विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 326, कुल 493 में से
संदर्भ में पढ़ें( ३१८ ) व्याख्या अथ विक्रमाङ्कदेवोक्त्यनन्तरमपगतं दूरीभूतं साध्वसं भयं यस्य स विगत- भीस्ताधुस्सज्जनरस चोलदूतोऽमृतस्य सुधाया स्रवः प्रवाह उपमोपमानं यस्यास्तां पीयूषप्रवाहसदृशीमिन्दुकुरवच्छन्द्रकिरणवन्निर्मला विशदा तामिति पूर्वोक्तप्रकारां वाचं वाणीं दर्शयन्तं प्रकटयन्तं युर्वाणमित्यर्थः । एनं प्रसिद्धं विक्रमाङ्कं विक्रमाङ्कदेवं व्यजिज्ञपत् निवेदितवान् । भाषा विक्रमाङ्कदेव के बोलने के अनन्तर भय से रहित उस सज्जन चोलराजदूत ने अमृत के प्रवाह के ऐसी तथा चन्द्रमा के किरणों के ऐसी मीठी और निर्मल उपर्युक्त बातें बोलने वाले विक्रमाङ्कदेव से कहा । किं तवान्यदुचितं वदान्यता यत्समादिशति तत्त्वया कृतम् । प्रार्थितार्थपरिपन्थिनामगात् कश्चुलुक्यकुलपार्थिवोऽर्थिनाम् ॥५५॥ अन्वयः तव अन्यत् उचितं किम् । वदान्यता यत् समादिशति तत् त्वया कृतम् । कः चुलुक्यकुलपार्थिवः अर्थिनां प्रार्थितार्थपरिपन्थिनाम् अगात् । व्याख्या तव भवतो विक्रमाङ्कदेवस्यान्यदितरदुचितं योग्यं किम् । अर्थात् भवता सर्वमुचितमेवाऽनुष्ठितम् । वदान्यतोदारता 'स्युर्वदान्यस्थूललक्ष्यदानशौँडा बहुप्रदे' इत्यमरः । ताबकीनेति भावः । यत्समादिशति यदाज्ञापयति तत्त्वया भवता कृतं विहितम् । सर्वमेव हृदयस्य विशालत्वं भवता प्रदर्शितमिति भावः । कश्चुलुक्यकुलस्य चालुक्यवंशस्य पार्थिवो भूपोऽर्थिनां याचकानां प्रार्थितोऽभिवा- ञ्छितोऽर्थः प्रयोजन तस्य परिपन्थितां प्रतिकूलतामगात् गतवान् न कोऽपीत्यर्थः । चालुक्यकुलोत्पन्नाना राज्ञां याचकमनोरथपूरणं स्वाभाविकमिति भावः । अत्रा- र्थापत्यलङ्कारः । भाषा इससे बढ़ कर आपका और दूसरा क्या उचित कार्य हो सकता है। आपने अपने ओदार्य के अनुरूप कार्य किया। चालुक्य वंश के किस राजा ने अर्थियों की प्रार्थना का निषेध किया है अर्थात् किसी ने नहीं ।