भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( २८५ ) अन्वय. अनयपङ्कशङ्कितः सः प्राप्तम् अपि तद्बलं सहसा न जघान । अप्र- तक्यँभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) । व्याख्या अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्क- देवः प्राप्तं पश्चादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं 'अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न सङ्घतवान् । अप्रतर्क्यमचिन्त्य भुजयोर्वाणोर्वीर्यं पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतर्क्यभुजवी- र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशा सङ्कटेप्या- पत्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः । भाषा अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने पर भी उसका संहार नहीं किया । क्योकि कल्पनातीत भुजबल से शोभित विक्रमाङ्कदेव जैसे लोग आपत्ति आजाने पर भी घबराते नहीं । अन्तः प्रतिभटक्ष्माभृतां निर्दयग्रहणनोद्यतं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥ अन्वयः ततः प्रतिभटक्ष्माभृताम् अन्तकः सः निर्दयग्रहणनोद्यतं सैन्यं तन्मद- द्विरदपादचूर्णितं (सत्) एककवलं चकार । व्याख्या ततस्सेनागमनानन्तरं प्रतिभटाः शत्रुरूपा ये क्ष्माभृतः पृथ्वीपालास्तेषां प्रति- पक्षभूपालाना मन्तको यमः स विक्रमाङ्कदेवो निर्दयं दयारहितं क्रूरतापूर्वक- मित्यर्थे । यद्ग्रहणं मारणं तदर्थमुद्यतं प्रवृत्तं संन्यं बलं ते प्रसिद्धा मदद्विरदा मदान्धा गजास्तेषां पादैश्चरणैश्चूर्णितं मर्दितं सदेककवलमेकग्रासं क्षणमात्रेणैव शीर्णमित्यर्थः । चकार कृतवान् । पृष्ठतः समागतं सोमदेवसैन्यं सहसाऽऽक्रम- णोद्यतं दृष्ट्वा स्वगजपादघातद्वारा नाशितवानिति भावः । रूपकमलङ्कारः ।

( २८६ ) भाषा सोमदेव की सेना के आजाने पर विपक्षी राजाओं के लिये यमस्वरूप विक्रमाङ्कदेव ने क्रूरता से मार काट करने में प्रवृत्त उसकी सेना को, उन मदोन्मत्त हाथियों के पाँवो तले कुचला कर क्षण भर में नष्ट कर दिया । किं बहुप्रलपितैः पुनः पुनः प्रत्यनीकपृतनाः समागताः । कालवक्त्रकुहरे निवेश्य स स्वाङ्गशेषमकरोन्महीपतिम् ॥८॥ अन्वयः पुनः पुनः बहुप्रलपितैः किम् । सः समागताः प्रत्यनीकपृतनाः काल- वक्त्रकुहरे निवेश्य महीपतिं स्वाङ्गशेषम् अकरोत् । व्याख्या पुनः पुनः भूयो बहुप्रलपितैर्बहुभाषितैः किं न किमपि प्रयोजनम् । स विक्रमाङ्कदेवः समागताः समराङ्गणं प्रत्यागता प्रत्यनीकस्य विपक्षस्य शत्रोरि- त्यर्थः । पृतनास्सेनाः (कर्म) 'अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । ध्वजिनी वाहिनी सेना पृतनाऽनीकिनोचमूः' इत्यमरः । कालस्य यमस्य वक्त्रं मुखमेव कुहरं बिलं 'अथ कुहरं सुषिरं विवरं बिलम्' इत्यमरः । तस्मिन्निवेश्य प्रवेश्य महीपतिं पृथ्वीपतिं सोमदेवं स्वस्याऽङ्गं शरीरमेव शेषमवशिष्टांशो यस्य तं स्वशरीरमात्रावशेषं निस्सहायमित्यर्थः । अकरोत् कृतवान् । भाषा बार २ बहुत कहने से क्या लाभ । उसने आई हुई विपक्षी पलटनो को यमराज के मुख रूपी बिल में डालकर राजा सोमदेव को केवल शरीर मात्र शेष बना दिया । अर्थात् उसकी सब सेना नष्ट कर डाली । राजहंसमिव बाहुपञ्जरे श्रीविलासभुवि लालयन्यशः । तत्र तत्र शतपत्रलोचनश्चित्रमभ्युदयमाससाद सः ॥६॥ अन्वयः शतपत्रलोचनः सः श्रीविलासभुवि बाहुपञ्जरे राजहंसम् इव यशः लालयन् (सन्) तत्र तत्र चित्रम् अभ्युदयम् आससाद ।

( २८७ ) व्याख्या शतपत्रे कमले इव लोचने नेत्रे यस्य सः कमलनेत्रस्त विक्रमादित्यः नृपो राजलक्ष्म्याः शोभाया या विलासभुवि क्रीडास्थाने बाहुर्भुज एष पञ्जरस्तस्मिन् भुजपञ्जरे राजहंसमिव मरालमिव शुभ्रं यशः कीर्तिं लालयन् सुखपूर्वकं पालयन् सन् तत्र तत्र सर्वत्र स्थाने चित्रमाश्चर्ययुवतमभ्युदयं समुन्नतिमासाद्य प्राप्तवान् । भाषा कमल के समान नेत्र वाले उस विक्रमाङ्कदेव ने राजलक्ष्मी या शोभा की विलास भूमि अपनी भुजा रूपी पिंजड़े में हंस के समान श्वेत यश को प्रेमपूर्वक पालन करते हुए सर्वत्र आश्चर्य जनक अभ्युदय प्राप्त किया । अर्थात् अपने भुजबल से शत्रुओं को परास्त कर यश फैलाते हुए सर्वत्र आश्चर्य जनक अभ्युदय किया । मन्युपङ्ककलुषं समुद्वहन् भ्रातृदुश्चरितचिन्तनान्मनः । सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गभद्रया ॥१०॥ अन्वयः भ्रातृदुश्चरितचिन्तनात् मन्युपङ्ककलुषं मनः समुद्वहन् सः सुप्रसन्नपयसा तुङ्गभद्रया द्राक् प्रसन्नताम् अनीयत । व्याख्या भ्रातुस्सोमदेवस्य दुश्चरितं कुचरित्रं तस्य चिन्तनात् स्मरणात् मन्युः क्रोध एव दैन्यमेव वा 'मन्युर्दैन्ये क्रधौ क्रुधि' इत्यमरः । पङ्कः कर्द्दमस्तेन कलुष मलिनं मनो हृदयं समुद्वहन् धारयन् स विक्रमाङ्कदेवः सुप्रसन्नं निर्मलं पयो जलं यस्या- स्तया तुङ्गभद्रया नद्या द्राग् झटिति प्रसन्नतां निर्मलत्वमनीयत प्राप्तः । तुङ्ग- भद्रादर्शनेन तत्र स्नात्वा च प्रसन्नचित्तो बभूवेति भावः । अत्र रूपकालङ्कारः । भाषा अपने भाई सोमदेव के कुकर्मों का विचार करने से उत्पन्न क्रोध या विषाद रूपी कीचड़ से मलिन हृदय को धारण करने वाला विक्रमाङ्कदेव निर्मल जल वाली तुङ्गभद्रा नदी को देख कर (और उसमें स्नान कर) शीघ्र ही प्रसन्न हो गया ।

