विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 294, कुल 493 में से
संदर्भ में पढ़ें( २७८ ) व्याख्या मया विक्रमाङ्कदेवेन निबिडमत्पन्तं निपीड्यमानास्संबाध्यमानाः पराजिता इत्यर्थः । ते द्रविडादयो द्रविड़देशनृपतिप्रभृतयो विपर्यस्तमत्याचारिणमप्याश्चर्यं ज्येष्ठभ्रातरं सोमदेवं बाधितुं पीडयितुं विजेतुमित्यर्थः । न प्रभवन्ति न समर्था भविष्यन्ति । दुराचारिण्यपि भ्रातरि सहजस्नेहात्तस्त दुराचारेण सम्भाविता- क्रमणकारिषु स्वयमाक्रमणं कृत्वा भ्रातूरक्षणाद्विक्रभाङ्कदेवस्य महापुरुषत्वं व्यज्यते । दुराचारिणां राज्ञां पराजयोऽपि ध्वन्यते । भाषा दक्षिण समुद्र की ओर जाकर द्रविड देश के राजा आदि को खूब पीसूंगा अर्थात् हराऊंगा जिससे कुमार्ग में प्रवृत्त भी मेरे बड़े भाई को वे तग न कर सकेंगे अर्थात् परास्त न कर सकेंगे। इति स मनसा निश्चित्यार्थं चुलुक्यशिखामणिः श्रवणसरणिं, भिन्दन्भेरीरवेण विनिर्ययौ । अपि च कुपितः क्ष्माभृत्सेनागजेषु निजेषुभिः कतिषु विदधे धैर्यध्वंसं न साहसलाञ्छनः ॥११६॥ अन्वयः -चुलुक्यशिखामणिः सः इति अर्थं मनसा निश्चित्य भेरीरवेण श्रवण- सरणिं भिन्दन् विनिर्ययौ । अपि च साहसलाञ्छनः कुपितः (सन्) निजेषुभिः कतिषु क्ष्माभृत्सेनागजेषु धैर्यध्वंसं न विदधे । व्याख्या चुलुक्यस्य चालुक्यवंशस्य शिखामणिश्चूडारत्नं स विक्रमाङ्कदेव इति पूर्वोक्त- प्रकारेणार्थं सर्वं वस्तुजातं मनसा हृदयेन निश्चित्य निर्धार्य भेर्या दुन्दुभे रवेण नादेन ‘भेरी स्त्री दुन्दुभिः पुमान्’ इत्यमरः । श्रवणयोः कर्णयोः सरणिं रन्ध्रं भिन्दन् विदारयन् विनिर्ययौ विनिजंगाम । अपि चाऽन्यच्च साहसमेवोत्साह एव लाञ्छनं चिह्नं यस्य सः साहसलाञ्छन उत्साहप्रती कुपितस्सन् क्रुद्धस्सन् निजेषुभिस्स्वकीयबाणैः कतिषु कियत्सु क्ष्माभृतः नृपस्य सोमदेवस्य सेनाया वाहिन्या गजा हस्तिनस्तेषु धैर्यस्य धीरताया ध्वंसं विनाशं न विदधे न कृतवान् ।