विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 300, कुल 493 में से
संदर्भ में पढ़ें( २८५ ) अन्वय. अनयपङ्कशङ्कितः सः प्राप्तम् अपि तद्बलं सहसा न जघान । अप्र- तक्यँभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) । व्याख्या अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्क- देवः प्राप्तं पश्चादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं 'अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न सङ्घतवान् । अप्रतर्क्यमचिन्त्य भुजयोर्वाणोर्वीर्यं पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतर्क्यभुजवी- र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशा सङ्कटेप्या- पत्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः । भाषा अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने पर भी उसका संहार नहीं किया । क्योकि कल्पनातीत भुजबल से शोभित विक्रमाङ्कदेव जैसे लोग आपत्ति आजाने पर भी घबराते नहीं । अन्तः प्रतिभटक्ष्माभृतां निर्दयग्रहणनोद्यतं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥ अन्वयः ततः प्रतिभटक्ष्माभृताम् अन्तकः सः निर्दयग्रहणनोद्यतं सैन्यं तन्मद- द्विरदपादचूर्णितं (सत्) एककवलं चकार । व्याख्या ततस्सेनागमनानन्तरं प्रतिभटाः शत्रुरूपा ये क्ष्माभृतः पृथ्वीपालास्तेषां प्रति- पक्षभूपालाना मन्तको यमः स विक्रमाङ्कदेवो निर्दयं दयारहितं क्रूरतापूर्वक- मित्यर्थे । यद्ग्रहणं मारणं तदर्थमुद्यतं प्रवृत्तं संन्यं बलं ते प्रसिद्धा मदद्विरदा मदान्धा गजास्तेषां पादैश्चरणैश्चूर्णितं मर्दितं सदेककवलमेकग्रासं क्षणमात्रेणैव शीर्णमित्यर्थः । चकार कृतवान् । पृष्ठतः समागतं सोमदेवसैन्यं सहसाऽऽक्रम- णोद्यतं दृष्ट्वा स्वगजपादघातद्वारा नाशितवानिति भावः । रूपकमलङ्कारः ।