(( २८८ ) तत्करीन्द्रनिवहावगाहनैर्वाहिनी प्रतिपथेन सागमत् । दन्तिदानजलनिम्नगाः पुनर्लेभिरे प्रणयमापगापतेः ॥९१॥ अन्वयः सा वाहिनी तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन अगमत्। दन्तिदान- जलनिम्नगाः आपगापतेः प्रणयं पुनः लेभिरे। व्याख्या सा प्रसिद्धा वाहिनी तुङ्गभद्रानदी 'वाहिण्यो नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी' इत्यमरः। तस्य विक्रमाङ्कदेवस्य करीन्द्रा गजेन्द्रास्तेषांनिवहा समूहा- स्तेषामवगाहनानि स्नानानि तैस्तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन विपरीत- मार्गेणाऽगमत् प्रवहति स्म। दन्तिनां करिणां दानजलस्य मदजलस्य निम्नगा नद्य आपगानां नदीनां 'स्रवन्ती निम्नगापगा' इत्यमरः। पतिस्समुद्रस्तस्य प्रणयं स्नेहं सङ्गममित्यर्थः। पुनर्लेभिरे प्रापुश्च। तुङ्गभद्रायाः प्रतिकूलगमनेन मदजलनदीनाञ्च समुद्रसङ्गमेन गजेन्द्राणामत्याधिक्यं सूचितम्। अत्र लिङ्गसाम्या- न्नायक-नायिकाव्यवहारप्रतीतेः समासोक्तिरलङ्कारः। तुङ्गभद्राया दृष्टनायिका- व्यवहारश्च प्रतीयते। भाषा वह तुङ्गभद्रा नदी विक्रमाङ्कदेव के असंख्य बड़े २ हाथियो के एक साथ उसमें उतर कर स्नान करने से उलटी बहने लगी और हाथियो के मदजल की नदियां समुद्र में जा मिलीं। वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः । आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥९२॥ अन्वयः प्रतिगजं विलोकयन् तद्विमर्दरसमांसलस्पृहः वारणः विशदं नदीजलं न आददे। अमर्षशालिनाम् ईदृशं शीलम्। व्याख्या प्रतिगजं प्रतिमल्लहस्तिनं विलोकयन् संपश्यन् तस्य प्रतिगजस्य विमर्द्देन सम्मर्द्देन शरीरसंघट्टनेन वा यो रसो जलभानं दो वा तस्मिन्मांसला बलवती

( २९० ) अत्यजत् प्रतिगजं मतङ्गजः पार्श्वसङ्गतकरेणुलोभतः । यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥१४॥ अन्वयः मतङ्गजः पार्श्वसंगतकरेणुलोभतः प्रतिगजम् अत्यजत् । यत्र तत्र मनोभुवः भुजदण्डचण्डिमा अप्रतिहतः (इति) चित्रम् । व्याख्या मतङ्गजो नागः 'मतङ्गजो गजो नागः' इत्यमरः । पार्श्वे समीपे संगता मिलिता करेणुर्हस्तिनी 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । तस्या लोभतः प्रलोभात् प्रतिगजं प्रतिमल्लनागमत्यजत् विजहौ । यत्र तत्र सर्वत्र मनसा भवतीति मनोभूः कामस्तस्य मनोभुवः कामस्य भुजदण्डस्य दोर्दण्डस्य चण्डिमा शौर्यमप्रतिहतो निर्वाधगतिरिति चित्रमाश्चर्यकरम् । कामशरताडितस्सर्वं परित्यज्य तद्वशे भवतीति भावः । भाषा हाथी ने पास ही में विद्यमान एक हथिनी के लोभ से विपक्षी हस्ती को छोड़ दिया। क्या आश्चर्य की बात है कि कामदेव के भुजदण्ड के पराक्रम में रोक टोक करने वाला कोई नहीं है। अर्थात् सभी जीव् कामदेव के वशीभूत हैं। रुद्धवर्त्मसु गजेषु वाजिनः प्रापुरम्भसि निमज्जनं चिरात् । लब्धतीरतरुकण्टकैः पुनर्नेक्षितापि तटिनी क्रमेलकैः ॥१५॥ अन्वयः गजेषु रुद्धवर्त्मसु (सत्सु) वाजिनः अम्भसि चिरात् निमज्जनं प्रापुः । लब्धतीरतरुकण्टकैः क्रमेलकैः पुनः तटिनी ईक्षिता अपि न । व्याख्या गजेषु हस्तिषु रुद्धं प्रतिरुद्धं वर्त्म मार्गो यैस्ते रुद्धवर्त्मानस्तेषु रुद्धवर्त्मसु प्रतिवद्धमार्गेषु सत्सु 'अयन वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । वाजिनोऽश्वाः 'वाजिवाहार्बगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । अम्भसि जले

