विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 291, कुल 493 में से
संदर्भ में पढ़ें. ( २७५ ) व्याख्या सपरिग्रहा सपरिच्छदा श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य प्रणयेन प्रेम्णा प्रवणोन्मुखा प्रणयप्रवणा प्रीतितत्परैवाऽऽसीत् । परं किन्तु विक्रमाङ्को विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां नाङ्गीकरोति स्म न स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेवं राजा- सने स्थापयितुमैच्छन् । परं सः सोमदेवसंसर्गादपवित्रं राजासनं न स्वीचकारेति भावः । भाषा यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास उसके प्रेम में तत्पर होकर आ रही थी । अर्थात् मन्त्री लोग सोमदेव को राज- गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु उसने उस गद्दी को सोमदेव के संसर्ग से कलङ्कित समझ स्वीकार नहीं किया । बहुना किं प्रलापेन तथा राज्यं चकार सः । यथेन्दुमित्रे चालुक्य-गोत्रे प्राप कलङ्कताम् ॥११४॥ अन्वयः बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्य- गोत्रे (सः) कलङ्कतां प्राप । व्याख्या बहुना प्रलापेनाऽतिसंजल्पनेन किं किं प्रयोजनं न किमपीत्यर्थः । स सोमदेव- स्तथा तादृशं राज्यं राजकार्यं चकार कृतवान् यथा येनेन्दुमित्रे चन्द्रसदृशधवले चालुक्यगोत्रे चालुक्यनृपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः । अनेनैव धवले चालुक्यवंशे कलङ्कः स्थापित इति भावः । भाषा अधिक कहने से क्या लाभ ? सोमदेव राजा ने ऐसा राज्य किया जिससे चन्द्रमा के सदृश निर्मल चालुक्य वंश में यह कलङ्क हो गया । न शशाक निराकर्तुमग्रजस्य दुराग्रहम् । राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