भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 288, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 288

( २७२ ) पिशाच इव सर्वेषां छलान्वेषणतत्परः। नासौ किमपि कर्तव्यं विवेद मदमूर्च्छया ॥१०६॥ अन्वयः असौ पिशाचः इव सर्वेषां छलान्वेषणतत्परः (सन्) मदमूर्च्छया किम् अपि कर्तव्यं न विवेद । व्याख्या असौ सोमदेवः पिशाच इव राक्षस इव सर्वेषां जनानां छलस्य कपटव्यवहार- स्यान्वेषणे संपादने तत्परः परायणस्सन् मदेन राजमदेन या मूर्च्छा विवेकाविवेक- शून्यत्वं तया किमपि किञ्चिदपि कर्तव्यं राज्यभारवहनकर्त्तव्यं न विवेद न जानाति स्म । यथा पिशाचः सर्वान् जनान् दुःखयितुं तत्परो भवति तथैवाऽयं राजाऽपि मदेन सर्वाः प्रजाः कपटव्यवहारेण पीडयन् स्वकर्तव्यं न पालयति स्मेति भावः । उपमालङ्कारः । भाषा वह राजा सोमदेव राजमद की बेहोशी में विवेक शून्य हो कर राक्षस के समान सब को कष्ट देने में तत्पर अर्थात् सबके साथ कपट व्यवहार करने में तत्पर होने से अपने कर्तव्य पथ से च्युत हो गया । न्यरज्यत समस्तोऽपि लोभैकवसतेर्जनः । त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥११०॥ अन्वयः समस्तः अपि जनः लोभैकवसतेः (तस्मात्) न्यरज्यत । हि भूपानां त्यागः विश्वसंवननौषधं नाम (अस्ति) व्याख्या समस्तोऽखिलोऽपि जनः प्रजाजनः लोभस्याऽपरग्रहस्यैका वसतिः स्थानं तस्मादत्यन्तलोभसंतप्तात् सोमदेवात् व्यरज्यत विरक्तो जातः स्नेहसाहित्यं संप्राप्त इति भावः । हि यस्मात्कारणात् भूपानां नृपाणां त्यागो लोभरहितदानादिकं विश्वस्य संसारस्य संवननस्य वशीकरणस्य 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । औषधं भेषजं नामाऽस्ति । अर्थान्तरन्यासालङ्कारः ।