( २९१ ) चिरात् बहुकालमभिव्याप्य निमज्जनं स्नानं प्रापुः प्राप्तवन्तः । गजंमार्गै रुद्धे सति वाजिना निस्तरणमार्गाभावात् तेऽश्वाश्चिरं स्नानावसरमवापुरिति भावः । लब्धानि प्राप्तानि तीरे नदीतटे तरुणां वृक्षाणां कण्टकानि यैस्तैः क्रमेलकैरुष्ट्रैः पुनस्तटिनी नदीक्षिताऽपि न दृष्टाऽपि न । उष्ट्राणां कण्टकप्रि- यत्वादत्र स्नानार्थं संध्यानमपि न दत्तमिति भावः । भाषा हाथियो के समूह से बाहर निकलने का रास्ता रुक जाने से घोड़ो ने चिरकाल तक नदी में स्नान किया । नदी के तट पर के वृक्षों के काँटे मिल जाने से ऊँटो ने नदी की ओर आंख उठा कर भी न ताका । अर्थात् सुन्दर जलाशय मिलने पर भी स्नान करने की अभिरुचि उनमें उत्पन्न न हुई । अस्मराद्द्विरददानवारिणा तस्य १ वारिनिधिराविलीकृतः । हन्त संततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः ॥१६॥ अन्वयः तस्य द्विरददानवारिणा आबिलीकृतः वारिनिधिः संततमदस्य अभ्रमु- प्रियतमस्य दन्तिनः विभ्रमान् हन्त ! अस्मरत् । व्याख्या तस्य विश्रमाङ्कदेवस्य द्वौ रदौ दन्तौ येषां ते द्विरदा गजाः 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप.' इत्यमरः । तेषा दानवारि मदजलं 'गण्डः क्टो मदो दानम्' इत्यमरः । तेन गजमदजलेनाऽऽविलीकृत कलुषीकृतो वारिनिधिः समुद्रः सन्ततोऽविच्छिन्नो मदो यस्य तस्य निरन्तरनिस्सरन्मदजलस्याऽभ्रमुर्नामंरावत- गजस्याङ्गना 'ऐरावतोऽभ्रमातङ्गैरवणाऽभ्रमुवल्लभा' इत्यमरः । तस्याः प्रियतमोऽत्यन्तप्रियः पतिस्तस्य दन्तिन ऐरावतस्य विभ्रमान् विलासान् हन्तेति खेदेऽधुना तत्समीपे दैर्वरपहृतस्यैरावतस्याऽभावादस्मरत् सस्मार । अत्र सेनागज- सम्बन्धेन तत्सदृशैरावतस्मरणारस्मरणालङ्कारः । १ तेनेति पाठात्तस्येति पाठ साधुनर प्रतिभाति ।

( २९२ ) भाषा विक्रमाङ्कदेव के हाथियो के मदजल से मटमैला समुद्र, मद को सतत चुवाने वाले अभ्रमु नाम की हथिनी के प्रिय पति ऐरावत नाम के इन्द्र के हाथी का स्मरण करने लगा । उच्चैःश्रवा नामक इन्द्र के घोडे के समान ऐरावत हाथी भी पहिले समुद्र में ही था । बाद में समुद्र मन्थन से उत्पन्न इन दोनो को इन्द्र ने अपना वाहन बनाया । स्नानसक्तपरिवारसुन्दरी-वृन्दमध्यमवधीरिताङ्कुशः । यज्जगाम मदलङ्घितः करी भाग्यसम्पदुपरी स्थितस्य सा ॥१७॥ अन्वयः मदलङ्घितः अवधीरिताङ्कुशः करी स्नानसक्तपरिवारसुन्दरीवृन्दमध्यं यत् जगाम सा उपरि स्थितस्य भाग्यसम्पत् । व्याख्या मदेन लङ्घितोऽतिक्रान्तमर्यादो मदोन्मत्त इत्यर्थः । अवधीरित उपेक्षितोऽ- ङ्कुश शुनियंत्र स उपेक्षिताङ्कुशनियन्त्रण गज स्नानेऽवगाहने सक्ता संलग्ना परिवारसुन्दर्योऽन्त पुराङ्गनास्तासा वृन्द समूहस्तस्य मध्य स्नानसग्नान्त - पुराङ्गनासमूहमध्य यज्जगाम प्रविष्टवान् इति यत्; अत्र यच्छब्देन पावद्रयो- ष्टार्थस्य संग्रह । सा उपरि गजोपरि स्थितस्य विद्यमानस्य हस्तिपकस्येत्यर्थ । भाग्यसपत भाग्यसम्पत्तिरासीत् । नारीसमूहमध्य गजे प्रविष्टे सति तासां भयजन्यविविधवस्त्रस्खलनादिविलासदर्शनस्य सौभाग्यात् हस्तिपकस्य कृते सा घटना भाग्यसपादैवेति भाव । भाषा मदोन्मत्त हाथी का, अङ्कुश की कुछ भी परवाह न कर स्नान करने में व्यस्त अन्त पुर की सुन्दरियो के समूह के बीच में अचानक चला जाना, पीलवान के लिये बडे भाग्य की घटना थी । अर्थात् हाथी के डर से अर्धनग्न या नग्न अन्त- पुर की कामिनियो के प्राण छुडा कर भागने के हाव भावो को देखने का अवसर पीलवान को प्राप्त होना, बडे भाग्य की बात है अन्यथा अन्त पुर की स्त्रियो को देखना भी उसके लिये असम्भव है ।

( २१३ ) तां विधाय कतिचिद्दिनानि स प्रेयसीघुसृणपङ्किलां नदीम् चोलसम्मुखमगाहतहव१–प्राप्तिदुर्ललितबाहुराग्रहम् ॥१८॥ अन्वयः आहवप्राप्तिदुर्ललितबाहुः सः कतिचित् दिनानि तां नदीं प्रेयसीघु- .पङ्किलां विधाय चोलसम्मुखम् आग्रहम् अगाहत । व्याख्या आहवानां युद्धानां 'अभ्यामर्दस्तमाघातसंग्रामाभ्यागमाहवाः' इत्यमरः । प्रा- लाभे दुर्ललितो दुश्चेष्टो बाहुर्भुजो यस्य स युद्धाप्राप्तिलिप्रभुजः स विक्रमाङ्कदे कतिचित् कियन्ति दिनानि दिवसांस्तां नदीं तुङ्गभद्रां प्रेयसीनामङ्गनानां घुमृणे कुङ्कुमेन पङ्किलां कर्दमसंपन्नां विधाय कृत्वा चोलसम्मुखं चोलराज्याभिमुख गाग्रहमाक्रमणमगाहत कृतवान् । भाषा युद्ध की प्राप्ति के लिये अत्यन्त लालायित या युद्ध की प्राप्ति न होने से दुश्चेष्ट-भुजा वाले विक्रमाङ्कदेव ने कुछ दिनों तक उस तुङ्गभद्रा नदी को अङ्गनाओं के अङ्ग में विलिप्त केशर से मिश्रित करने के अनन्तर चोलदेश पर आक्रमण कर दिया । इतः परं पञ्चभिः श्लोकैर्वनवासमण्डलं वर्णयति कविः– केलिकाननशकुन्तकृजितच्छाद्यमानगलकन्दलस्वनाः । प्राप्नुवन्ति न विदग्धतागुणं यत्र दर्शयितुमेणलोचनाः ॥१९॥ अन्वयः यत्र केलिकाननशकुन्तकृजितच्छाद्यमानगलकन्दलस्वनाः एणनयनाः विदग्धतागुणं दर्शयितुं न प्राप्नुवन्ति । १ चोलसम्मुखमगाहताहवाप्राप्तिदुर्ललितबाहुराग्रहम् । इतिपाठ. साधुतर प्रतिभाति ।

