विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 315, कुल 493 में से
संदर्भ में पढ़ें( ३०४ ) जनैस्सर्वथैवाऽवर्णनीयमेवेत्यर्थः । यत्र कृपाणधाराजले त्वया भवता निवेशितं प्रतिष्ठापितं राजहंसानां मरालानां निवदस्तत्समूह उपमोपमानं यस्य तन्मरालसमूह- सदृशं शुभ्रं यशः कीर्ति राजति शोभते । उपमालङ्कारः । भाषा शत्रुओं के केशों के लगे होने के कारण, चञ्चल सेवार से युक्त तलवार के पानी का कैसे वर्णन किया जाए। जहाँ तुम्हारे द्वारा स्थापित राजहंस के समूह के समान श्वेत यश शोभित होता है। अर्थात् तुमने शत्रुओं को काटकर अपना श्वेत यश स्थापित किया। त्वद्भुजप्रणयिचापनिस्वनः कैरसौ समरसीम्नि सह्यते । व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरेणचक्षुषाम् ॥३४॥ अन्वयः असौ त्वद्भुजप्रणयिचापनिस्वनः समरसीम्नि कैः सह्यते । यः रिपु- मन्दिरेषु एणचक्षुषां क्रन्दितध्वनिभिः व्यक्तिम् एति । व्याख्या असौ प्रसिद्धस्तव भुजो बाहुः 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । त्वद्भूज- स्तस्य प्रणयी दृढसम्बद्धो यश्चापो धनुस्तस्य निस्वनः शब्दः समरसीम्नि युद्धभूमौ कैर्जनैः सह्यते सोढुं शक्यते । यो निस्वनो रिपूणां शत्रूणां मन्दिरेषु गृहेष्वेणस्य मृगस्य 'गोकर्णमृगतेजश्यंरोहिताश्चमरो मृगाः' इत्यमरः । चक्षुरिव लोचनमिव चक्षुर्यासां तास्तासां मृगलोचनानां क्रन्दितानि रुदितानि 'क्रन्दितं रुदितं क्रुष्टम्' इत्यमरः । एव ध्वनयश्शब्दास्तैर्व्यक्तिं प्रकाशं प्रकटतामित्यर्थः । एति प्राप्नोति । समरे यदीयचापानिर्गतबाणैर्मृतान् भर्तॄन् दृष्ट्वा राजपत्न्यः स्वभवनेषु रुदन्तीति भावः । अत्र चापनिस्वन-तत्प्रतिध्वन्योर्वैय्यधिकरण्येन वर्णनादसङ्गतिरलङ्कारः । भाषा तुम्हारी भुजा से घनिष्ठता रखने वाले इस धनुष की टङ्कार को युद्ध-भूमि में कौन सहन कर सकते हैं। जिसका साक्षात्कार शत्रुओं के घरों में मृग- नयनियों की रोने की ध्वनि से होता है। अर्थात् तुम्हारे धनुष का टङ्कार होते ही शत्रु मरता है और उसके घर की नारियाँ रोने लगती हैं।