भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 283, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 283

( २६७ ) अन्वयः अपास्तकुन्तलोल्लासा वैराग्यं दधती धरा तस्मिन् धवे जीवति एव विधवा इव व्यराजत । व्याख्या अपास्तः परित्यक्तो निरस्तो वा कुन्तलानां कर्णाटदेशानां केशानां वोल्लास- स्तत्समुन्नतिः प्रसाधनं वा यया सा वैराग्यं विरक्ततां दधती धारयन्ती धरा पृथ्वी तस्मिन् सोमदेवे धवे पत्यौ जीवत्येव विद्यमानेऽपि विगतो भूतो धवः पतिर्यस्याः सा विधवा सेवं मृतपतिकानार्यिवेव व्यराजत विभाति स्म। कर्णाटदेशरूप- केशानामप्रसाधनादर्थात् कर्णाटदेशस्याऽवनतेः पृथ्वी सत्यपि कर्णाटदेशाधिपे सोमदेवे विधवेव स्थितेति भावः । विधवेव केशप्रसाधनं न करोतीति दिक् । भाषा अपने कर्णाट देश रूपी केशों का शृङ्गार न करने वाली अर्थात् सोमदेव के पापाचरण से कर्णाटदेश की अवनति होने से, विरक्त पृथ्वी सोमदेवरूपी पति के जीवित रहने पर भी विधवा स्त्री के समान दिखाई देती थी । क्योंकि भारत- वर्ष में पहिले काल में सधवा स्त्रियाँ ही केशों का शृङ्गार करती थीं । चक्रुः स्तम्बेरमाः पृष्ठे तदारोहणदूषिते । अभ्युक्षणमिवोदस्त-हस्तशीकरवारिभिः ॥१०२॥ अन्वयः स्तम्बेरमाः तदारोहणदूषिते पृष्ठे उदस्तवस्तशीकरवारिभिः अभ्युक्षणम् इव चक्रुः । व्याख्या स्तम्बेरमा इभाः 'इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः' इत्यमरः । तस्य पापस्य सोमदेवस्याऽरोहणेन तन्निषद्या गतेन दूषिते कलुषीकृते पृष्ठे, उदस्तान्तूर्ध्वं क्षिप्तानि हस्तेन शुण्डादण्डेन शीकरवारीणि जलकणान्युदकानि 'शीकरोऽम्बुकणाः स्मृताः इत्यमरः । तैरुदस्तहस्तशीकरवारिभिरभ्युक्षणं सिञ्चनमिव चक्रुः । अपवित्रस्थानं जलेनाभ्युक्ष्य पवित्रीक्रियते तथैव हस्तिनः पापसोमदेवस्थित्याऽ- पवित्रे पृष्ठे शीकराणि प्रक्षिप्य तत्पवित्रीचक्रुरिति भावः । उत्प्रेक्षालङ्कारः ।