विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 307, कुल 493 में से
संदर्भ में पढ़ें( २१३ ) तां विधाय कतिचिद्दिनानि स प्रेयसीघुसृणपङ्किलां नदीम् चोलसम्मुखमगाहतहव१–प्राप्तिदुर्ललितबाहुराग्रहम् ॥१८॥ अन्वयः आहवप्राप्तिदुर्ललितबाहुः सः कतिचित् दिनानि तां नदीं प्रेयसीघु- .पङ्किलां विधाय चोलसम्मुखम् आग्रहम् अगाहत । व्याख्या आहवानां युद्धानां 'अभ्यामर्दस्तमाघातसंग्रामाभ्यागमाहवाः' इत्यमरः । प्रा- लाभे दुर्ललितो दुश्चेष्टो बाहुर्भुजो यस्य स युद्धाप्राप्तिलिप्रभुजः स विक्रमाङ्कदे कतिचित् कियन्ति दिनानि दिवसांस्तां नदीं तुङ्गभद्रां प्रेयसीनामङ्गनानां घुमृणे कुङ्कुमेन पङ्किलां कर्दमसंपन्नां विधाय कृत्वा चोलसम्मुखं चोलराज्याभिमुख गाग्रहमाक्रमणमगाहत कृतवान् । भाषा युद्ध की प्राप्ति के लिये अत्यन्त लालायित या युद्ध की प्राप्ति न होने से दुश्चेष्ट-भुजा वाले विक्रमाङ्कदेव ने कुछ दिनों तक उस तुङ्गभद्रा नदी को अङ्गनाओं के अङ्ग में विलिप्त केशर से मिश्रित करने के अनन्तर चोलदेश पर आक्रमण कर दिया । इतः परं पञ्चभिः श्लोकैर्वनवासमण्डलं वर्णयति कविः– केलिकाननशकुन्तकृजितच्छाद्यमानगलकन्दलस्वनाः । प्राप्नुवन्ति न विदग्धतागुणं यत्र दर्शयितुमेणलोचनाः ॥१९॥ अन्वयः यत्र केलिकाननशकुन्तकृजितच्छाद्यमानगलकन्दलस्वनाः एणनयनाः विदग्धतागुणं दर्शयितुं न प्राप्नुवन्ति । १ चोलसम्मुखमगाहताहवाप्राप्तिदुर्ललितबाहुराग्रहम् । इतिपाठ. साधुतर प्रतिभाति ।