विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 298, कुल 493 में से
संदर्भ में पढ़ें( २८२ ) गुप्तभूषणरवेव सर्वतस्तूर्यमङ्गलनिनादशान्तितः । श्रीरलक्ष्यत विलक्ष्यचेतसा तस्य पृष्ठचलितेव भूभुजा ॥२॥ अन्वयः विलक्ष्यचेतसा भूभुजा सर्वतः तूर्यमङ्गलनिनादशान्तितः गुप्तभूषणरवा इव श्रीः तस्य पृष्ठचलिता इव अलक्ष्यत । व्याख्या विगतं विनष्टं लक्ष्यं ज्ञानविषयो यस्मात्तद्विलक्ष्यं ज्ञानविषयरहितं चेतश्चित्तं यस्य स तेनाज्ञानिना भुवं पृथ्वीं भुनक्ति स्वोपभोगे समागमयतीति भूभुक् तेन भूमीश्वरेण सोमदेवेन सर्वतस्सर्वासु दिक्षु तूर्यस्य भेर्या मङ्गलनिनादः मङ्गलध्व- निस्तस्य शान्त्यास्तूर्यमङ्गलध्वनिसमाप्तितः 'पञ्चम्यास्तसिल्' इति तसिल् प्रत्ययः । गुप्तः प्रच्छन्नो भूषणानामलङ्काराणां रवस्स्वनो यस्याः सा भूषण- शब्दरहितेव श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य पृष्ठे पृष्ठतश्चलितेव चलन्ती- वालक्ष्यत दृष्टा । गते विक्रमाङ्कदेवे राज्यलक्ष्मीमपि तत्पश्चाद्गतामिवाऽ- नुमेति स्मेति भावः । अत्र माङ्गलिकतूर्यध्वन्यभावाद्भूषणशब्दशून्यत्वस्य पश्चाच्चलनस्य चोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्कदेव के प्रस्थान समय चारो ओर कही भी तुरही का मङ्गलनाद न होने से अज्ञानी राजा सोमदेव ने, राज्य लक्ष्मी मानो अपने आभूषणों के झंकारो को दवाकर उसके पीछे चली जा रही है, ऐसा अनुभव किया । अङ्कवर्तिनमशाङ्कुमः कथं नाहमेनमुपरुद्धवानिति । तल्पनिलुंठनशीर्णचन्दनः पर्यतप्यत विभावरीषु सः ॥३॥ अन्वयः आः । अङ्कवर्तिनम् अशङ्कम् एनम् अहं कथं न उपरुद्धवान् इति विभावरीषु तल्पनिलुंठनशीर्णचन्दनः सः पर्यतप्यत । व्याख्या आः । इत्यत्यन्तखेदे । अङ्के उत्सङ्गे वर्तते इत्यङ्कवर्ती तमङ्कवर्तिनं मदधीनं कल्याणपुरस्थ शङ्कया मत्तः स्वायतीकरणस्य सन्देहेन रहितमशङ्कमेनं विक्रमाङ्क-