भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 36, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 36

( ११ ) सहस्रशः सन्तु विशारदानां वैदर्भलीलानिधयः प्रबन्धाः। तथापि वैचित्र्यरहस्यलुब्धाः श्रद्धां विधास्यन्ति सचेतसोऽत्र ॥१३॥ अन्वयः (यद्यपि) विशारदानां वैदर्भलीलानिधयः प्रबन्धाः सहस्रशः सन्तु। तथापि वैचित्र्यरहस्यलुब्धाः सचेतसः अत्र श्रद्धां विधास्यन्ति । व्याख्या यद्यपि विशारदानां काव्यनिर्माणकलाप्रवीणानां महाकवीनां वैदर्भी लीलेति वैदर्भलीला विदर्भदेशप्रसिद्धो दाक्षिणात्यानां कविताविलासस्तस्य निधय आकर- भूताः प्रबन्धाः कृतयस्सहस्रशोऽगणितास्सन्तु नाम 'कामेति सम्भावनायाम्' । तथापि वैचित्र्यं चमत्कारो ध्वन्यलङ्कारसन्निवेशजन्यस्तस्य रहस्ये मर्मणि लुब्धा लोलुपास्सचेतस काव्यानुभवानुकूलचेतसा सह वर्तमाना इति सचेतस सहृदया विद्वास अत्र विक्रमाङ्कदेवचरितनाम्नि काव्ये श्रद्धां सधा 'सधा प्रतिष्ठा मर्यादा श्रद्धा संप्रत्यय स्पृहा' इत्यमरः । विशेषप्रीतिमित्यर्थः । विधास्यन्ति करिष्यन्ति । भाषा यद्यपि काव्यनिर्माणकला में प्रवीण महाकवियों के विदर्भ देशीय दाक्षिणात्यों की वैदर्भीरीति के असंख्य काव्य भले ही विद्यमान हों तो भी ध्वनि, अलङ्कार आदि के सन्निवेश से उत्पन्न होनेवाली विचित्रता के मर्म को समझकर मोहित होनेवाले सहृदय विद्वद्गण, इस विक्रमाङ्कदेवचरित नामक काव्यपर विशेष प्रेम करेंगे । कुण्ठत्वमायाति गुणाः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥ अन्वयः कवीनां गुणाः साहित्यविद्याश्रमवर्जितेषु अनाद्रेषु कुण्ठत्वम् आयाति । अङ्गनानाम् अनाद्रेषु केशेषु कृष्णागरुधूपवासः किं कुर्यात् ।