विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 33, कुल 493 में से
संदर्भ में पढ़ें( ८ ) अथ प्रस्तावनामवतारयति कविः - अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्म-भूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥६॥ अन्वयः श्रवणामृतस्य अनभ्रवृष्टिः सरस्वतीविभ्रमजन्मभूमिः पदानां सौभाग्य- लाभप्रतिभूः वैदर्भरीतिः कृतिनाम् उदेति । व्याख्या श्रवणस्य कर्णस्य यदमृतमानन्ददायिवस्तु तस्य श्रवणामृतस्य कर्ण-पीयूष- स्याऽभ्राणां मेघानां 'अभ्रं मेघो वारिवाहस्तनयित्नुर्बलाहक' इत्यमरः । वृष्टि- र्वर्षणमभ्रवृष्टिर्नभ्रवृष्टिरनभ्रवृष्टिर्मेघमन्तरेव वर्षणरूपा सरस्वत्या वाग्देवताया विभ्रमस्य विलासस्य जन्मभूमिरुत्पत्तिस्थानं 'स्त्रीणां विलास विब्बोकविभ्रमाल- लितं तथा' इत्यमरः । पदानां शब्दानां सौभाग्यलाभस्य सौन्दर्यप्राप्ते प्रतिभूः प्रतिलग्निका वैदर्भरीति गौडोपाञ्चालीवैदर्भीति रीतिन्नय एकतमा 'माधुर्य व्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्भीरीतिरिष्यते' । कृतिनां विशिष्टकाव्यरचनाकुशलानां पुण्यवतां कवीनामुदेति प्रादुर्भवति । केवलं भाग्यवन्त कुशलाश्च तथाविधालौकिक-गुणविशिष्ट-वैदर्भरीतो काव्य रचयितु प्रभवन्तीति भाव । वैदर्भरीती श्रवणामृतानभ्रवृष्टेर्वाणिविलासजन्मभूमे सौभाग्यलाभप्रतिभूत्वस्य चाऽऽरोपाद्रूपकालङ्कारः । 'तद्रूपकमभेदो य उपमानो- पमेययोः । भाषा वैदर्भीरीति का आविर्भाव उत्कृष्ट और अच्छे काव्य की रचना करने में कुशल पुण्यात्मा कवियों में ही होता है। अर्थात् वैदर्भीरीति में रचना हर एक कवि नहीं कर सकता । यह वैदर्भीरीति श्रवणेन्द्रिय को आनन्द देनेवाले अमृत की बिना मेघ की वर्षा है, वाणी के विलास का जन्म स्थान है और पदों को यथोचित स्थान प्राप्त होकर उनके सौन्दर्यवृद्धि की जामिन है । जयन्ति ते पञ्चमनाद-मित्र-चित्रोक्तिसन्दर्भविभूषणेषु । सरस्वती यद्वदनेषु नित्यमाभाति वीणामिव वादयन्ती ॥१०॥