं चला । बाधिर्यमिव मङ्गल्य-तूर्यध्वनिभिरागतः । ईषदप्येष नाश्रौषीद् वचनानि महात्मनाम् ॥४६॥ अन्वयः एषः मङ्गल्यतूर्यध्वनिभिः बाधिर्यम् आगतः इव महात्मनां वचनानि ईषद् अपि न अश्रौषीत् । व्याख्या एष सोमदेवो मङ्गलस्य माङ्गलिक तूर्यं वाद्यविशेष तस्य ध्वनिभिर्नादैर्बाधिर्यं बधिरतामागत प्राप्त इव महात्मनां कुलवृद्धाना महानुभावानां वचनानि सद्वाक्यान्येषदपि मनागपि नाश्रौषीत् नाशृणोत्कणितवान् । राजलक्ष्म्या मदोन्मत्तो माङ्गलिकवाद्यविशेषनादेन बधिरतामिवाऽऽपन्न सोमदेव श्रोत्रेन्द्रियाभावात् महानुभावै समुपदिष्टानि वाक्यानि नाशृणोदिति भाव । उत्प्रेक्षालङ्कारः ।