( २९४ ) व्याख्या यत्र वनवासमण्डले केले: क्रीडायाः काननं वनं 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । तस्मिन् ये शकुन्ताः पक्षिणस्तेषां कूजितैश्शब्दैश्छाद्य- मानोऽभिभूयमानो गलकन्दलस्य गलनलिकायाः स्वनश्शब्दो यासां ता एणलोचना मृगनयनाः, पक्षिकलकलरवोत्कटतया मृगलोचनाशब्दोऽभिभूतो माधुर्यातिश- यादिति भावः । विदग्धताया वैदग्ध्यं गुणं समुत्कर्षं दर्शयितुं प्रकाशयितुं न प्राप्नुवन्ति न शक्नुवन्ति । पक्षिणां कलकलाधिक्यादङ्गनानां कोमलशब्दाः दुःखदा इति भावः । पक्षिणामाधिक्यात्तत्रत्यफलसम्पतिर्ध्वनिता । अतिश- योक्त्यलङ्कारः । भाषा बागों के पक्षियों के कूजित से दबे हुए गलों के शब्द वाली मृगनयनी स्त्रियां अपनी दक्षता के उत्कर्ष को प्रकट करने में समर्थ न हो सकीं । अर्थात् पक्षियों के जोर से होने वाले कलरव से उनकी कोमल व मधुर ध्वनि सुनाई नहीं पड़ सकती थी । यत्र तिष्ठति विरोधमुद्वहन् दाहतः प्रभृति तेजसा सह । मेचकक्रमुककाननावली-मीलितोष्णकिरणार्चिषि स्मरः ॥२०॥ अन्वयः मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र स्मरः दाहतः प्रभृति तेजसा सह विरोधम् उद्वहन् तिष्ठति । व्याख्या मेचकानां कृष्णवर्णानां क्रमुकाणां पूगवृक्षाणां काननानि वनानि तेषामावली पंक्तिस्तया मीलितान्यवरुद्धान्युष्णकिरणस्य सूर्यस्याऽर्चिषि मयूखा यस्मिंस्तस्मिन् मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र वनवासमण्डले स्मरः कामदेवो दाहतश्शिवतृतीयनेत्राग्निभस्मीकरणात्प्रभृति तेजसा येन केनाऽपि तेजस्सा- मान्येन सह विरोधं विद्वेषमुद्वहन् धारयन् तिष्ठति निवासं करोति । शिवने- त्राग्निविरोधेन तेजस्सामान्येन द्वेषात्सूर्यतेजसोऽप्यत्राऽनागमनादथ वने स्मरः स्थितिमवलम्बते इति भावः । स्मरे तेजसा विरोधरूपस्य धर्मस्योत्प्रेक्षणादुत्प्रेक्षा- लङ्कारो गम्यते, तेन च काननानां क्रीडायोग्यत्वं ध्वन्यत इति वस्तुध्वनिः ।

( १५६ ) व्याख्या यत्र वनवासमण्डले धूता कम्पिता पक्वकदलीना परिणतावस्थापन्नरम्भा- फलाना समृद्धय समूहा यैस्ते, नारिकेलफलाना खण्डास्सम्मूहास्तेषा ताण्डवेनो- द्धतनृत्येन, वृक्षात् सततपातनेन जलमध्ये प्रविश्यपुनर्निस्सरणेनेत्यर्थः । क्षुण्णा सम्मर्दिता उत्पादिता इत्यर्थ । तस्य वनमण्डलस्य कुहरे मध्ये गर्ते वा वारिवीचयो जलतरङ्गा यैस्ते मरुतो वायव स्मरस्य कामस्याऽस्रतां बाणत्वं कामोद्दीपनाय बाणरूपप्रहरणत्वमित्यर्थ । यान्ति व्रजन्ति । पक्वकदलीसुगन्धयुक्ता नारिकेल- जनितशीकरशीतला वायव कामोदीपका भवन्तीति भाव । तत्र कदलीफलाना नारिकेलफलानाञ्चाऽऽधिक्य व्यज्यते । भाषा जिस बनवास मण्डल में पके हुए केला के समूहा को झकझोरने वाले और नारियल के फल समूहो के लगातार गिराने से, नारिखला के भीतर डूबकर फिर ऊपर निकल आने से और छीट उडान से उस बनवास मण्डल के जल पूरित गड्डहो में जल की तरङ्गा को उत्पन्न करने वाले वायु कामदेव के अस्त्र का काम करते थे अर्थात् कामोद्दीपक होते थे । अर्थात् जहां केले और नारियल के बहुत पेड थे, ऐसे वनवासमण्डल में पके हुए केलो की सुगन्ध से युक्त और गड्डहो में नारियलो के गिरने से उड हुए जल कणो से ठण्ड वायु कामोदीपक होते थे । अध्युवास वनवासमण्डलं तद्दिनानि कतिचिन्नृपात्मजः । योषितामुपवनस्थलीभुवः कर्तुमद्भुतविलाससाक्षिणीः ॥२३॥ अन्वयः नृपात्मजः उपवनस्थलीभुवः योषिताम् अद्भुतविलाससाक्षिणीः कर्तुं कतिचित् दिनानि तत् वनवासमण्डलम् अध्युवास । व्याख्या नृपस्य राज्ञ आहवमल्लदेवस्याऽऽत्मज पुत्रो विक्रमाङ्कदेव उपवनस्योद्यानस्य स्थलीभुवोऽकृत्रिमभूमयस्ता उपवनस्थलीभुवो योषिता ललनानामद्भुतविलासाना- माश्चर्यकारिविभ्रमाणा साक्षिण्योऽवलोकयित्र्यस्ता कर्तु विधातु कतिचित् कियन्ति दिनानि दिवसानि तत् पूर्वोक्त वनवासमण्डल बनवास इति नामधेय प्रदेशमप्युवासाऽध्यतिष्ठत । तत्र वनवासमण्डले स्त्रीणा वनसमीपाकृत्रिम- भूमेरतिशयानन्दं प्रापयितुं कतिचिद्दिनान्युवासेति भाव ।

