विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 34, कुल 493 में से
संदर्भ में पढ़ें( ९ ) अन्वयः सरस्वती पञ्चमनादमित्रचित्रोक्तिसन्दर्भविभूषणेषु यद्वदनेषु नित्यं वीणां वादयन्ती इव आभाति ते जयन्ति । व्याख्या सरस्वती शब्दधिष्ठातृदेवता पञ्चमनादस्य पञ्चमस्वरस्य पिकस्य वा 'पिका गायन्ति पञ्चमम्' मित्राणि समानानि चित्राणां रसालङ्कारादिना चमत्कारिणी- नामुक्तीनां काव्यानां सन्दर्भाः समूहाः सम्यग्गिरचनानि वा विभूषणान्यलङ्कर- णानि येषां तेषु येषां कवीनां वदनेषु मुखेषु नित्यं निरन्तरं वीणां कच्छपीं वादयन्तीव सारयन्तीवाऽऽभाति चकास्ति ते कवीश्वराः जयन्ति सर्वोत्कर्षेण वर्तन्ते । कविवदने सरस्वत्या वीणावादनस्योत्प्रेक्षणात्क्रियास्वरूपधर्मोत्प्रेक्षा । अभेदासम्बन्धातिरिक्तसम्बन्धेन वीणावादनस्य कविवदने सम्भाव्यमानत्वात् । भाषा वे कवीश्वर धन्य हैं, जिनके कोयल के शब्द के समान कर्णेन्द्रिय को सुख देने वाली, रस अलङ्कार आदि से युक्त, चमत्कार पैदा करने वाली उक्तियों से अथवा कविता समूहों से विभूषित मुखों में, सरस्वती अपनी कच्छपी बीन बजाती सी सदैव शोभित होती हैं । साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥११॥ अन्वयः हे कवीन्द्राः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत । यत् अस्य लुण्ठनाय काव्यार्थचौराः दैत्याः इव प्रगुणीभवन्ति । व्याख्या हे कवीन्द्राः कविश्रेष्ठाः साहित्यमेव साहित्यशास्त्रमेव पाथसामुदकानां 'कबन्धमुदकं पाथ' इत्यमरः । निधिः समुद्रस्तस्य मन्थनं चिराभ्यासस्तरङ्गा- वृत्तित्वेनेति साहित्यपाथोनिधिमन्थनोत्थं साहित्यशास्त्ररूपसमुद्रालोडनोत्पन्नं कर्णयोः श्रोत्रयोरमृतं पीयूषं रक्षत विनाशात्परेषामपहाराद्वा गोपायत । यद्यस्मा- त्कारणादस्यानुमृतस्य लुण्ठनायाऽपहरणाय काव्यार्थस्य काव्यरूपद्रव्यस्य चौरास्त-