विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ११ ) सहस्रशः सन्तु विशारदानां वैदर्भलीलानिधयः प्रबन्धाः। तथापि वैचित्र्यरहस्यलुब्धाः श्रद्धां विधास्यन्ति सचेतसोऽत्र ॥१३॥ अन्वयः (यद्यपि) विशारदानां वैदर्भलीलानिधयः प्रबन्धाः सहस्रशः सन्तु। तथापि वैचित्र्यरहस्यलुब्धाः सचेतसः अत्र श्रद्धां विधास्यन्ति । व्याख्या यद्यपि विशारदानां काव्यनिर्माणकलाप्रवीणानां महाकवीनां वैदर्भी लीलेति वैदर्भलीला विदर्भदेशप्रसिद्धो दाक्षिणात्यानां कविताविलासस्तस्य निधय आकर- भूताः प्रबन्धाः कृतयस्सहस्रशोऽगणितास्सन्तु नाम 'कामेति सम्भावनायाम्' । तथापि वैचित्र्यं चमत्कारो ध्वन्यलङ्कारसन्निवेशजन्यस्तस्य रहस्ये मर्मणि लुब्धा लोलुपास्सचेतस काव्यानुभवानुकूलचेतसा सह वर्तमाना इति सचेतस सहृदया विद्वास अत्र विक्रमाङ्कदेवचरितनाम्नि काव्ये श्रद्धां सधा 'सधा प्रतिष्ठा मर्यादा श्रद्धा संप्रत्यय स्पृहा' इत्यमरः । विशेषप्रीतिमित्यर्थः । विधास्यन्ति करिष्यन्ति । भाषा यद्यपि काव्यनिर्माणकला में प्रवीण महाकवियों के विदर्भ देशीय दाक्षिणात्यों की वैदर्भीरीति के असंख्य काव्य भले ही विद्यमान हों तो भी ध्वनि, अलङ्कार आदि के सन्निवेश से उत्पन्न होनेवाली विचित्रता के मर्म को समझकर मोहित होनेवाले सहृदय विद्वद्गण, इस विक्रमाङ्कदेवचरित नामक काव्यपर विशेष प्रेम करेंगे । कुण्ठत्वमायाति गुणाः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥ अन्वयः कवीनां गुणाः साहित्यविद्याश्रमवर्जितेषु अनाद्रेषु कुण्ठत्वम् आयाति । अङ्गनानाम् अनाद्रेषु केशेषु कृष्णागरुधूपवासः किं कुर्यात् ।
( १२ ) व्याख्या कवीनां काव्यरचयितॄणां गुणः प्रकर्षः साहित्यविद्यायां साहित्यविद्योपार्जने तदनुशीलने च यः श्रमो निरन्तराभ्यासस्तेन वर्जितेषु रहितेष्वनाद्रेष्वरसिकेषु प्राणिषु कुण्ठत्वं स्वप्रभावरहित्यमावाति प्राप्नोति हृदयङ्गमो न भवतीत्यर्थः । सहृदयाः पण्डिताः साहित्यविद्यायां कृतभूरिश्रमा एव काव्यस्य यथार्थमाहात्म्यं जानन्ति न तु मतिहीना अविद्वांस इति भावः । अङ्गनानां कामिनीनामनाद्रेषु तैलादि- स्निग्धपदार्थाननुलिप्तेषु केशेषु कचेषु कृष्णागरोश्चन्दनकाष्ठविशेषस्य कस्तूरी मिश्रितसुगन्धद्रव्यस्य वा धूपवासः सुगन्धः (अग्नौ सुगन्धद्रव्यं प्रक्षिप्य तद्धूमोपर्या- र्द्रकेशानामनाद्रीकरणं लोके प्रसिद्धम् ।) किं कुर्याद्विडम्बनायैवेत्यर्थः । न तस्य किञ्चिदुपयुक्तं फलम् । अत्र दृष्टान्तालङ्कारः । भाषा कवियों का गुण (वैशिष्ट्य) साहित्यविद्या का अभ्यास करने में परिश्रम न करने वाले तथा नीरस मनुष्यो पर अपना प्रभाव नहीं डाल सकता । स्त्रियो के स्निग्धता रहित सूखे हुए केशो में चन्दनविशेष या कस्तूरीमिश्रित सुगन्धित द्रव्यो का धूप क्या कर सकता है । अर्थात् सूखे हुए केशो को सुगन्धित धूप देने से उनमें सुगन्ध नहीं आ सकती । प्रौढिप्रकर्षेण पुराणरीति-व्यतिक्रमः श्लाघ्यतमः पदानाम् । अत्युन्नतिस्फोटितकञ्चुकानि वन्द्यानि कान्ताकुचमण्डलानि ॥१९॥ अन्वयः पदानां प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः । अत्युन्नति- स्फोटितकञ्चुकानि कान्ताकुचमण्डलानि वन्द्यानि । १ "अत्र 'प्रौढि' पद प्राचीनालङ्कारिकस्वीकृतगुणविशेषमात्रपरमितिव्याख्या- तु नोचितम् । तादृशार्थकरणे सहदुचितार्थप्रत्यायकत्वेन कवेरभिप्रायः स्फुटो न स्यात् । अत्र तु 'प्रौढि' शब्देन कविप्रतिभाविशेषस्तन्मूलको ध्वन्यलङ्कारादि- सन्निवेशश्च विवक्षित इति ।" २ भावोऽयमत्रापि प्रदर्शित । अस्यप्रतिसमाधेय रतमद्वन्द्वस्य दूषणम् । स्फुटता कञ्चुकानां यन्नायातपादकरणीयताम् ॥ (सर्ग-८ श्लोकः ४५)
( १३ ) व्याख्या पदानां शब्दानां रसगुणालङ्कारादिप्रत्यायकत्वेन चमत्कारित्वं प्रौढिस्तस्याः प्रकर्षेणोत्कटत्वेन पुराणी प्राचीना या रीतिरथवा पुराणानां कवीनां या रीतिः परिपाटी तस्या व्यतिक्रमः परित्यागः श्लाघ्यतमः प्रशस्यतमो भवति । अत्युच्चतया स्फोटितानि दार्ढ्यातिशयात्त्रोटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणा- शुकानि यैस्तानि कान्तानां प्रेयसीनां कुचमण्डलानि स्तनमण्डलानि वन्द्यानि स्तुत्यानि भवन्ति । अत्र दृष्टान्तालङ्कारः । भाषा प्रौढि प्रकर्ष से अर्थात् रस गुण अलङ्कार आदि की विशिष्ट चमत्कृति के प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियों द्वारा प्रयुक्त पद- विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता तथा काठिन्य से चोली को फाड़ देने वाले रमणियों के स्तनमण्डल सराहना करने योग्य होते हैं । व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥ अन्वयः आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते । मौक्तिकच्छिद्रकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते । व्याख्या आवर्जिता आकृष्टाः कोविदाः पण्डिताः 'विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः' । इत्यमरः । यया साऽऽवर्जितकोविदाऽपि पण्डितानामाकर्षिकाऽपि विशिष्टेत्यर्थः । व्युत्पत्तिर्नू- तनकल्पना लौकिकरचनाकौशलं जडानां मूर्खाणां रञ्जनाय प्रसादायै न क्रमते न समर्था भवति । मौक्तिकेषु मुक्तासु छिद्रं रन्ध्रं 'छिद्रं निर्व्यथनं रोधं रन्ध्रं श्वभ्रं वपा सुषिः' इत्यमरः । करोतीति रन्ध्रकरी शलाका सूची टङ्किकायाः पाषाण- दारणलोहकीलस्य 'टङ्कः पाषाणदारणः' इत्यमरः । कर्मणि कठिनपाषाणविदारणं कर्तुं न प्रगल्भते न समर्था भवति । अत्र दृष्टान्तालङ्कारः ।
( १४ ) भाषा पण्डितो को भी आकर्षित करने वाली नवीन कल्पना या काव्यरचना की कुशलता मूर्खों को आनन्दित नही कर सकती । मोती में छेद करने की सुई टांकी का काम नही कर सकती । अर्थात् सूक्ष्म बातो को कुशाग्रबुद्धि ही समझ सकता है । स्थूल बुद्धिवालो को उनसे कोई सुख नही मिलता । कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥१७॥ अन्वयः ये कवीनां कथासु लब्धरसाः ते कथान्तरेषु न अनुरज्यन्ति । ग्रन्थि- पर्णप्रणयाः कस्तूरिकागन्धमृगाः तृणेषु न चरन्ति । व्याख्या ये जनाः कयोना क्रान्तदर्शिनां कवीना कथासु रचनासु लब्धः प्राप्तो रस आनन्दो यैस्ते लब्धरसा अनुभूतलाह्लादास्ते कथान्तरेष्वन्यासु क्षुकविरचनासु नाऽ- नुरज्यन्ति नाऽनुरक्ता भवन्ति । ग्रन्थिपर्णीनाम सुगन्धिक्षुपविशेषः 'ग्रन्थिपर्णं शुकं बर्हपुष्पं स्योणेषुकुकुशुरं' इत्यमरः । 'गठिवन' 'भटोरा' इति भाषायां ख्यातः । तस्मिन् प्रणयः स्नेहो येषां ते, कस्तूरिकाया गन्धो येषु ते मृगा हरिणाः कस्तूरिमृगास्तृणेषु घासेषु 'शष्पं बालतृणं घासः' इत्यमरः । न चरन्ति न भक्षणप्रीतिं जनयन्ति । अत्र दृष्टान्तालङ्कारः । भाषा जो लोग अच्छे कवियों के काव्यो को पढकर आनन्द प्राप्त कर चुके हैं वे अन्य छोटे मोटे कवियों के काव्यों में आनन्द नही प्राप्त कर सकते । गठिवन नाम के सुगन्धित पौधे को खाने के प्रेमी कस्तूरिमृग अन्य घासपात नही चरते । जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः । प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नांकुरज्योतिषि किं करोति ॥१८॥ अन्वयः जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु वराकाः के । प्राप्ता- ग्निनिर्वापणगर्वम् अम्बु रत्नाङ्कुरज्योतिषि कि करोति ।
( १५ ) व्याख्या जडेषु ज्ञानरहितेषु मूर्खेषु जातस्समुत्पन्नः प्रतिभाया बुद्धिप्रागल्भस्याऽभिमा- नोऽहङ्कारो येषु ते सञ्जातर्बुद्धयुत्साहङ्काराः खला नीचाः कवयः कवीन्द्राणां महाकवीनामुषितुषु प्रतिस्पर्द्धिनीषु रचनासु वराकाः के गणनारहिता अकिञ्चि- त्कराइवेत्यर्थः । सभासु प्रवर्तमानासु ते पराजिता एव भवन्तीति भावः । तेषां कवीन्द्राणां यथार्थतत्वं महत्वञ्च ते न जानन्तीति धिक् । प्राप्तो लब्धो- ऽग्निर्वापणस्य वह्निप्रशामकत्वस्य गर्वो दर्पो 'गर्वोऽभिमानोऽहङ्कारो मानश्चित्त- समुन्नतिः । दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः । येन तदम्बु जलं रत्नस्य मणेरङ्कुर इव ज्योतिः प्रकाशस्तस्मिन् किं करोति न किमपीत्यर्थः । जलं वह्निर्वापणे क्षममपि रत्नतेजसो निवारणाय नालमिति । 'बुद्धिस्तात्का- लिकीज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः' । अत्र दृष्टान्तालङ्कारः । 'किं करोति न किमपि कर्तुं शक्नोतीत्यर्थाक्षेपादर्थापत्ति- रलङ्कारश्च । भाषा मूर्खमण्डली में जिन खलों को नई नई उपज वाली बुद्धि से युक्त होने का गर्व हो गया है उन विचारे मूर्ख कवियों की श्रेष्ठकवियों की कविताओं को समझने में या उनसे अपनी कविताओं की तुलना करने में कौन गिनती है । अर्थात् प्रसङ्ग आने पर अच्छे कवियों के सम्मुख उन्हें हार माननी पड़ती है । आग को बुझा देने का अभिमान रखने वाला जल, रत्न के अङ्कुर के समान तेज (किरणों) का क्या बिगाड सकता है । अर्थात् रत्न पर कितना ही पानी पडे तो भी उसकी चमक दूर नहीं हो सकती, वैसे ही मूर्खों की प्रतिभा से श्रेष्ठ कवियों की प्रतिभा दब नहीं सकती । उल्लेखलीला-घटनापटूनां सचेतसां वैकटिकोपमानाम् । विचारशाणोपलपट्टिकासु मत्सूक्तिरत्नान्यतिथीभवन्तु ॥१६॥ अन्वय मत्सूक्तिरत्नानि उल्लेखलीला-घटनापटूनां वैकटिकोपमानां सचेतसां विचारशाणोपलपट्टिकासु अतिथीभवन्तु ।
१. तैलप से सोमेश्वर प्रथम तक चालुक्य वंश