( २९८ ) अन्वयः जयकेशीपार्थिवः एनम् एत्य प्रार्थितात् अधिकं धनम् अर्पयन् (सन्) कोङ्कणप्रणयिनीमुखेन्दुपु हासचन्द्रिकां निश्चलाम् अकृत। व्याख्या जयकेशी नाम कोङ्कणदेशाधिपो गुर्जरदेशाधिपस्य जयसिंहसिद्धराजस्य मातामह एनं विक्रमाङ्कदेवमेत्य प्राप्य प्रार्थितादभिकाङ्क्षितादधिकं महत्त्तरं धनं वित्तमर्पयन्वितरन् सन् कोङ्कणदेशस्य प्रणयिन्यो ललनास्तासां मुखेन्दवो वदन- चन्द्रास्तेषु हास एव चन्द्रिका कौमुदी 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः। तां हास्यकौमुदीं निश्चलां स्थिरामकृत कृतवान् । धनप्रदानेनाऽऽक्रमणाभावात् कोङ्कणदेशीया नार्यश्चिराय सुप्रसन्नाः कृता इति भावः। अत्र रूपकालङ्कारः। भाषा (गुर्जर देश के राजा जयसिंह सिद्धराज के मातामह), कोकण देश के राजा जयकेशी ने विक्रमाङ्कदेव के सम्मुख उपस्थित होकर, मागे हुए से अधिक धन देकर, कोंकण देश की नारियों के मुख रूपी चन्द्रमा की हास्य रूपी चांदनी को अचल कर दिया। अर्थात् वहाँ की स्त्रियाँ युद्ध न होने से चिरकाल के लिये प्रसन्न हो गईं। आलुपेन्द्रमवदातविक्रमस्त्यक्तचापल मसाववर्धयत् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ अन्वयः अवदातविक्रमः असौ त्यक्तचापलम् आलुपेन्द्रम् अवर्धयत्। अविन- याग्रदूतिका अप्रणतिः एव तादृशाम् कोपं दीपयति । व्याख्या अवदातो धवलो लोकोत्तरत्वेन विख्यातः इत्यर्थः। विक्रमः पराक्रमो यस्य स असाधारणपराक्रमोऽसौ विक्रमाङ्कदेवस्त्यक्तं दूरीकृतं चापलमौद्धत्यं येन तमविन- यासम्पृक्तं विनीतमित्यर्थः । आलुपस्य देशविशेषस्येन्द्रं राजानमालुपदेशाधिपति- मवर्धयत्सम्यक् परिपालनेन समृद्धिमन्तमकरोत् । अविनयस्योद्धत्यस्याऽग्रदूतिका परिचारिकाऽप्रणतिरेवाऽनतिरेव तादृशामवदातविक्रमाणां विक्रमाङ्कदेवसदृशानां कोपं क्रोधं दीपयति समुज्ज्वलयति। अत्राऽर्थान्तरन्यासालङ्कारः ।

( ३०० ) अन्वयः लोलवारिनिधिनीलकुण्डला द्राविडक्षितिपभूः रभसात् उपागतं तं क्ष्माभुजङ्गं विभाव्य उपजातसाध्वसा (सती) व्यकम्पत । व्याख्या लोलौ चञ्चलौ वारिनिधी पूर्वपश्चिमसमुद्रावेव नीले श्यामवर्णे कुण्डले कर्णभूषणे यस्याः सा, द्राविडदेशस्य पूर्वपश्चिमसमुद्रद्वयमध्ये विद्यमानत्वात् । लोलवारिनिधिनीलकुण्डला चञ्चलनीलसमुद्रद्वयरूपयुग्मनीलकर्णावतंसा द्रविडा- नामयमिति द्राविड स चासौ क्षितिषो भूपस्तस्य भूमिर्भूस्तद्द्रविडाधिपभूमी रभसाद्वेगादुपागतं समागतं तं प्रसिद्धं पूर्वज्ञातं वा क्ष्माया पृथिव्याः द्रविडदेशभूमेर्वा भुजङ्गः पति विटं वा 'भुजङ्गो विटसर्पयोः' इत्यमरः । विभाव्य समालोच्यो- पजातं समुत्पन्नं साध्वसं भयं, समुत्पन्ना लज्जा वा 'साध्वसं भयलय्जयोः' इत्यमरः । यस्याः सा उपजातसाध्वसा भीता सती, लज्जायुक्ता सती वाऽकम्पत कम्पमगात् । एकत्र भयेनान्यत्र सात्त्विकभावेन । यथा रभसादागतं पूर्व- परिचितं कामुकं वीक्ष्य लज्जायुता कामिनी सात्त्विकभावेन कम्पते तथैव द्राविडराजभूमी रभसादागतं पूर्वज्ञातं विक्रमाङ्कदेवं निरीक्ष्य भयेन कम्पते स्मेति भाव । अत्र समासोक्त्यलङ्कारः श्लेषानुप्रणित । भाषा चचल नीले रग के पूर्वपश्चिम समुद्र रूपी नीले कुण्डलो को धारण करने वाली द्राविड राजा की भूमी रूपी कामिनी वेग से आए हुए पृथ्वी के राजा या कामुक विक्रमादित्य को देख कर भय से या लज्जा से कापने लगी । अर्थात् जिस प्रकार नीलम के बने कुण्डलो को धारण करने वाली कामिनी पूर्व परिचित कामुक को वेग से आए हुए देखकर लज्जा से सात्विक भाव उत्पन्न होने के कारण रोमाञ्चित हो, कापने लगती है उसी प्रकार नीले पूर्वपश्चिम समुद्र- रूपी नीले (नीलम के) कुण्डलो को धारण करने वाली द्राविड राजा की भूमि वेग से आए हुए पूर्व परिचित विक्रमाङ्क देव को देख कर भय से कापने लगी । तस्य सज्जधनुषः प्रतिक्रिया-शून्यपौरुषविशेषशालिनः । द्राविडेन्द्रपुरुपस्ततः सभामाजगाम नयमार्गकोविदः ॥२६॥

