भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 42, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 42

( १९ ) तेनैव सर्वत्र न भवति मतस्ते मानिनः अनाहूता यत्र तत्र न गच्छन्तीति । अल्पप्रतिभा मन्दमतयो जना एषां महाकवीनां जल्पं सारगर्भं वचो ज्ञातुं वोढुं न क्षमन्ते न समर्था भवन्ति । सकलमन्दजनाज्ञेयत्वं महाकविकृतीनामित्येव तेषां महाकवीनां महान्दोषः । अत्र व्याजस्तुतिरलंकारः 'व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।' भाषा महाकवियों का विशिष्टगुण ही उनके लिए अनिष्टकारक हो जाता है । क्यो कि सभाओं में सुलभता से प्राप्त हो सकने वाले छोटी बुद्धि के कवि, इन महाकवियों की उक्तियो का अर्थ भी समझने में असमर्थ होते हैं । अलौकिकोल्लेखसमर्पणेन विदग्धचेतःकषपट्टिकासु । परीक्षितं काव्यसुवर्णमेत-ल्लोकस्य कण्ठाभरणत्वमेतु ॥२४॥ अन्वयः विदग्धचेतःकषपट्टिकासु अलौकिकोल्लेखसमर्पणेन परीक्षितम् एतत् काव्यसुवर्णं लोकस्य कण्ठाभरणत्वम् एतु । व्याख्या कषाणां निकषोपलानां 'शाणस्तु निकष कषः' इत्यमरः । पट्टिकाः कषपट्टिका विदग्धानां पण्डितानां चेतांस्येव कषपट्टिकास्तासु विदग्धचेतःकषपट्टिकास्वलौ- किका लोकोत्तरा च उल्लेखाश्चमत्कृतकृतयः पक्षे श्रेष्ठतासूचयित्र्यः सुवर्णरेखा स्तेषां समर्पणेन प्रदानेन परीक्षितं निर्धारितमेतत्काव्यरूपसुवर्णं (सुन्दरवर्णयुक्त- काञ्चनं शोभनाक्षरसमेतं काव्यञ्च) लोकस्य सर्वजनस्य कण्ठाभरणत्वं कण्ठ- भूषणत्वमेतु प्राप्नोतु । यथा कषपट्टिकायां सुपरीक्षितं शुद्धमुत्तमं सुवर्णं जनस्य कण्ठस्थं सदलङ्कारत्वं प्राप्नोति तथैव विद्वच्चेतःसु परीक्षित-मिदङ्काव्यं जनस्य कण्ठस्थं सद् भूषणं भवत्विति भावः । काव्ये सुवर्णाभेदारोपस्य विदग्धचेतःसु कषपट्टिकारोपे कारणत्वात्परम्परितरूपकम् । 'यत्र कस्यचिदारोपः परारोपण- कारणम् । तत्परम्परितम् ।' भाषा विद्वानों की चित्त रूपी कसौटी पर (कसे जान पर) असाधारण सद्बुक्ति रूपी अच्छे कस के आने से जाँचा हुआ यह काव्य रूपी सुवर्ण (सोना या