( १८ ) अन्वयः संक्रान्तवक्रोक्तिरहस्यमुद्राः ये रसध्वनेः अध्वनि चरन्ति ते अस्मत्प्र- बन्धान् अवधारयन्तु । शेषाः शुकवाक्यपाठं कुर्वन्तु । व्याख्या संक्रान्ता सङ्गता वक्रोक्तीनां विचित्रोक्तीनां रहस्यस्य तत्वस्य मुद्राऽभिनि- वेशो येषु ते, ये सहृदया रसध्वनेरध्वनि मार्गे चरन्ति विहरन्ति, वक्रोक्ति रहस्यज्ञात्तारो रसध्वनिमार्गगाश्च ये न बहिर्भूता इत्यर्थः । तेऽस्मत्प्रबन्धानस्मद्विर- चितकाव्यान्यवधारयन्तु मदीयकाव्यस्य यथार्थज्ञाने समर्था भवन्तु । अन्ये तदितरे शुकवत्तदर्थज्ञानमन्तरेण वाक्यपाठं शब्दोच्चारणमेव कुर्वन्तु । काव्यार्थभावना- परिपक्वबुद्धिविभवमात्रवेद्यमस्मत्काव्यसत्यमिति भावः । भाषा जो विचित्र उक्तियों के सम्पूर्ण रहस्यो को अच्छी तरह जानने वाले हैं और रसध्वनि के मार्ग का अवलम्बन करने वाले हैं वे विद्वान् कविलोग मेरे काव्य को समझे । इनसे अतिरिक्त अन्य कवि सुग्गे के ऐसे (बिना अर्थ रहस्य समझे) इस काव्य का केवल पाठ किया करें । अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् । ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षमन्ते ॥२३॥ अन्वयः महाकवीनाम् अनन्यसामान्यगुणत्वम् एव अनर्थाय भवति यत् सभासु सुलभाः अल्पप्रतिभाः एषां जल्पं ज्ञातुं न क्षमन्ते । व्याख्या महाकवीनां कविश्रेष्ठानामन्येषु यत्सामान्यं साधारणत्वं सकलजनवृत्तित्वं तदन्यसामान्यं नास्त्यन्यसामान्यमनन्यसामान्य-मनन्यसामान्यञ्चतद्गुणत्वञ्चेत्य- नन्यसामान्यगुणत्वं विशेषगुणवत्त्वमेवानर्थायाऽनिष्टोत्पत्त्यर्थं भवति जायते । इष्टं तु महाकवीनामाशयज्ञानं तत आनन्दानुभूतिः सा तु साधारणबुद्धिमतां न भवतीत्येवाऽनर्थः । यदस्मात्कारणात्सभासु सर्वसभासु सुलभा, सुखेन लभ्याः स्वोद्योगेनेवाऽऽनन्दार्थमेकत्रीभूता इत्यर्थः । विशिष्टजनोपस्थितिः सभास्वनाया-
( १९ ) तेनैव सर्वत्र न भवति मतस्ते मानिनः अनाहूता यत्र तत्र न गच्छन्तीति । अल्पप्रतिभा मन्दमतयो जना एषां महाकवीनां जल्पं सारगर्भं वचो ज्ञातुं वोढुं न क्षमन्ते न समर्था भवन्ति । सकलमन्दजनाज्ञेयत्वं महाकविकृतीनामित्येव तेषां महाकवीनां महान्दोषः । अत्र व्याजस्तुतिरलंकारः 'व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।' भाषा महाकवियों का विशिष्टगुण ही उनके लिए अनिष्टकारक हो जाता है । क्यो कि सभाओं में सुलभता से प्राप्त हो सकने वाले छोटी बुद्धि के कवि, इन महाकवियों की उक्तियो का अर्थ भी समझने में असमर्थ होते हैं । अलौकिकोल्लेखसमर्पणेन विदग्धचेतःकषपट्टिकासु । परीक्षितं काव्यसुवर्णमेत-ल्लोकस्य कण्ठाभरणत्वमेतु ॥२४॥ अन्वयः विदग्धचेतःकषपट्टिकासु अलौकिकोल्लेखसमर्पणेन परीक्षितम् एतत् काव्यसुवर्णं लोकस्य कण्ठाभरणत्वम् एतु । व्याख्या कषाणां निकषोपलानां 'शाणस्तु निकष कषः' इत्यमरः । पट्टिकाः कषपट्टिका विदग्धानां पण्डितानां चेतांस्येव कषपट्टिकास्तासु विदग्धचेतःकषपट्टिकास्वलौ- किका लोकोत्तरा च उल्लेखाश्चमत्कृतकृतयः पक्षे श्रेष्ठतासूचयित्र्यः सुवर्णरेखा स्तेषां समर्पणेन प्रदानेन परीक्षितं निर्धारितमेतत्काव्यरूपसुवर्णं (सुन्दरवर्णयुक्त- काञ्चनं शोभनाक्षरसमेतं काव्यञ्च) लोकस्य सर्वजनस्य कण्ठाभरणत्वं कण्ठ- भूषणत्वमेतु प्राप्नोतु । यथा कषपट्टिकायां सुपरीक्षितं शुद्धमुत्तमं सुवर्णं जनस्य कण्ठस्थं सदलङ्कारत्वं प्राप्नोति तथैव विद्वच्चेतःसु परीक्षित-मिदङ्काव्यं जनस्य कण्ठस्थं सद् भूषणं भवत्विति भावः । काव्ये सुवर्णाभेदारोपस्य विदग्धचेतःसु कषपट्टिकारोपे कारणत्वात्परम्परितरूपकम् । 'यत्र कस्यचिदारोपः परारोपण- कारणम् । तत्परम्परितम् ।' भाषा विद्वानों की चित्त रूपी कसौटी पर (कसे जान पर) असाधारण सद्बुक्ति रूपी अच्छे कस के आने से जाँचा हुआ यह काव्य रूपी सुवर्ण (सोना या
( १६ ) व्याख्या मम सूक्तय कविता एव रत्नानि मत्सूक्तिरत्नान्युल्लेखस्य कवितालेखनस्य वैकटिकपक्षे रत्नोत्कर्षणस्य या लीला वैशिष्ट्य तस्या घटनाया सम्पादने पटूना चतुराणा वैकटिकानामुपमा सादृश्य येषु तेषा रत्नपरीक्षकतुल्याना सचेतसा सहृदयाना महाकवीना विचारा एव शाणोपला रत्नशुद्धिपरिचायकपाषाण विशेषा- “शाणस्तु निकष कष” इत्यमरः । तेषां पट्टिकास्तद्वितिभवन्तु । अतिथ- रूपेणैकत्रीभवन्तु । शाणोपलपट्टिकासूल्लिखनेन रत्नकान्तिपरीक्षणदक्षाणा वैकटिकानामिवोत्तमकाव्यकरणे विचारणे च कुशलाना महाकवीना विचारार्थ- मस्मत्काव्य भवत्विति भावः । वैकटिकेन सहृदयस्य सादृश्यप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपादूपकञ्च । भाषा सान पर चढाकर रत्नो की परीक्षा करने में कुशल जोहरी लोगो के समान, उत्तम काव्य बनाने में कुशल सहृदय काव्यज्ञो की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हो । अर्थात मेरे काव्य को उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है । न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्कराऽपि ॥२०॥ अन्वय दुर्जनानाम् इह कः अपि दोषः न । हि तेषा स्वभावः गुणासहिष्णुः । केषाम् अपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव । व्याख्या दुर्जनानां खलानामिहार्थास्मन्पद्येषा निन्दाकरणे कोऽपि दोषो नाऽस्ति । हि यस्मात्कारणात्तेषा खलाना स्वभाव प्रकृतिरेव गुणानां सद्गुणानामसहिष्णुरसहन- शीलो मात्सर्ययुक्त इत्यर्थ । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड इव कर्पूर- खण्ड इव विपाण्डुरा शुक्ला पुण्ड्रशाखा महदिक्षूचा शर्करा भूरिदिक्षुनिर्मितशर्करा प्रचुरयैव सुमधुराऽपि द्वेष्यैवाऽरुचिशान्तिरेव भवति । 'पित्तेन दूने रसने सिताऽपि तिक्तायते हंसकुलावतस ।' इति श्रीहर्ष । अत्र दृष्टान्तालङ्कारः ।
( १७ ) भाषा दुर्जनो में दूसरो की निन्दा करना यह दोष नहीं कहा जा सकता । क्यो कि दूसरो के अच्छे गुणों की निन्दा करना उनका स्वभाव ही होता है। कुछ लोग ऐसे भी हे जिनको कपूर की डली के ऐसी पोडे से बनी सफेद चीनी भी अच्छी नहीं लगती । सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥ अन्वयः कविताविलासाः कुङ्कुमकेसराणां नूनं सहोदराः भवन्ति । यत् मया तेषां प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः । व्याख्या कविताया सत्कविताया विलासा विभ्रमा कुङ्कुमस्याग्निशिखस्य 'अथ कुङ्कुमम् । कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने' इत्यमरः । केसरा किञ्ज- ल्का 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेषां नूनं निश्चयेन सहोदरा एकदेशजन्यत्वाद् भ्रातरो भवन्ति सन्ति । यद्यस्मात्कारणाम्मया कविना बिल्हणेन तेषां कविताविलासानां कुङ्कुमकेसराणाञ्च प्ररोहोऽङ्कुर उद्भव इत्यर्थः । शारदाया सरस्वत्या आदेश प्रसाद पक्षे शारदाया सरस्वत्या देशं कश्मीरमपास्य विहायान्यत्रान्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थः पक्षेऽन्यस्मिन् देशे न दृष्टो नावलोकितः । शारदाप्रसाद विना न कविताविलासोद्गमः । कश्मीरदेशं विहाय नान्यत्र कुङ्कुमकेसरोद्गम इति भावः । भाषा उत्तम कविता के विलास और केसर दोनों निश्चय ही सगे भाई हैं । शारदा के आदेश बिना अर्थात् सरस्वती की कृपा बिना अच्छी कविता की उत्पत्ति और शारदा देश बिना अर्थात् कश्मीर बिना केसर की उत्पत्ति, अन्यत्र होती हुई मैंने नहीं देखी है । रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः । तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥२२॥ २
( २० ) सुन्दराक्षर युक्त भव्य) मनुष्यों के कण्ठ का आभूषण बने । अर्थात् जिस प्रकार जंचे हुए शुद्ध सोने का बना गोफ (गले का आभूषण) गले की शोभा बढाता है वैसे ही विद्वानो द्वारा परीक्षित यह मेरा उत्तम काव्य साधारण लोगो द्वारा कण्ठस्थ किया जाकर उनकी कण्ठ की शोभा को बढ़ाये । किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण । किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् ॥२५॥ अन्वयः चारुचारित्रविलासशून्याः भूपाः कविसंग्रहेण किं कुर्वन्ति । गुञ्जाफल- भूषणानां वनेचराणां सुवर्णकारेण जातु किम् । व्याख्या चारु सुन्दरं सत्काव्यपरिचयेन सहृदयहृदयसंवादि चारित्रं चरितं तस्य विलास उत्कर्षस्तेन शून्या रहिताः काव्यमहत्त्वांसम्बेदिनो दुश्चरिता भूपा राजानः कवीनां संग्रहेणाऽऽश्रयप्रदानेनाऽऽश्रयं प्रदाय स्वराजसभायां स्थापनेनेत्यर्थः किं कुर्वन्ति न किमपीत्यर्थ । दुश्चरितानां राज्ञां कवि संग्रहेण न कोऽपि लाभ । ये कविमहत्त्वमेव न विदन्ति तेषां कृते कवयो निष्प्रयोजनका इति भाव । गुञ्जाफल कृष्णलाफलं 'काकचिंची गुंजे तु कृष्णला' इत्यमरः । एव भूषणमलङ्कारो येषां तेषां वनेचराणांमारण्यकानां सुवर्णकारेण स्वर्णभूषणनिर्माणरेन जातु कदाचिदपि किं, किं प्रयोजनं, न किमपीत्यर्थ । सुवर्णकारा सुवर्णस्य भूषणानि निर्माण्ति तानि तु वनेचरा न समाद्रियन्ते यतस्तेषां कृते गुञ्जैव महद्भूषणमिति सुवर्णकारास्तेषां कृते निष्प्रयोजनकास्तथैव कवय सुचरित्रमेव राजानं भजन्ते न दुश्चरितम् । दुश्चरितानां राज्ञां कृते ते कवयो निष्प्रयोजनका इति भावः । अत्र दृष्टान्तालङ्कार । भाषा जो राजा असच्चरित्र हैं वे अपने दरबार में कवियो का संग्रह कर क्या करेंगे । गुंज के गहनो को पहनने वाले जंगली लोगो को सोने के आभूषणो को बनाने में कुशल सोनारो का क्या काम पड़ सकता है अर्थात् जिस प्रकार गुंज के गहने पहनने वालो के लिये सोनार किसी काम का नही उसी प्रकार कुचरित्र राजा के लिये कवि भी किसी काम का नही । क्योकि कवि सुचरित्र