( ३०१ ) अन्वयः ततः नयमार्गकोविदः द्राविडेन्द्रपुरुषः प्रतिक्रियाशून्यपौरुषविशेषः। सज्जधनुषः तस्य सभाम् आजगाम । व्याख्या ततो राजकुमारस्य द्राविड़राजभूमितन्मूलागमनानन्तर नयस्य राजनीतेम पन्थास्तस्य कोविदो ज्ञाता नीतिज्ञ इत्यर्थं । द्राविडेन्द्रस्य द्रविड़देशनृप चोलदेशाधिपवीरराजेन्द्रस्य पुरुषो दूतस्सन्देशहारक इत्यर्थं । प्रतिक्रिया प्रतीक रस्तया शून्यं रहितं पौरुष पराक्रमस्तस्य विशेषोऽतिशयस्तेन शालते शोभ तस्याऽजेयपराक्रमातिशयनृप सज्ज शरप्रक्षेपशाय पूर्णतयोयुक्तं धनु शोवण यस्य स तस्य सज्जधनुषस्तस्य विक्रमाङ्कदेवस्य सभां संसदमाजगाम प्रविवेश । भाषा बाद में नीतिशास्त्रपारङ्गत द्रविड़देश के राजा का दूत अजेय पौरुषविशेष से शोभित तथा युद्ध के लिय सदैव धनुष को तयार रखने वाले विक्रमाङ्कदेव की सभा में आया । मौलिचुम्बितवसुन्धरातलः कुन्तलेन्द्रतनयं प्रणम्य सः । व्याजहार दशनांशुंपल्लव-न्यस्तकोमलपदां सरस्वतीम् ॥३०॥ अन्वयः मौलिचुम्बितवसुन्धरातलः सः कुन्तलेन्द्रतनयं प्रणम्य दशनांशुपुल्ल- पन्यस्तकोमलपदां सरस्वतीं व्याजहार । व्याख्या मौलिना शिरसा चुम्बित समालिङ्गितं वसुन्धरातलं पृथिवीतलं येन स दूत कुन्तले द्रस्याहवमल्लदेवस्य तनयं पुत्र विक्रमाङ्कदेवं प्रणम्य नमस्कृत्य दशनानां दन्तानामंशव किरणा एव पल्लवा किसलयानि 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । तेषु न्यस्ते विक्षिप्ते कोमले सुकुमारी पदे चरणौ यया सा तां सरस्वतीं वाग्देवतां पक्षे दशनांशव पल्लवा इव कान्तिमत्त्वात्तत्सह न्यस्तानि प्रतिपादितानि कोमलानि मधुराणि पदानि शब्दा यस्यां तां सरस्वतीं वाचं व्याजहार उवाच । मधुरपदविन्यासं यथास्यात्तथोवाचेति भावः ।

( ३०२ ) भाषा उस दूत ने पृथ्वी पर मस्तक टेक के कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाङ्कदेव को प्रणाम कर दांतों के किरण रूपी कोमल पत्तो पर अपने कोमल चरणों को रखने वाली सरस्वती को प्रकट किया या स्मित पूर्वक कोमल पत्तो के सदृश कोमल अर्थात् मधुर वाक्यो को कहा । कश्चुलुक्यनृपवंशमण्डन त्वद्गुणान्गणयितुं प्रगल्भते । धाम पङ्कुरुहिणीविलासिनः कस्य सङ्कलयितुं विदग्धता ॥३१॥ अन्वयः हे चुलुक्यनृपवंशमण्डन कः त्वद्गुणान् गणयितुं प्रगल्भते । पङ्क- रुहिणीविलासिनः धाम सङ्कलयितुं कस्य प्रगल्भता । व्याख्या चुलुक्यनृपवंशस्य चालुक्यराजकुलस्य मण्डन भूषण तत्सम्बुद्धौ, हे चुलुक्यनृप- वंशमण्डन ! हे विक्रमाङ्कदेव ! क पुरुषस्तव गुणांस्त्वद्गुणान्स्तान् दयादा- क्षिण्यादीन् गणयितु सङ्ख्यातु प्रगल्भते क्षमते । न कोऽपीत्यर्थ । पङ्कुरुहिणीना कमलिनीना विलासी सुखदायकस्तूर्यस्तस्य धाम तेज किरणानित्यर्थ । सङ्कलयितुं गणयितु कस्य जनस्य विदग्धता पाण्डित्य सामर्थ्यमित्यर्थ । न कस्यापीतिभावः । प्रतिवस्तूपमाऽलङ्कार । “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययो । एकोऽपि धर्म सामान्यो यत्र निर्दिश्यते पृथक्” इति लक्षणात् । भाषा हे चालुक्यराजकुल के भूषण ! विक्रमाङ्कदेव ! तुम्हारे दयादाक्षिण्यादि गुणों की गणना करने में कौन समर्थ हो सकता है अर्थात् कोई भी समर्थ नहीं हो सकता । कमलिनी को सुख देने वाले सूर्य की किरणों को गिनने की पण्डिताई या सामर्थ्य किसमें हैं अर्थात् किसी में नहीं है । वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः । एति यत्प्रभवमैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः ॥३२॥

( ३०३ ) अन्वयः त्वदीयकरवालवर्तिनः अम्भसः विमलत्वं किं वर्णयामि। यत् विश्वशुक्तिपुटमौक्तिकं यशः ऐन्दवीं द्युतिम् एति। व्याख्या त्वदीये स्वत्सम्बन्धिनि करवाले खङ्गे वर्तत इति त्वदीयकरवालवर्ती त भवदीयखड्गे स्फुटतया प्रतीयमानस्याम्भसो जलस्य विमलत्वं विशद धावल्यमित्यर्थः। किं वर्णयामि केन प्रकारेण निरूपयामि। यस्मादम्भा प्रभव उत्पत्तिर्यस्य तत् यत्प्रभवं यदुत्पन्नं, विश्वं सम्पूर्णब्रह्माण्डमेव शुक्तिपुटं तरू मौक्तिकमेव यशः कीर्तिरिन्दोरियमितैन्दवी ताम्बिन्दुसम्बन्धिनीं द्युति कान्तिमेति प्राप्नोति। त्वत्करवालप्रभावेन विश्वस्मिंस्ते चन्द्रवच्छुभ्रं यशः प्रसृतमिति भावः। शुभ्रत्वाद्यशसि मौक्तिकाभेदारोपाद्रूपकम्। अस्मिन्विश्वस्मिन् शुक्ति- पुटत्वारोपः कारणमतः परम्परितरूपकम्। 'नियतारोपगोपायस्यास्यारोपः परस्य यः। तत्परम्परितमिति' लक्षणात्। भाषा आपकी तलवार के (धार के) पानी की स्वच्छता का क्या वर्णन करें। जिससे उत्पन्न विश्वरूपी सीप का मौक्तिक रूपी यश चन्द्रमा की कान्ति को प्राप्त करता है अर्थात् आपकी तलवार से उत्पन्न चन्द्रमा के समान शुभ्र यश सम्पूर्ण विश्व में फैल गया है। खङ्गवारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलैः । यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥३३॥ अन्वयः अरिकुन्तलैः लोलशैवलम् इव भवतः खङ्गवारि किम् उच्यते। यत्र त्वया निवेशितं राजहंसनिवहोपमं यशः राजति। व्याख्या अरीणां शत्रूणां कुन्तलैः केशः (हेतुभिः) लोलञ्चञ्चलन्शैवलञ्शेवालं 'जलनीली तु शेवालं शैवलः' इत्यमरः। यस्मिंस्तल्लोलशैवलं प्रकम्पमान- शवलमिव भवतस्तव विक्रमाङ्कदेवस्य खङ्गवारि कृपाणधाराजलं किमुच्यते

