विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 316, कुल 493 में से
संदर्भ में पढ़ें( ३०५ ) निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि । कश्मलैः परिहृता इवालिभिर्भज्जन्ति ककुभः प्रसन्नताम् ॥३५॥ अन्वयः ते ज्यारवैः दिशां करटिनः अपि हन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलैः परिहृताः ककुभः प्रसन्नतां भजन्ति । व्याख्या ते तव विक्रमाङ्कदेवस्य ज्याया मौर्व्या रवा स्वनास्तैर्ज्यारवै शिञ्जिनी- निर्घोषै 'मौर्वी ज्या शिञ्जिनी गुण' इत्यमरः । दिशा ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थः । हन्तेति हर्षे, 'हन्त बानेऽनुकम्पायां वाक्यारम्भविषादयो । निश्चये च प्रमोदे च' इत्यमर । निर्मदत्वं भयेन मदरहित्यमुपयान्ति प्राप्नुवन्ति । ते ज्यारव श्रुत्वा दिग्गजा स्वाहकार परित्यत्य भीतास्सन्तो मवरहिता भवन्तीति भाव । यदस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैर्मोहै- 'मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्' इत्यमर । कुनृपकृतदुष्कर्मभि- रित्यर्थ । परिहृता रहिता ककुभो दिशः प्रसन्नता नैर्मल्य भजन्ति समाध्नन्ति । कश्मलस्याऽलिभिस्साम्यादुपमा । भाषा यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय स मद रहित हो जाते हैं । मद जल के न बहने से भ्रमरो के न आने के कारण, भ्रमर रूपी दुष्ट राजाओ व दुकृत्य स्वरुप कालिमा से दूर हो जाने से दिशायें प्रसन्न हो जाती हैं । त्वादृशेन विजिगीषुणा विना छत्रमक्षममसाध्यसाधने । प्लापनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥ अन्वयः छत्र, त्वादृशेन विजिगीषुणा विना असाध्यसाधने अक्षमम् । अम्बुधिः ान्तसमयं विना जगतः प्लापनाय नो प्रगल्भते । २०