( २१ ) राजा के यहाँ रह कर ही अपने काव्यों से उसका गुणगान कर उसकी यशः पताका फहराता है। पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियन्तो न बभूवुरुर्व्यां जानाति नामाऽपि न कोऽपि तेषाम् ॥२६॥ अन्वयः यस्य पृथ्वीपतेः पार्श्वे कवीश्वराः न सन्ति तस्य यशांसि कुतः। उर्व्यां कियन्तः भूपाः न बभूवुः तेषां नाम अपि कः अपि न जानाति। व्याख्या यस्य पृथ्वीपते राज्ञः पार्श्वे कवीश्वराः कवीन्द्रा न सन्ति न शोभन्ते तस्य भूपस्य यशांसि कीर्तयः 'यशः कीर्तिः समज्ञा च स्तवस्तोत्रं स्तुतिर्नुतिः' इत्यमरः। कुतो, न कुतोऽपीत्यर्थः। यशसः प्रख्यापकानामभावात्कुतो यशःप्रतिष्ठेतिभावः। उर्व्यां महीमण्डले कियन्तः कतिसंख्याका भूपा राजानो न बभूवुर्न जाताः (परं) तेषां नामाऽपि संज्ञामपि कोऽपि मनुष्यो न जानाति। काव्यैकनिबद्धमेव राज्ञां यशश्चिरस्थायि भवतीति राज्ञां यशसोऽपयशसो वा कवीश्वरा एव निदान- मिति भावः। भाषा जिस राजा के पास में (दरबार में) अच्छे कवि नहीं हैं उसका यश कहाँ से फैल सकता है। इस पृथ्वी पर क्या कितने ही राजा ऐसे नहीं हुए हैं जिनका नाम भी कोई मनुष्य नहीं जानता है। १ भावोऽयमत्राऽपि प्रदर्शितः। भुजवनतरुच्छाया येषां निषेव्य महौजसा, जलधिरशना मेदिन्यासीदसावकुतोभया। स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं, प्रकृतिमहते तस्मैसत्त्वं नमः कविवर्ष्मणे॥ राजतरङ्गिण्याम्।
( २२ ) लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः । स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥ अन्वयः यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः एव आदिकवेः प्रभावः, क्षितीन्द्रैः कवयः न कोपनीयाः । व्याख्या यल्लङ्कापते रावणस्य यश कीर्ति 'यश कीर्ति समज्ञा च स्तम स्तोत्र स्तुति- र्नुति' इत्यमर । सङ्कुचितमविस्तृतं नष्टमित्यर्थं । यद्रघुराजस्य दशरथस्य पुत्रो राम कीर्तिपात्र यशोभाजन जात स सर्व एवाऽऽदिकवेर्वाल्मीके प्रभाव- कौशलं कार्यमित्यर्थं । अतः क्षितीन्द्रै राजभि कवयो न कोपनीया न क्रोधनीया नापमाननीया इतिभाव । यदिति वाक्यार्थपरामर्शकः । भाषा रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जो कीर्ति के पात्र हुए, यह सब आदि कवि वाल्मीकि का ही प्रताप है । इसलिए राजाओ को कभी भी कवियो को कुपित न करना चाहिये । गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः । के वा न शुष्कां मृदमभ्रसिन्धु-सम्बन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥ अन्वयः मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति । व्याख्या मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्ति प्रवर्तन व्यापारो वा नृपते राज्ञो विक्रमाङ्कदेवस्य चरित्रैश्चरितैर्हेतुभिर्मान्या पूज्या भवित्री भाविनी । प्रकृत्या चारु राज्ञश्चरितमत्र वर्णितमिति हेतोरिदं काव्यं विदुषा रसनीयत्वमुप- यास्यत्येवेति भावः । के वा मनुष्या शुष्कां रसरहितामभ्रसिन्धोर्जाह्नव्या सम्बन्धिनीं तटगतां मृदं मृत्तिकां मूर्द्धनि शिरसि न धारयन्ति नाऽवतंसयन्ति ।
( २७ ) गङ्गासम्बन्धादेव मृदोऽप्यभ्यर्हितत्वं न तु स्वतः । अत्र दृष्टान्तालङ्कारः । अन्यसम्बन्धेन श्लाघ्यत्वकथनादुदात्तालङ्कारश्च । 'लोकातिशय-सम्पत्तिवर्ण- नोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्' । भाषा मेरी नीरस वाणी का भी व्यापार (यह काव्य) राजा विक्रमाङ्कदेव के चरितों के कारण आदरणीय होगा। कौन मनुष्य गङ्गा की नीरस मिट्टी (सूखी मिट्टी) को अपने मस्तक पर धारण नहीं करते अर्थात् नहीं लगाते । अर्थात् गङ्गा का सम्बन्ध होने से सूखी मिट्टी भी जैसे आदरणीय होती है वैसे ही महाराज विक्रमाङ्कदेव का सम्बन्ध होने से मेरा नीरस काव्य भी आदरणीय होगा । कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् । निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टक-जालमेव ॥२६॥ अन्वयः खलानां कर्णामृतं सूक्तिरसं विमुच्य दोषे सुहान् प्रयत्नः । क्रमेलकः केलिवनं प्रविश्य कण्टकजालम् एव निरीक्षते । व्याख्या खलानां पिशुनानां 'पिशुनो दुर्जनः खलः' इत्यमरः । कर्णयोरमृतं श्रुति- रसायनं सूक्तिरसं सुभाषितानन्दं विमुच्य परित्यज्य दोषे दोषावेषणे (एव) सुमहान्विरोषः प्रयत्नः प्रयासो भवति । क्रमेलक उष्ट्रः केलिवनं क्रीडोद्यानं प्रविश्य गत्वा कण्टकानां कण्टकीयवृक्षाणां जालं समूहमेव निरीक्षते पश्यत्यन्विष्य- तीत्यर्थः । तेषां कृते कण्टकीवृक्षाणामेव प्रियत्वं न तु सुगन्धिपुष्पादिभिरुद्यान- रमणीयताया इति भावः । अत्र दृष्टान्तालङ्कारः । भाषा खललोग कान को अमृत के समान सुख देने वाले अच्छे सुभाषितों के रस का आस्वादन छोड़कर उनमें दोष देखने में ही अत्यन्त प्रयत्न शील रहते हैं । सुन्दर बाग में जाकर उसकी पुष्पवृक्ष आदि की शोभा से आनन्द न प्राप्तकर ऊँट, कांटे की झाड़ियों की ही खोज में रहता है । अर्थात् ऊँट को जिस प्रकार अच्छे बाग में जाकर भी काँटे की झाड़ी ही प्रिय मालूम होती है वैसे भलो को