( ३०४ ) जनैस्सर्वथैवाऽवर्णनीयमेवेत्यर्थः । यत्र कृपाणधाराजले त्वया भवता निवेशितं प्रतिष्ठापितं राजहंसानां मरालानां निवदस्तत्समूह उपमोपमानं यस्य तन्मरालसमूह- सदृशं शुभ्रं यशः कीर्ति राजति शोभते । उपमालङ्कारः । भाषा शत्रुओं के केशों के लगे होने के कारण, चञ्चल सेवार से युक्त तलवार के पानी का कैसे वर्णन किया जाए। जहाँ तुम्हारे द्वारा स्थापित राजहंस के समूह के समान श्वेत यश शोभित होता है। अर्थात् तुमने शत्रुओं को काटकर अपना श्वेत यश स्थापित किया। त्वद्भुजप्रणयिचापनिस्वनः कैरसौ समरसीम्नि सह्यते । व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरेणचक्षुषाम् ॥३४॥ अन्वयः असौ त्वद्भुजप्रणयिचापनिस्वनः समरसीम्नि कैः सह्यते । यः रिपु- मन्दिरेषु एणचक्षुषां क्रन्दितध्वनिभिः व्यक्तिम् एति । व्याख्या असौ प्रसिद्धस्तव भुजो बाहुः 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । त्वद्भूज- स्तस्य प्रणयी दृढसम्बद्धो यश्चापो धनुस्तस्य निस्वनः शब्दः समरसीम्नि युद्धभूमौ कैर्जनैः सह्यते सोढुं शक्यते । यो निस्वनो रिपूणां शत्रूणां मन्दिरेषु गृहेष्वेणस्य मृगस्य 'गोकर्णमृगतेजश्यंरोहिताश्चमरो मृगाः' इत्यमरः । चक्षुरिव लोचनमिव चक्षुर्यासां तास्तासां मृगलोचनानां क्रन्दितानि रुदितानि 'क्रन्दितं रुदितं क्रुष्टम्' इत्यमरः । एव ध्वनयश्शब्दास्तैर्व्यक्तिं प्रकाशं प्रकटतामित्यर्थः । एति प्राप्नोति । समरे यदीयचापानिर्गतबाणैर्मृतान् भर्तॄन् दृष्ट्वा राजपत्न्यः स्वभवनेषु रुदन्तीति भावः । अत्र चापनिस्वन-तत्प्रतिध्वन्योर्वैय्यधिकरण्येन वर्णनादसङ्गतिरलङ्कारः । भाषा तुम्हारी भुजा से घनिष्ठता रखने वाले इस धनुष की टङ्कार को युद्ध-भूमि में कौन सहन कर सकते हैं। जिसका साक्षात्कार शत्रुओं के घरों में मृग- नयनियों की रोने की ध्वनि से होता है। अर्थात् तुम्हारे धनुष का टङ्कार होते ही शत्रु मरता है और उसके घर की नारियाँ रोने लगती हैं।

( ३०५ ) निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि । कश्मलैः परिहृता इवालिभिर्भज्जन्ति ककुभः प्रसन्नताम् ॥३५॥ अन्वयः ते ज्यारवैः दिशां करटिनः अपि हन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलैः परिहृताः ककुभः प्रसन्नतां भजन्ति । व्याख्या ते तव विक्रमाङ्कदेवस्य ज्याया मौर्व्या रवा स्वनास्तैर्ज्यारवै शिञ्जिनी- निर्घोषै 'मौर्वी ज्या शिञ्जिनी गुण' इत्यमरः । दिशा ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थः । हन्तेति हर्षे, 'हन्त बानेऽनुकम्पायां वाक्यारम्भविषादयो । निश्चये च प्रमोदे च' इत्यमर । निर्मदत्वं भयेन मदरहित्यमुपयान्ति प्राप्नुवन्ति । ते ज्यारव श्रुत्वा दिग्गजा स्वाहकार परित्यत्य भीतास्सन्तो मवरहिता भवन्तीति भाव । यदस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैर्मोहै- 'मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्' इत्यमर । कुनृपकृतदुष्कर्मभि- रित्यर्थ । परिहृता रहिता ककुभो दिशः प्रसन्नता नैर्मल्य भजन्ति समाध्नन्ति । कश्मलस्याऽलिभिस्साम्यादुपमा । भाषा यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय स मद रहित हो जाते हैं । मद जल के न बहने से भ्रमरो के न आने के कारण, भ्रमर रूपी दुष्ट राजाओ व दुकृत्य स्वरुप कालिमा से दूर हो जाने से दिशायें प्रसन्न हो जाती हैं । त्वादृशेन विजिगीषुणा विना छत्रमक्षममसाध्यसाधने । प्लापनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥ अन्वयः छत्र, त्वादृशेन विजिगीषुणा विना असाध्यसाधने अक्षमम् । अम्बुधिः ान्तसमयं विना जगतः प्लापनाय नो प्रगल्भते । २०

कदर्थनेन पीडनेनोज्झिता परित्यक्ता भवति, या पृथिवी गुर्व्ववयादाक्षिण्यशौर्यादि- गुणैरज्ज्वलं प्रशस्यं त्वां भवन्तं पतिं स्वामिनं लभते प्राप्नोति । भाषा हे महाबीर ! आप जिस पृथ्वी पर अर्थात् जहां रहोगे वह भूमि पुण्य के सुख ऐश्वर्य समृद्धि आदि फलो को अवश्य प्राप्त करेगी। वह भूमि दुष्टराजाओ की पीड़ा से मुक्त हो जाएगी जो दया दाक्षिण्य शौर्य आदि गुणो से देदीप्यमान आपको अपना स्वामी पाएगी। अर्थात् आप जहां रहोगे वह भूमि अवश्य समृद्धि- शाली हो जाएगी और उसको कभी भी दुष्ट राजा लोग पीडित न कर सकेंगे। त्वद्भिया गिरिगुहाश्रये' स्थिताः साहसाङ्क गलितत्रपा नृपाः । ज्यारवप्रतिरवेण तानपि त्वद्धनुः समरसीम्नि बाधते ॥४०॥ अन्वयः हे साहसाङ्क ! (ये) नृपाः गलितत्रपाः (सन्तः) त्वद्भिया गिरिगु- हाश्रये स्थिताः तान् अपि त्वद्धनु समरसीम्नि ज्यारवप्रतिरवेण बाधते । व्याख्या हे साहसाङ्क ! साहसं विक्रम एवाङ्को विजयलक्षणं 'कलङ्काङ्को लाञ्छ- नञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । यस्य स तत्सम्बोधने हे साहसाङ्क हे विक्रमाङ्कदेव ! ये नृपा भूपा गलिता विनिर्गता त्रपा लज्जा येषां ते विगत- लज्जास्सन्तस्त्वत्तो भीस्तया भवद्भयेन गिरीणा पर्वतानां गुहाः कन्दरा एवाऽऽश्रयः रक्षास्थानं तस्मिन् स्थितास्तानपि तव धनुश्चापः समरसीम्नि समराङ्गणे ज्याया मौर्ध्या रवस्य शब्दस्य प्रतिरवः प्रतिध्वनिस्तेन बाधते पीडयति । पर्वतकन्दरा- स्वपि विक्रमाङ्कदेवस्याऽऽगमनभयादिति भावः । भाषा हे विक्रमाङ्कदेव ! जो राजा लोग लज्जा को छोड तुम्हारे डर से पर्वतो की कन्दराओ में छिप कर बैठ जाते हे उनको भी तुम्हारा धनुष समर भूमि में प्रत्यञ्चा की टङ्कार की प्रतिध्वनि से पीडित करता है। १ 'गिरिगुहासु ये' इत्यपि पाठान्तरम् ।

