भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 284, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 284

( २६८ ) भाषा हाथी, पापी सोमदेव के बैठने से अपवित्र अपनी पीठ को, ऊपर उछाले हुए अपने सूँड के जलकणों के पानी से मानों पानी छिड़क कर पवित्र करते थे । फालैर्दिव्यमिवागृह्णन् मण्डल भ्रमणोद्यताः । अयोग्यतां साधयितुं तस्य सेनातुरङ्गमाः ॥१०३॥ अन्वयः तस्य अयोग्यतां साधयितुं मण्डल भ्रमणोद्यताः सेनातुरङ्गमाः फालै दिव्यम् इव अगृह्णन् । व्याख्या तस्य सोमदेवस्याऽयोग्यता राजपदानर्हत्वं साधयितुं प्रमाणीकर्तुं मण्डलेन मण्डलाकारेण भ्रमणं परिभ्रमणं तस्मिन्नुद्यतास्तत्परा मण्डले शुचिदेशे यद्भ्रमणं गमनं तत्रोद्यता लग्ना वा सेनाया वाहिन्यास्तुरङ्गमा अश्वाः फालैः स्फालैरुर्ध्वमुत्प्लुत्य गमनैर्दिव्यं शपथमिवाऽगृह्णन् । यथा केचन मनुष्याः कमपि विषयं प्रमाणीकर्तुं पवित्रमण्डले गत्वोत्थाय शपथग्रहणं कुर्वन्ति । तथैव तैरश्वैर्मण्डलाकारभ्रमणव्याजेन पवित्रमण्डलमाश्रित्योत्फालैश्चोर्ध्वमुत्थाय सोमदेवस्याऽयोग्यतां साधयितुं शपथग्रहणमिव कृतम् । अथवा यथा केचि- न्मनुष्याः प्रायश्चित्तग्रहणाय पवित्रमण्डलाह्वयस्थानेषु धावित्वा उत्फालं कुर्वन्त स्तेन च स्वस्य निष्पापतां प्रमाणयन्ति, तथैव मण्डलाकार-क्रीडा-भ्रमणव्याजेन, उत्फालैश्चाश्वाः सोमदेवसंसर्गजन्यपापादात्मानं पापरहितं साधयितुं दिव्यमिवाऽ- कुर्वन्निति भावः । भाषा उस सोमदेव की अयोग्यता सिद्ध करने के लिये उसकी सेना के घोडे मण्डलाकार (गोल) घूमते हुए या प्रायश्चित्त भूमि में घूमते हुए अपनी उछलने की क्रीडा से या प्रायश्चित्त के लिये लम्बी छलाग मारने से मानो दिव्य का ग्रहण करने लगे । अथवा जिस प्रकार कोई मनुष्य खड़ा होकर शपथ ग्रहण करता है उसी प्रकार ये घोड़े गोल घूमते २ बीच २ में उछल कर मानो राजा सोमदेव की अयोग्यता की कसम खा रहे थे ।