( २४ ) अच्छे काव्य सुनकर उनसे आनन्द न मिलकर केवल उनमें दोष निकालना ही प्रिय मालूम होता है। एषाऽस्तु चालुक्यनरेन्द्रवंश-समुद्गतानां गुणमौक्तिकानाम् । मद्भारती-सूत्रनिवेशितानामेकावली कण्ठविभूषणं वः ॥३०॥ -अन्वयः एषा चालुक्यनरेन्द्रवंशसमुद्गतानां मद्भारतीसूत्रनिवेशितानां गुणमौक्ति- कानाम् एकावली वः कण्ठविभूषणम् अस्तु । व्याख्या एषा वाग्यावली चालुक्यनरेन्द्राणां वंशः कुलमेव वंशो वेणुस्तस्मात्समुद्गतानां समुत्पन्नानां, वेणौ मुक्तास्समुद्भवन्ति बहुमूल्याश्च भवन्तीति प्रसिद्धिः । मद्भारती मदीयवाग्येव सूत्रं गुणस्तस्मिन्निवेशितानां गुम्फितानां, गुणा दयादा- क्षिण्यादय एव मौक्तिकानि तेषामेकावल्येकावृतो हारो वो युष्माकं कण्ठवि- भूषणमस्तु । राज्ञां गुणाः कण्ठेनोच्चार्यमाणास्सन्तः कण्ठविभूषणानि मौक्तिकानि कण्ठे धार्यमाणानि कण्ठविभूषणानीति भावः । अत्र गुणेषु मौक्तिकारोपे, वंशे वेणुत्वारोपस्य कारणत्वात्परम्परितं रूपकम् । वाक्यावल्यामेकावल्यारोपे भारत्यां सूत्रत्वारोपस्य कारणत्वाच्च परम्परितं रूपकम् । 'नियता रोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा' इति । भाषा चालुक्य राजाओं के वंश रूपी बांस में से उत्पन्न यह दया दाक्षिण्यादि गुण रूपी मोतियों का, मेरी वाणी रूपी डोरे में परोया हुआ, वाक्यावली रूपी एकलड़ा हार, आप लोगों के कण्ठ का आभूषण हो । अर्थात् चालुक्य वंशीय राजाओं के दयादाक्षिण्यादिगुणों की मेरी वाणी में वर्णित वाक्यावली आप लोगों के कण्ठ से उच्चारित होकर उसे सुशोभित करे जिस प्रकार बांस की मोतियों का डोरे में परोया हुआ एकलड़ा हार कण्ठ को सुशोभित करता है। साम्प्रतं चालुक्यवंशमूलपुरुषोत्पत्तिं प्रस्तौति- लोकेषु सप्तस्वपि विश्रुतोऽसौ सरस्वतीविभ्रमभूः स्वयम्भूः । चत्वारि काव्यानि चतुर्मुखस्य यस्य प्रसिद्धाः श्रुतयश्चतस्रः ॥३१॥
( २५ ) अन्वय चतुर्मुखस्य यस्य चत्वारि काव्यानि चतस्रः श्रुतयः प्रसिद्धाः, असौ सरस्वतीविभ्रमभूः स्वयम्भूः सप्तसु अपि लोकेषु प्रसिद्धः । व्याख्या चत्वारि मुखानि यस्य स चतुर्मुखस्तस्य चतुर्मुखस्य यस्य ब्रह्मण सम्बन्धीनि तन्मुखेभ्यो निसृतानीत्यर्थः । चत्वारि चतु सङ्ख्याकानि काव्यानि काव्यरूपाणि चतस्र श्रुतयो वेदा प्रसिद्धा ख्याता असौ प्रसिद्ध सरस्वत्या वाग्देव्या वाङ्मयस्य वा विभ्रमाणां विलासानां भूत्पत्तिस्थानमाश्रयो वा स्वयम्भू्र्ब्रह्मा सप्तस्वपि भूर्भुवःस्वर्महोजनस्तपःसत्येषु लोकेषु भुवनेषु 'लोकस्तु भुवने जने' इत्यमरः । प्रसिद्धो विख्यात अस्तीति । सरस्वती वेधस कन्येति पत्नीतिवेत्युभयं लोक- प्रसिद्धम् । सरस्वत्या पतिर्ब्रह्मेति हेतो सरस्वती तस्मिन्स्वमञ्जुलविलासावि- र्चेष्टाभिस्सरसतामापादयति कन्यात्वेनाऽऽवन्त्वञ्च जगत्पति । भाषा जिस चार मुख वाले ब्रह्मा के चार मुखो से निकले हुए चार काव्य चार वेद हैं, ऐसी प्रसिद्धि है वह सरस्वती के विलास का स्थान स्वयम्भू ब्रह्मा सातो लोको में प्रसिद्ध है । एकस्य सेवातिशयेन शङ्के पङ्केरुहस्यासनतां गतस्य । आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपदमम्बुजानाम् ॥३२॥ अन्वय आसनता गतस्य एकस्य पङ्केरुहस्य सेवातिशयेन आराधितः यः अम्बुजानां सकल कुटुम्ब लक्ष्मीपदं चकार (इति) शङ्के। व्याख्या (ब्रह्मन्) आसनतामुपवेशनस्थानता गतास्य प्राप्तस्यैकस्य कस्यचित्पङ्केरुहस्य सरसीरुहस्य 'पङ्केरुहं तामरस सारस सरसीरुहम्' इत्यमरः । सेवातिशयेन स्वपत्रस्योपर्यासनदानरूपसेवाप्रकर्षेणाऽऽराधित सेवितो यो ब्रह्माऽम्बुजानां पद्मानां सकल समग्रं 'समग्र सकल पूर्णम्' इत्यमरः । कुटुम्बं जाति कमलजाति मित्यथः । लक्ष्म्या श्रियः पदं निवासस्थानं चकारेति शङ्के तर्कयामि । अतएव लक्ष्म्या पद्मालयेति नाम लोके प्रसिद्धमिति भावः । अत्रोत्प्रेक्षालङ्कारः ।
( २६ ) भाषा किसी एक कमल ने, आसन बनकर अत्यधिक सेवा करने से प्रसन्न होकर ब्रह्मा ने सम्पूर्ण कमल जाति को ही लक्ष्मी का निवास स्थान बना दिया, ऐसा मैं सोचता हूँ। ब्रह्मर्षिभिर्ब्रह्ममयीममुष्य सार्द्धं कथां वर्धयतः कदाचित् । त्रैलोक्यबन्धोः सुरसिन्धुतीरे प्रत्यूषसन्ध्यासमयो बभूव ॥३३॥ अन्वयः कदाचित् सुरसिन्धुतीरे ब्रह्मर्षिभिः सार्द्धं ब्रह्ममयीं कथां वर्धयतः त्रैलोक्यबन्धोः अमुष्य प्रत्यूषसन्ध्यासमयः बभूव । व्याख्या कदाचित्कस्मिंश्चित्समये सुरसिन्धो स्वर्गङ्गायास्तीरे तटे ब्रह्मर्षिभि श्रेष्ठ- मुनिभिस्साद्धं सह ब्रह्ममयीं परब्रह्मविषयिणीं कथां वार्तां वर्धयतो विकास नयतस्त्रैलोक्यस्य बन्धुर्मित्र तस्य त्रैलोक्यहितकारकस्याऽमुष्य ब्रह्मण प्रत्यूषस्य प्रातःकालस्य ‘प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्यूषसी अपि’ इत्यमरः । सन्ध्याया सन्ध्यावन्दनादेस्समयः कालो बभूव जात । कथारसे मग्नानां तेषां समयज्ञाना- भावात्प्रातःकालसन्ध्यावन्दनावसरः सम्प्राप्त इति भावः । भाषा किसी समय आकाशगङ्गा के किनारे ब्रह्मर्षियों के साथ परब्रह्मसम्बन्धि कथा का विस्तार करते करते तीनों लोका के मित्र अर्थात् हित चाहने वाले ब्रह्मा जी का प्रातःकाल का सन्ध्यावन्दन करने का समय उपस्थित हो गया । अर्थात् परब्रह्म की चर्चा में इतने लीन हो गये थे कि बातें करते करते सब रात बीत गई । मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः । अन्योन्यविश्लेषणयन्त्रसूत्र- भ्रान्त्येव चञ्चुस्थितमाचकर्ष ॥३४॥ अन्वय निजवल्लभायाः चाटुषु समुत्सुकः चक्रवाकः अन्योन्यविश्लेषणयन्त्रसूत्र- भ्रान्त्या इव चञ्चुस्थितं मृणालसूत्रम् आचकर्ष ।
( २७ ) व्याख्या (प्रत्यूषे) निजवल्लभायाः स्वप्रियायाश्चाटुषु चाटुकरणेषु प्रेमालापादिव्य- हारेषु समुत्सुकः समुत्साहितश्चक्रवाकः कोकः 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वय नामकाः, इत्यमरः । अन्योन्यस्य परस्परस्य यद्विश्लेषणं वियोगस्तस्य यन्त्रसूत्रं तद्धटकयन्त्रस्य सूत्रं तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र- सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थितं 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । मृणालसूत्रं बिसतन्तुमाचकर्षऽऽकृष्टवान् । रात्रौ चक्रवाक- मिथुनस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे जाते चक्रवाकस्य स्व- प्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधकं मृणालतन्तुं निरीक्ष्यैतदेवास्मद्रात्रिवियोगकारणमिति भ्रमावतःपरमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः । चक्रवाककर्तृकचञ्चुस्थितमृणाल- सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्वेन सम्भावनप्रति- पादनादुत्प्रेक्षालङ्कारः । भाषा (प्रात काल हो जाने पर, रातभरके वियोग के अनन्तर सयोग होने से) अपनी स्त्री चकई से उत्सुकता से रस भरी मीठी मीठी बातें कहने और सुनने की अभिलाषा से, चकई की चोंच में विद्यमान कमल के डण्डे के डोरे को मानो परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है ।) आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन । बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ॥३५॥ अन्वयः अर्ध्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजी- वितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे । व्याख्या अर्घ्यस्य पूजोपचारमिश्रितजलस्य 'यत् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यादिरमरः । अर्पणे प्रदाने तत्पराणां लग्नानां सिद्धाङ्गनानां देवयो-
( २८ ) निर्विशेषपतितानां कुङ्कुमेनेवाऽग्निशिखेनेव कुङ्कुममिश्रितजलरूपार्घ्यस्य रक्तकान्त्येवाऽरक्तमासमन्ताद्रक्तवर्णं राजीविन्द्याः कमलिन्या जीवितं जीवनं तस्य वल्लभः स्वामी तस्य सूर्यस्य बिम्बं मण्डलं 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । बिम्बफलस्य कुन्दू इति लोके प्रसिद्धस्य रक्तवर्णशाकफलस्य प्रतिष्ठां सवर्णतासारूप्यं दधे दधार । कुङ्कुमार्ययुक्ताम्बुरूपार्घ्यस्य सूर्यबिम्बे प्राप्त्याऽर्घ्यस्य रक्तत्वात्सूर्य-बिम्बस्याऽपि रक्तत्वं जातमिति भावः । प्रातः- कालिकसूर्यबिम्बस्य बिम्बफलस्य च सादृश्यदर्शनादुपमा । सूर्यबिम्बस्य रक्तत्वे कुङ्कुमस्य कारणत्वेन सम्भावनाद्धेतूत्प्रेक्षा । भाषा अर्घ्य देने में तत्पर सिद्धाङ्गनाओ के अर्घ्य के केसर से मानो लाल भया हुआ कमलिनी के जीवन के स्वामी सूर्य का मण्डल (पके हुए) कुन्दू के समान लाल दिखाई देने लगा । सुधाकरं वार्धकतः क्षपायाः संप्रेश्य मूर्द्धानमिवानमन्तम् । तद्विप्लवायेव सरोजिनीनां स्मितोन्मुखं पङ्कजवक्त्रमासीत् ॥३६॥ अन्वयः क्षपायाः वार्धकतः आनमन्तं मूर्द्धानम् इव सुधाकरं संप्रेक्ष्य सरोजिनीनां पङ्कजवक्त्रं तद्विप्लवाय इव स्मितोन्मुखम् आसीत् । व्याख्या क्षपाया रजन्या वृद्धस्य भावो वार्धकं तस्माद्वार्धकतोरजन्या गतप्रायत्वाद्वृ- द्धावस्थात आनमन्तमधोगच्छन्तं (अस्तोन्मुखत्वात्) मूर्द्धानमिव शिर इव सुधाकरं चन्द्रं सम्प्रेक्ष्य दृष्ट्वा सरोजिनीनां कमलिनीनां पङ्कजमेव वक्त्रं मुखं, तस्य चन्द्रस्य सरोजिनीरिपुत्वात् तस्याः क्षपायाश्च रिपुस्त्रीत्वात् विप्लवायेव विडम्बनाया इव स्मितोन्मुखमीषद्विकस्युक्त विकासयुक्तं वाऽऽसीद्वभूव । यथा काचिन्नायिका स्वरिपु- मस्तोन्मुखं स्वरिपुस्त्रियश्च वृद्धावस्थाप्रयुक्तां नम्राननत्वादितुरवस्थां वीक्ष्य सुखमनुभवन्ती तद्विडम्बनाय हसेरानना भवति तथैवेयं कमलिनी गतप्रायां रात्रिं अस्तोन्मुखं चन्द्रञ्च वीक्ष्य विकसिताभूदिति भावः । कमलिनी रात्रौ न विकसतीति प्रसिद्धम् । अत्राप्रस्तुत-व्यवहारस्य कमलिनीव्यवहारे समारोपात्समासोक्त्य- लङ्कारः । चन्द्रे च वार्धक्यप्रयुक्तनम्रीभूतरात्रिरूपनायिकाशीर्षस्योत्प्रेक्षणाद्वस्तू- त्प्रेक्षा । पङ्कजे वक्त्रत्वाभेदाद्रूपकम् । अत उत्प्रेक्षारूपकमूला समासोक्तिः । इति त्रयाणामङ्गाङ्गीभावसङ्करः ।