( ३०९ ) उत्प्रतापदहनं मुखं वहन्नाहवे त्वदसिरिन्द्रजालिकः । दिव्यमस्तकसमागमं द्विषां लूनमर्त्यशिरसां करोति यत् ॥४१॥ अन्वय आहवे त्वदसिः उत्प्रतापदहनं मुखं वहन् इन्द्रजालिकः (भवति) यत् लूनमर्त्यशिरसां द्विषां दिव्यमस्तकसमागमं करोति । व्याख्या आहवे युद्धे तव असिस्त्वदसिर्भवदीयखड्ग उद्गत ऊर्ध्वं प्रसारितः प्रताप एव वह्नोऽग्निर्यस्मात्तदुत्प्रतापदहनं मुखमाननम्प्रभागञ्च वहन् धारयन्निन्द्रजालिक इन्द्रजालविद्याप्रवीणो मायावी भवति । यद्यस्मात्कारणात् स लूनं छिन्नं मर्त्यं मरणशीलं विनाशीत्यर्थः । शिरो येषां ते लूनमर्त्यशिरसस्तेषां छिन्नविना- शिमस्तकानां दिव्यानां स्वर्गियाणां मस्तकानां शिरसां समागमं प्रापणं करोति । यथा कश्चिदिन्द्रजालिको मुखादग्निनिस्सरणं प्रदर्शयन् चमत्कारयुक्तानि कार्याणि करोति तथैव तव खड्ग ऊर्ध्वप्रसारितप्रतापरूपदहनयुक्तं मुखं धारयन् लूनशिरसां शत्रूणां रणे मरणात्तेषां स्वर्गप्राप्तिर्निश्चितेति हेतोस्तेषां नूतनदिव्यमस्तकान् संदधाति । अत्रोत्तरार्धगतवाक्यार्थस्येन्द्रजालिकत्वे हेतुतया कवनात्काव्य- लिङ्गमलङ्कारः । भाषा युद्ध में, ऊपर उठने वाले तेज रूपी अग्नि से युक्त मुख या नोक वाली तुम्हारी तलवार, इन्द्र जालिक हो जाती है । क्यो कि कटे हुए मानवी मस्तक वाले शत्रुओं को वह दिव्य मस्तकों से युक्त कर देती है । अर्थात् युद्ध में जो वीर मरते हैं वे स्वर्ग में जाते हैं यह प्रसिद्धि है । इसलिये तुम्हारी तलवार इन्द्रजालिक के समान सिर कटे शत्रुओं को काल्पनिक दिव्य मस्तको से युक्त कर स्वर्ग में भेज देती है । भाग्यभूमिमपि भारतादिषु त्वादृशं न शृणुमः प्रतापिनाम् । दर्शनेन विजयश्रियं रणेष्वन्यसङ्गविमुखीं करोति यः ॥४२॥ अन्वयः भारतादिषु अपि त्वादृशं भाग्यभूमिं प्रतापिनां न शृणुमः । यः रणेषु दर्शनेन विजयश्रियम् अन्यसङ्गविमुखीं करोति ।

( ३०६ ) व्याख्या क्षतात् त्रायत इति क्षत्रं क्षत्रियजातिः क्षात्रधर्मो वा त्वादृशेन भवादृशेन विजि- गीपुणा विजयैषिणा विनाऽसाध्यानां कर्तुमशक्यानां कार्याणां साधने सम्पादनेऽक्षमं सामर्थ्यहीनम् । अम्बुधिस्समुद्रो युगान्तसमयं विना प्रलयकालागमनं विना जगतो भुवनस्य 'विष्टपं भुवनं जगत्' इत्यमरः । प्लावनाय निमज्जनाय नो प्रगल्भते न प्रभुः । अत्र प्रतिवस्तूपमालङ्कारः । 'सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिरिति' लक्षणात् । भाषा क्षत्रिय जाति, तुम्हारे ऐसे विजय की इच्छा रखने वाले के बिना असाध्य कार्य की सिद्धि करने में समर्थ नहीं हो सकती । समुद्र प्रलय काल के बिना जगत् को पानी के अन्दर डुबाने में समर्थ नहीं होता । अग्रजे तृणवदर्पितं निजं राज्यमूर्जितगुणेन यत्त्वया । वज्रलेपघटितेव तेन ते निश्चला जगति कीर्तिचन्द्रिका ॥३७॥ अन्वयः यत् ऊर्जितगुणेन त्वया निजं राज्यं तृणवत् अग्रजे अर्पितम् । तेन ते कीर्तिचन्द्रिका जगति वज्रलेपघटिता इव निश्चला (जाता ।) व्याख्या यदस्मात्कारणादूर्जिताः श्रेष्ठा गुणा दयादाक्षिण्यादयो यस्य स तेन प्रशस्य- गुणेन त्वया निजं स्वकीयं राज्यमग्रजे ज्येष्ठभ्रातरि सोमदेवे तृणवत्तृणेन तुल्यं लोभरहितमित्यर्थः । अर्पितं निवेदितं तेन कारणेन ते तव कीर्तिरेव चन्द्रिका कीर्तिज्योत्स्ना वज्रलेपेन कुलिशलेपेन चिरकालस्थायिना लेपद्रव्येण निश्चला- ऽचला स्थिरेत्यर्थः । जाता । भाषा चूंकि श्रेष्ठ गुणों से युक्त तुमने अपना राज पाट तृणवत् समझ कर अपने बडे भाई सोमदेव को दे दिया इससे तुम्हारी कीर्ति रूपी चांदनी वज्रलेप के समान अचल हो गई ।