विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( १६ ) व्याख्या मम सूक्तय कविता एव रत्नानि मत्सूक्तिरत्नान्युल्लेखस्य कवितालेखनस्य वैकटिकपक्षे रत्नोत्कर्षणस्य या लीला वैशिष्ट्य तस्या घटनाया सम्पादने पटूना चतुराणा वैकटिकानामुपमा सादृश्य येषु तेषा रत्नपरीक्षकतुल्याना सचेतसा सहृदयाना महाकवीना विचारा एव शाणोपला रत्नशुद्धिपरिचायकपाषाण विशेषा- “शाणस्तु निकष कष” इत्यमरः । तेषां पट्टिकास्तद्वितिभवन्तु । अतिथ- रूपेणैकत्रीभवन्तु । शाणोपलपट्टिकासूल्लिखनेन रत्नकान्तिपरीक्षणदक्षाणा वैकटिकानामिवोत्तमकाव्यकरणे विचारणे च कुशलाना महाकवीना विचारार्थ- मस्मत्काव्य भवत्विति भावः । वैकटिकेन सहृदयस्य सादृश्यप्रतीत्योपमा । विचारेषु शाणोपलपट्टिकारोपादूपकञ्च । भाषा सान पर चढाकर रत्नो की परीक्षा करने में कुशल जोहरी लोगो के समान, उत्तम काव्य बनाने में कुशल सहृदय काव्यज्ञो की विचार रूपी सान पर परीक्षार्थ मेरे श्लोक या काव्य उपस्थित हो । अर्थात मेरे काव्य को उच्चकोटि के सहृदय कविलोग परीक्षा कर देखें कि मेरा काव्य कैसा है । न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्कराऽपि ॥२०॥ अन्वय दुर्जनानाम् इह कः अपि दोषः न । हि तेषा स्वभावः गुणासहिष्णुः । केषाम् अपि चन्द्रखण्ड-विपाण्डुरा पुण्ड्रकशर्करा द्वेष्या एव । व्याख्या दुर्जनानां खलानामिहार्थास्मन्पद्येषा निन्दाकरणे कोऽपि दोषो नाऽस्ति । हि यस्मात्कारणात्तेषा खलाना स्वभाव प्रकृतिरेव गुणानां सद्गुणानामसहिष्णुरसहन- शीलो मात्सर्ययुक्त इत्यर्थ । केषामपि केषाञ्चिज्जनानां चन्द्रखण्ड इव कर्पूर- खण्ड इव विपाण्डुरा शुक्ला पुण्ड्रशाखा महदिक्षूचा शर्करा भूरिदिक्षुनिर्मितशर्करा प्रचुरयैव सुमधुराऽपि द्वेष्यैवाऽरुचिशान्तिरेव भवति । 'पित्तेन दूने रसने सिताऽपि तिक्तायते हंसकुलावतस ।' इति श्रीहर्ष । अत्र दृष्टान्तालङ्कारः ।
( १७ ) भाषा दुर्जनो में दूसरो की निन्दा करना यह दोष नहीं कहा जा सकता । क्यो कि दूसरो के अच्छे गुणों की निन्दा करना उनका स्वभाव ही होता है। कुछ लोग ऐसे भी हे जिनको कपूर की डली के ऐसी पोडे से बनी सफेद चीनी भी अच्छी नहीं लगती । सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥ अन्वयः कविताविलासाः कुङ्कुमकेसराणां नूनं सहोदराः भवन्ति । यत् मया तेषां प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः । व्याख्या कविताया सत्कविताया विलासा विभ्रमा कुङ्कुमस्याग्निशिखस्य 'अथ कुङ्कुमम् । कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने' इत्यमरः । केसरा किञ्ज- ल्का 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेषां नूनं निश्चयेन सहोदरा एकदेशजन्यत्वाद् भ्रातरो भवन्ति सन्ति । यद्यस्मात्कारणाम्मया कविना बिल्हणेन तेषां कविताविलासानां कुङ्कुमकेसराणाञ्च प्ररोहोऽङ्कुर उद्भव इत्यर्थः । शारदाया