विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 41, कुल 493 में से
संदर्भ में पढ़ें( १८ ) अन्वयः संक्रान्तवक्रोक्तिरहस्यमुद्राः ये रसध्वनेः अध्वनि चरन्ति ते अस्मत्प्र- बन्धान् अवधारयन्तु । शेषाः शुकवाक्यपाठं कुर्वन्तु । व्याख्या संक्रान्ता सङ्गता वक्रोक्तीनां विचित्रोक्तीनां रहस्यस्य तत्वस्य मुद्राऽभिनि- वेशो येषु ते, ये सहृदया रसध्वनेरध्वनि मार्गे चरन्ति विहरन्ति, वक्रोक्ति रहस्यज्ञात्तारो रसध्वनिमार्गगाश्च ये न बहिर्भूता इत्यर्थः । तेऽस्मत्प्रबन्धानस्मद्विर- चितकाव्यान्यवधारयन्तु मदीयकाव्यस्य यथार्थज्ञाने समर्था भवन्तु । अन्ये तदितरे शुकवत्तदर्थज्ञानमन्तरेण वाक्यपाठं शब्दोच्चारणमेव कुर्वन्तु । काव्यार्थभावना- परिपक्वबुद्धिविभवमात्रवेद्यमस्मत्काव्यसत्यमिति भावः । भाषा जो विचित्र उक्तियों के सम्पूर्ण रहस्यो को अच्छी तरह जानने वाले हैं और रसध्वनि के मार्ग का अवलम्बन करने वाले हैं वे विद्वान् कविलोग मेरे काव्य को समझे । इनसे अतिरिक्त अन्य कवि सुग्गे के ऐसे (बिना अर्थ रहस्य समझे) इस काव्य का केवल पाठ किया करें । अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् । ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षमन्ते ॥२३॥ अन्वयः महाकवीनाम् अनन्यसामान्यगुणत्वम् एव अनर्थाय भवति यत् सभासु सुलभाः अल्पप्रतिभाः एषां जल्पं ज्ञातुं न क्षमन्ते । व्याख्या महाकवीनां कविश्रेष्ठानामन्येषु यत्सामान्यं साधारणत्वं सकलजनवृत्तित्वं तदन्यसामान्यं नास्त्यन्यसामान्यमनन्यसामान्य-मनन्यसामान्यञ्चतद्गुणत्वञ्चेत्य- नन्यसामान्यगुणत्वं विशेषगुणवत्त्वमेवानर्थायाऽनिष्टोत्पत्त्यर्थं भवति जायते । इष्टं तु महाकवीनामाशयज्ञानं तत आनन्दानुभूतिः सा तु साधारणबुद्धिमतां न भवतीत्येवाऽनर्थः । यदस्मात्कारणात्सभासु सर्वसभासु सुलभा, सुखेन लभ्याः स्वोद्योगेनेवाऽऽनन्दार्थमेकत्रीभूता इत्यर्थः । विशिष्टजनोपस्थितिः सभास्वनाया-