भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 43, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 43

( १६ ) व्याख्या मम सूक्तय कविता एव रत्नानि मत्सूक्तिरत्नान्युल्लेखस्य कवितालेखनस्य वैकटिकपक्षे रत्नोत्कर्षणस्य या लीला वैशिष्ट्य तस्या घटनाया सम्पादने पटूना चतुराणा वैकटिकानामुपमा सादृश्य येषु तेषा रत्नपरीक्षकतुल्याना सचेतसा सहृदयाना महाकवीना विचारा एव शाणोपला रत्नशुद्धिपरिचायकपाषाण विशेषा- “शाणस्तु निकष कष” इत्यमरः । तेषां पट्टिकास्तद्वितिभवन्तु । अतिथ- रूपेणैकत्रीभवन्तु । शाणोपलपट्टिकासूल्लिखनेन रत्नकान्तिपरीक्षणदक्षाणा वैकटिकानामिवोत्तमकाव्यकरणे विचारणे च कुशलाना महाकवीना विचारार्थ- मस्मत्काव्य भवत्विति भावः । वैकटिकेन सहृदयस्य सादृश्यप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपादूपकञ्च । भाषा सान पर चढाकर रत्नो की परीक्षा करने में कुशल जोहरी लोगो के समान, उत्तम काव्य बनाने में कुशल सहृदय काव्यज्ञो की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हो । अर्थात मेरे काव्य को उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है । न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्कराऽपि ॥२०॥ अन्वय दुर्जनानाम् इह कः अपि दोषः न । हि तेषा स्वभावः गुणासहिष्णुः । केषाम् अपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव । व्याख्या दुर्जनानां खलानामिहार्थास्मन्पद्येषा निन्दाकरणे कोऽपि दोषो नाऽस्ति । हि यस्मात्कारणात्तेषा खलाना स्वभाव प्रकृतिरेव गुणानां सद्गुणानामसहिष्णुरसहन- शीलो मात्सर्ययुक्त इत्यर्थ । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड इव कर्पूर- खण्ड इव विपाण्डुरा शुक्ला पुण्ड्रशाखा महदिक्षूचा शर्करा भूरिदिक्षुनिर्मितशर्करा प्रचुरयैव सुमधुराऽपि द्वेष्यैवाऽरुचिशान्तिरेव भवति । 'पित्तेन दूने रसने सिताऽपि तिक्तायते हंसकुलावतस ।' इति श्रीहर्ष । अत्र दृष्टान्तालङ्कारः ।