भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 314, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 314

( ३०३ ) अन्वयः त्वदीयकरवालवर्तिनः अम्भसः विमलत्वं किं वर्णयामि। यत् विश्वशुक्तिपुटमौक्तिकं यशः ऐन्दवीं द्युतिम् एति। व्याख्या त्वदीये स्वत्सम्बन्धिनि करवाले खङ्गे वर्तत इति त्वदीयकरवालवर्ती त भवदीयखड्गे स्फुटतया प्रतीयमानस्याम्भसो जलस्य विमलत्वं विशद धावल्यमित्यर्थः। किं वर्णयामि केन प्रकारेण निरूपयामि। यस्मादम्भा प्रभव उत्पत्तिर्यस्य तत् यत्प्रभवं यदुत्पन्नं, विश्वं सम्पूर्णब्रह्माण्डमेव शुक्तिपुटं तरू मौक्तिकमेव यशः कीर्तिरिन्दोरियमितैन्दवी ताम्बिन्दुसम्बन्धिनीं द्युति कान्तिमेति प्राप्नोति। त्वत्करवालप्रभावेन विश्वस्मिंस्ते चन्द्रवच्छुभ्रं यशः प्रसृतमिति भावः। शुभ्रत्वाद्यशसि मौक्तिकाभेदारोपाद्रूपकम्। अस्मिन्विश्वस्मिन् शुक्ति- पुटत्वारोपः कारणमतः परम्परितरूपकम्। 'नियतारोपगोपायस्यास्यारोपः परस्य यः। तत्परम्परितमिति' लक्षणात्। भाषा आपकी तलवार के (धार के) पानी की स्वच्छता का क्या वर्णन करें। जिससे उत्पन्न विश्वरूपी सीप का मौक्तिक रूपी यश चन्द्रमा की कान्ति को प्राप्त करता है अर्थात् आपकी तलवार से उत्पन्न चन्द्रमा के समान शुभ्र यश सम्पूर्ण विश्व में फैल गया है। खङ्गवारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलैः । यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥३३॥ अन्वयः अरिकुन्तलैः लोलशैवलम् इव भवतः खङ्गवारि किम् उच्यते। यत्र त्वया निवेशितं राजहंसनिवहोपमं यशः राजति। व्याख्या अरीणां शत्रूणां कुन्तलैः केशः (हेतुभिः) लोलञ्चञ्चलन्शैवलञ्शेवालं 'जलनीली तु शेवालं शैवलः' इत्यमरः। यस्मिंस्तल्लोलशैवलं प्रकम्पमान- शवलमिव भवतस्तव विक्रमाङ्कदेवस्य खङ्गवारि कृपाणधाराजलं किमुच्यते

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक) · पृष्ठ 314, कुल 493 में से · BharatKosha