विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 323, कुल 493 में से
संदर्भ में पढ़ें( २१३ ) भाषा यह वीरराजेन्द्र नामक चोल देश का राजा कुल की अलङ्कार स्व शील लज्जा आदि अद्भुत गुणों से तीनों लोकों में अनुपम, अपनी क तुमसे पाणिग्रहण अर्थात् विवाह कर सब लोगों में वदनीय होना चहता तेन तस्य वचनेन चारुणा प्राप १कुन्तलपतिः प्रसन्नताम् । तीव्ररोषविषवेगशान्तये भेषजं विनय एव तादृशाम्२ ॥४ अन्वयः कुन्तलपतिः तस्य चारुणा तेन वचनेन प्रसन्नतां प्राप । तादृ तीव्ररोषविषवेगशान्तये विनयः एव भेषजम् (अस्ति) । व्याख्या कुन्तलपति कुन्तलदेशाधिपतिर्विक्रमाङ्कदेवस्तस्य द्राविडेन्द्रदूतस्य चारुणा मनोहारिणा तेन पूर्वोक्तेन वचनेन वाक्यप्रपञ्चेन प्रसन्नतां प्रसाद 'प्रसादस्तु प्रसन्नता' इत्यमर । प्रापोपजगाम । तादृशा विक्रमाङ्कदेवसदृशानां विजि- गीषूणां तीव्रस्तीक्ष्णो रोष क्रोध एव विष गरल तस्य वेगो रयस्तस्य शान्तये शमनाय विनय एव नम्रत्वमेव भेषजमौषधं 'भैषज्यौषधभेषज्यान्यगदो जायु- रित्यपि' इत्यमर । अस्ति । विजिगीषूणां वीराणां पुरतो विनयदर्शनं तेषां क्रोधनिवारणपूर्वकप्रसन्नतासम्पादनायैक एवोपाय इति भाव । रोषे विषता- दारम्याद्रूपकम् । भाषा कुन्तलदेशाधिपति विक्रमाङ्कदेव, द्रविड़देश के राजा के दूत की पूर्वोक्त मीठी बातों से प्रसन्न हो गया । ऐसे महापुरुषों के तीव्र क्रोध रूपी विष के वेग को रोकने के लिये केवल विनय ही औषध है । १ कुन्तलदेशः कृष्णातुङ्गभद्रासङ्गमात् यावदानयुद्गमस्थानपर्यन्तं प्रसूत पूर्वपश्चिमाद्रिमध्यभाक् । २ भावोऽयमत्राऽपि प्रदर्शित — उल्लङ्घनीयं रणाङ्गणेषु यस्यातिदुद्धरस्य हठात्प्रहर्त्तुः । न नम्रभावादपरो नृपाणामासीत् कृपाणप्रतिषेधमार्गः ॥ (३ सर्गे ६९ श्लोक)