विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 297, कुल 493 में से
संदर्भ में पढ़ें॥ श्रीः ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् पश्चमः सर्गः। नैष दुर्मतिरि मं सहिष्यते राज्यकण्टकविशोधनोद्यतः । अग्रजादिति विशङ्क्य सङ्कटं सिंहदेवमनुजं निनाय सः ॥१॥ अन्वयः सः, राज्यकण्टकविशोधनोद्यतः दुर्मतिः एषः इमं न सहिष्यते इति अग्रजात् सङ्कटं विशङ्क्य अनुजं सिंहदेवं निनाय। व्याख्या स विक्रमाङ्कदेवो, राज्यस्य स्वराष्ट्रस्य कण्टकाः शत्रुरूपदायादास्तेषां विशोधनेऽपसारणे मारणे इत्यर्थः। उद्यतस्तत्परो स्वराष्ट्रदायादापदूरोकरणे समुद्यतो दुर्मतिर्दुबुद्धिरेष सोमदेव इमं सिंहदेवनामानं कनिष्ठभ्रातरं न सहिष्यते स्यानानुकूल्येन न मंस्यते तस्याऽपि विनाशो समुद्यतो भवेदिति भावः। इति हेतोरग्रजात्सोमदेवात्संकटं बाधां विशङ्कय विनवर्यानुजं कनिष्ठभ्रातरं सिंहदेवं जयसिंहापरनामान निनायऽऽत्मना सह नीतवान्। अस्मिन् सर्गे रथोद्ध- ताच्छन्दः—'रान्नराविह रथोद्धता लगौ' इति लक्षणात्। भाषा निष्कण्टक राज्य करने की इच्छा से, राज्य में बाधक दायादो को दूर कर देने में तत्पर, यह दुर्बुद्धि सोमदेव, कही छोटे भाई सिंहदेव उर्फ जयसिंह का भी अस्तित्व सहन न कर सके, ऐसे संकट की आशंका से, विक्रमाङ्कदेव ने उसको भी साथ ले लिया।