( २९ ) भाषा वृद्धावस्था के कारण रात्रि रूपी कामिनी के चन्द्ररूपी मस्तक को लटका हुआ देखकर चन्द्र के अस्तोन्मुख होने से और उसकी (रात्रि की) वृद्धावस्था की बुरी हालत से प्रसन्न होकर कमलिनी मानो उसे चिढाने के लिये मुस्कुराने लगी। अर्थात् रात समाप्त होने से और चन्द्रमा के अस्तोन्मुख होने के कारण नीचे लटक जाने से कमलिनी धीरे २ खिलने लगी। कमलिनी रात को नही खिलती यह बात प्रसिद्ध है। ज्ञात्वा विधातुश्चुलुकात्प्रसूतिं तेजस्विनोऽन्यस्य समस्तजेतुः । प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥३७॥ अन्वयः पङ्कजिनीवधूनां प्राणेश्वरः विधातुः चुलुकात् समस्तजेतुः अन्यस्य तेज- स्विनः प्रसूतिं ज्ञात्वा इव दुर्गं पूर्वाचलम् आरुरोह। व्याख्या पङ्कजिन्यो नलिन्यस्त एव वध्वस्तासां प्राणेश्वरो जीवितेश्वरस्तरणिर्विधातु- र्ब्रह्मणश्चुलुकाञ्जलपूरिताञ्जलेः समस्तस्य राजवंशस्य जेतुर्जयशीलस्यान्यस्य कस्यचित्तेजस्विनः प्रतापिनश्चालुक्यवंशमूलपुरुषस्य प्रसूतिमुत्पत्तिं ज्ञात्वेव विज्ञा- यैव सकलजेतुरन्यतेजस्विनो भयादात्मरक्षार्थं दुर्गं दुष्प्राप्यस्थानं दुर्गाश्रयं वा पूर्वाचलमुदयाचलमारुरोह गतवानिति । सूर्योदयो जात इति भावः । अत्र पद्मिन्यां वधूतादात्म्यारोपः सूर्ये प्राणेश्वरस्याऽभेदारोपे कारणत्वात्परम्परितं रूपकम्। पूर्वाचले दुर्गाभेदरूपकम् । सूर्यस्य दुर्गारोह अन्यतेजस्विन उत्पत्ति- ज्ञानस्य कारणत्वेनोत्प्रेक्षणादुत्प्रेक्षा । सूर्यवृत्तान्ते तादृशाप्रकृतान्यपुरुषवृत्तान्ता- भेदसमारोपात्समासोक्तिः । अत एतेषां सङ्करः । भाषा ब्रह्मा के चुल्लू से सबको जीतने वाले चालुक्य वंश के मूल पुरुष रूपी किसी दूसरे तेजस्वी की उत्पत्ति होने वाली है ऐसा मानो जानकर कमलिनी रूपी ललनाओ के पति सूर्य भय से पूर्वाचल रूपी अगम्य किले पर चढ गये। अर्थात् जिस प्रकार प्रतापी, वीर और सबको जीतने वाले योद्धा के आने पर कोई प्रतापी भय से दुर्गाश्रय कर लेता है उसी प्रकार चालुक्य वंश के प्रतापी मूल पुरुष की ब्रह्मा जी के चुल्लू से उत्पत्ति होने वाली है ऐसा मानो जान कर
( ३० ) प्रतापी सूर्य ने उदयाचल रूपी अभेद्य किले का आश्रय लिया । अर्थात् सूर्य पूर्वाचल पर उदित हुआ । जगाम याङ्गेषु रथाङ्गनाम्नां परस्परदर्शनलेपनत्वम् । - सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणफलके ममज्ज ॥३८॥ अन्वयः या रथाङ्गनाम्नाम् अङ्गेषु परस्परदर्शनलेपनत्वं जगाम सा चन्दनपङ्क- कान्तिः चन्द्रिका शीतांशुशाणफलके ममज्ज । व्याख्या या रथत्वाऽङ्ग चक्र नाम येषां तेषां रथाङ्गनाम्नां चक्रवाकपक्षिणामङ्गेष्ववयवेषु परस्परस्यान्योन्यस्य यद्दर्शनं तदेव लेपनं तस्य भावस्तत्वमन्योन्यादर्शनप्रयोज- कलेपनद्रव्यत्वं जगाम प्राप्तवती, रात्रौ चन्द्रिकया निखिललोके नितान्तं धवलितेऽपि चक्रवाकयुगलस्यान्योन्यदर्शनं न सम्भवतीति कविलोकप्रसिद्धम् । तत्रोत्प्रेक्ष्यते तेषां पक्षिणामङ्गेषु चन्द्रिकारूपविलेपनद्रव्यविशेषेण लेपस्य जायमानत्वाद्विलि- प्तत्वेनाङ्गानामविभावनम् । सा चन्दनपङ्कस्य कान्तिरिव कान्तिर्यस्या सा चन्द्रिका (प्रात कालसमये) शीतांशुश्चन्द्र शाणफलकमिवेत्युपमितसमासः, चन्द- नघर्षणोपलमिव तस्मिन् ममज्ज तिरोहिता बभूव । जाते प्रत्यूषे चन्द्रस्य निष्प्रभ- त्वात्तस्य शरीरे चन्द्रिका समाविष्टा सती नान्यत्र परिदृश्यते । चन्दनस्य यथा शाणोपरि घर्षणेन चन्दनाऽभावेऽपि तत्कान्ति शाणोपरि दृश्यते तथैव साम्प्रतं चन्द्रिकाया सर्वत्राऽभाव सञ्जात किन्तु तत्स्वरूपं शाणफलकसदृशावर्तुलाकार- चन्द्रोपरि केवलं परिदृश्यते । अत इद ज्ञायते यच्चन्द्रिकाऽस्मिन्सुधांशावेव प्रविष्टा सती निमग्ना जाताऽदृश्यत्व गतेत्यर्थ । चन्द्रिकायाश्चन्दनपङ्केन सह सादृश्यादुपमा । भाषा रात को चकवा और चकई का वियोग होता है और वे परस्पर देख नही सकते ऐसी कविप्रसिद्धि है। अतः कवि कल्पना करते हैं कि चकवा और चकई के अङ्गों को अदृश्य कर देने वाले लेप के समान एक दूसरे को परस्पर देखने में बाधक, चन्दन के द्रव के समान शोभावाली चांदनी, चन्दन घिसने के गोल होरसा के सदृश चन्द्र में प्रविष्ट हो गई अर्थात् प्रात काल में चाँदनी अन्यत्र कहीं न दिखाई