विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 324, कुल 493 में से
संदर्भ में पढ़ें( ३१४ ) कीदृशी शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया । • कामुकेषु मिषमात्रमीक्षते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥ अन्वयः सः शशिमुखी कीदृशी भवेत् इति चिन्तया हृदये स्पृश्यते स्म । नित्यकुण्डलितकार्मुकः स्मरः कामुकेषु मिषमात्रम् ईक्षते । व्याख्या स विक्रमाङ्कदेव शशिमुखी चन्द्रमुखी द्रविडदेशराजकुमारी कीदृशी किस्वरूपा भवेदिति चिन्तया विचारेण हृदये मनसि चित्तन्तु चेतो हृदय स्वान्त हृन्मानस मन' इत्यमर । स्पृश्यते स्म चिन्तितो बभूव । नित्य सदैव कुण्डलित समाकृष्ट कार्मुक धनुर्येन स सततसज्जधनु स्मर कामदेव कामुकेषु कामिषु कान्ताप्रत्यनुरागसम्भृतेष्वित्यर्थ । मिषमात्र व्याजमात्रमीक्षते पश्यति । चिन्तोत्पादनव्याजेनैव कामबाणव्यापार सफल इति भाव । अत्रार्थान्तरन्यासोऽलङ्कार । भाषा यह विक्रमाङ्कदेव, द्रविड देश के राजा की चन्द्रवदनी कन्या कैसी होगी इस विचार से चिन्तित हो उठा । कामियों के प्रति सदा धनुष सज्ज रखने वाला कामदेव, कामियों को पीडित करने में कोई बहाना ही खोजता रहता है । अब्रवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव । ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥४६॥ अन्वयः ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः (सः) दन्तकान्तिभिः मनसः प्रसन्नताम् उदीरयन् इव अब्रवीत् च । व्याख्या ओष्ठयो पृष्ठं तत्र लुठितो लुलित स्मितस्येषद्धासस्याऽञ्चल प्रान्तभागो यस्य स ओष्ठपृष्ठलुठितस्मिताञ्चलो लज्जयेवदासयुक्त कुन्तलीनां कुन्तलदेश- कामिनीनां नयनानि नेत्राणि 'लोचन नयन नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमर ।