विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 308, कुल 493 में से
संदर्भ में पढ़ें( २९४ ) व्याख्या यत्र वनवासमण्डले केले: क्रीडायाः काननं वनं 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । तस्मिन् ये शकुन्ताः पक्षिणस्तेषां कूजितैश्शब्दैश्छाद्य- मानोऽभिभूयमानो गलकन्दलस्य गलनलिकायाः स्वनश्शब्दो यासां ता एणलोचना मृगनयनाः, पक्षिकलकलरवोत्कटतया मृगलोचनाशब्दोऽभिभूतो माधुर्यातिश- यादिति भावः । विदग्धताया वैदग्ध्यं गुणं समुत्कर्षं दर्शयितुं प्रकाशयितुं न प्राप्नुवन्ति न शक्नुवन्ति । पक्षिणां कलकलाधिक्यादङ्गनानां कोमलशब्दाः दुःखदा इति भावः । पक्षिणामाधिक्यात्तत्रत्यफलसम्पतिर्ध्वनिता । अतिश- योक्त्यलङ्कारः । भाषा बागों के पक्षियों के कूजित से दबे हुए गलों के शब्द वाली मृगनयनी स्त्रियां अपनी दक्षता के उत्कर्ष को प्रकट करने में समर्थ न हो सकीं । अर्थात् पक्षियों के जोर से होने वाले कलरव से उनकी कोमल व मधुर ध्वनि सुनाई नहीं पड़ सकती थी । यत्र तिष्ठति विरोधमुद्वहन् दाहतः प्रभृति तेजसा सह । मेचकक्रमुककाननावली-मीलितोष्णकिरणार्चिषि स्मरः ॥२०॥ अन्वयः मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र स्मरः दाहतः प्रभृति तेजसा सह विरोधम् उद्वहन् तिष्ठति । व्याख्या मेचकानां कृष्णवर्णानां क्रमुकाणां पूगवृक्षाणां काननानि वनानि तेषामावली पंक्तिस्तया मीलितान्यवरुद्धान्युष्णकिरणस्य सूर्यस्याऽर्चिषि मयूखा यस्मिंस्तस्मिन् मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र वनवासमण्डले स्मरः कामदेवो दाहतश्शिवतृतीयनेत्राग्निभस्मीकरणात्प्रभृति तेजसा येन केनाऽपि तेजस्सा- मान्येन सह विरोधं विद्वेषमुद्वहन् धारयन् तिष्ठति निवासं करोति । शिवने- त्राग्निविरोधेन तेजस्सामान्येन द्वेषात्सूर्यतेजसोऽप्यत्राऽनागमनादथ वने स्मरः स्थितिमवलम्बते इति भावः । स्मरे तेजसा विरोधरूपस्य धर्मस्योत्प्रेक्षणादुत्प्रेक्षा- लङ्कारो गम्यते, तेन च काननानां क्रीडायोग्यत्वं ध्वन्यत इति वस्तुध्वनिः ।