विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 325, कुल 493 में से
संदर्भ में पढ़ें( ३१६ ) दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सजनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥५१॥ अन्वयः सज्जनाः दोषजातम् अवधीर्य मानसे गुणम् एव धारयन्ति । वारिदाः वारिधेः क्षारभावम् अपनीय सलिलम् एव गृह्णते । व्याख्या सज्जनाः सत्पुरुषा दोषाणां निन्द्यवस्तूनां जातं समूहं दोषजातं दुर्गुणकुल- मित्यर्थः । अवधीर्य परित्यज्याऽवहेलनं विधायेति भावः । मानसे हृदये 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । गुणमेव धारयन्ति समादरेण गृह्णन्ति । वारिदा मेघा वारिधेः समुद्रस्य क्षारभावं लवणत्वमपनीय दूरीकृत्य सलिलमेव शुद्धं माधुर्यव्यञ्जलमेव गृह्णते समाददति । दृष्टान्तालङ्कारः । भाषा सज्जनलोग दोषों को छोड़ कर मन में गुण को ही धारण करते हैं । मेघ, समुद्र के खारेपन को छोड़ कर विशुद्ध मधुर जल ही ग्रहण करते हैं । दिग्विजयव्यसनिना पुनः पुनस्तस्य किं प्रियमनुष्ठितं मया । रज्यते मयि दृढं तथाप्यसौ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ अन्वयः पुनः पुनः दिग्विजयव्यसनिना मया तस्य किं प्रियम् अनुष्ठितम् । तथापि असौ मयि दृढं रज्यते । कः उन्नतात्मनां चरितं वेत्ति । व्याख्या पुनः पुनर्भूयो भूयो दिशां जयो दिग्विजयस्तस्य व्यसनमस्याऽस्तीति दिग्विजय- व्यसनी तेन सर्वदिग्वर्त्तमाननृपमण्डलपराजयदुर्ललितचेतसा मया विक्रमाङ्कदेवेन तस्य द्राविडेन्द्रस्य किं प्रियं हितमनुष्ठितं कृतम् । तथापि मया किञ्चिदुपकारेऽ- कृतेऽप्यसौ द्राविडेन्द्रो मयि मत्सम्वन्धे दृढं रज्यते गाढं स्नेहं कुरुते । कः पुरुष उन्नत उत्कृष्ट आत्मा येषां ते तेषामुन्नतात्मनां महात्मनां चरितं माहात्म्यं वेत्ति जानाति । अत्रार्थान्तरन्यासालङ्कार.