विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 35, कुल 493 में से
संदर्भ में पढ़ें( १० ) स्करा दैत्या इव समुद्रमन्थनाविर्भूतामृतापहरणादृता दैत्या इव प्रगुणीभवन्ति बहुलीभवन्ति सर्वतो वर्धन्ते सीया लोलुपाश्च सन्तीत्यर्थः । काव्यार्थचौरेषु दैत्यसादृश्यादुपमा । 'साधर्म्यमुपमाभेदे' इतिलक्षणात् । भाषा हे कवियो में श्रेष्ठ कविगण, साहित्यरूपीसमुद्र के मथन करने से अर्थात् चिरकाल तक अभ्यास करने से उत्पन्न और कान को सुख देनेवाले काव्यरूपी अमृत की सदैव रक्षा करते रहिए । क्योकि इस काव्यरूपी अमृत की चोरी करने के लिए, समुद्रमन्थन के समय अमृत की चोरी करने में लालायित दैत्यो के समान बहुत से काव्य रूपी धन के चोर एकत्रित हो गए है । गृह्णन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥१२॥ अन्वयः यदि वा सर्वे यथेष्टं गृह्णन्तु । कवीश्वराणां का अपि क्षतिः न अस्ति । अमर्त्यैः बहुषु रत्नेषु लुप्तेषु अद्य अपि सिन्धुः रत्नाकरः एव । व्याख्या यदि वा अथवा पक्षान्तरे सर्वे काव्यार्थचोरा यथेच्छमिष्टमनतिक्रम्य यथास्या- तथा यथेष्टं यथेच्छं गृह्णन्तु काव्यरूपं कर्णामृतं स्वोपयोगे समानयन्तु । तथापि कवीश्वराणां कवीन्द्राणां काऽपि काचिदपि क्षतिर्हानिर्नास्ति न सम्भवति । अमर्त्यैर्देवैः “अमरा निर्जरा देवाः—आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः’ इत्यमरः । बहुष्वसंख्यातेषु रत्नेषु लुप्तेषु अपहृतेषु सत्स्वप्यद्यापि साम्प्रतमपि सिन्धुः समुद्रः ‘उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः । रत्नानां मणीनामाकरो निधिरथ प्रसिद्धः । देवैः प्रचुररत्नानि गृहीतानि तथापि समुद्रस्य रत्नाकरत्वप्रयुक्तं माहात्म्यं पूर्ववदेव । अत्र दृष्टान्तालङ्कारः ‘दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्' । भाषा अथवा काव्यार्थ चोर काव्य रूपी द्रव्य की चोरी यथेच्छ करते रहें, इसमें श्रेष्ठ कवियों की कोई क्षति नहीं है । देवताओ ने समुद्र में से बहुत से रत्न निकाल लिए तो भी समुद्र अभी भी रत्नाकर ही कहा जाता है ।