सरस्वत्या आदेश प्रसाद पक्षे शारदाया सरस्वत्या देशं कश्मीरमपास्य विहायान्यत्रान्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थः पक्षेऽन्यस्मिन् देशे न दृष्टो नावलोकितः । शारदाप्रसाद विना न कविताविलासोद्गमः । कश्मीरदेशं विहाय नान्यत्र कुङ्कुमकेसरोद्गम इति भावः । भाषा उत्तम कविता के विलास और केसर दोनों निश्चय ही सगे भाई हैं । शारदा के आदेश बिना अर्थात् सरस्वती की कृपा बिना अच्छी कविता की उत्पत्ति और शारदा देश बिना अर्थात् कश्मीर बिना केसर की उत्पत्ति, अन्यत्र होती हुई मैंने नहीं देखी है । रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः । तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥२२॥ २
( २० ) सुन्दराक्षर युक्त भव्य) मनुष्यों के कण्ठ का आभूषण बने । अर्थात् जिस प्रकार जंचे हुए शुद्ध सोने का बना गोफ (गले का आभूषण) गले की शोभा बढाता है वैसे ही विद्वानो द्वारा परीक्षित यह मेरा उत्तम काव्य साधारण लोगो द्वारा कण्ठस्थ किया जाकर उनकी कण्ठ की शोभा को बढ़ाये । किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण । किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् ॥२५॥ अन्वयः चारुचारित्रविलासशून्याः भूपाः कविसंग्रहेण किं कुर्वन्ति । गुञ्जाफल- भूषणानां वनेचराणां सुवर्णकारेण जातु किम् । व्याख्या चारु सुन्दरं सत्काव्यपरिचयेन सहृदयहृदयसंवादि चारित्रं चरितं तस्य विलास उत्कर्षस्तेन शून्या रहिताः काव्यमहत्त्वांसम्बेदिनो दुश्चरिता भूपा राजानः कवीनां संग्रहेणाऽऽश्रयप्रदानेनाऽऽश्रयं प्रदाय स्वराजसभायां स्थापनेनेत्यर्थः किं कुर्वन्ति न किमपीत्यर्थ । दुश्चरितानां राज्ञां कवि संग्रहेण न कोऽपि लाभ । ये कविमहत्त्वमेव न विदन्ति तेषां कृते कवयो निष्प्रयोजनका इति भाव । गुञ्जाफल कृष्णलाफलं 'काकचिंची गुंजे तु कृष्णला' इत्यमरः । एव भूषणमलङ्कारो येषां तेषां वनेचराणांमारण्यकानां सुवर्णकारेण स्वर्णभूषणनिर्माणरेन जातु कदाचिदपि किं, किं प्रयोजनं, न किमपीत्यर्थ । सुवर्णकारा सुवर्णस्य भूषणानि निर्माण्ति तानि तु वनेचरा न समाद्रियन्ते यतस्तेषां कृते गुञ्जैव महद्भूषणमिति सुवर्णकारास्तेषां कृते निष्प्रयोजनकास्तथैव कवय सुचरित्रमेव राजानं भजन्ते न दुश्चरितम् । दुश्चरितानां राज्ञां कृते ते कवयो निष्प्रयोजनका इति भावः । अत्र दृष्टान्तालङ्कार । भाषा जो राजा असच्चरित्र हैं वे अपने दरबार में कवियो का संग्रह कर क्या करेंगे । गुंज के गहनो को पहनने वाले जंगली लोगो को सोने के आभूषणो को बनाने में कुशल सोनारो का क्या काम पड़ सकता है अर्थात् जिस प्रकार गुंज के गहने पहनने वालो के लिये सोनार किसी काम का नही उसी प्रकार कुचरित्र राजा के लिये कवि भी किसी काम का नही । क्योकि कवि सुचरित्र
( २१ ) राजा के यहाँ रह कर ही अपने काव्यों से उसका गुणगान कर उसकी यशः पताका फहराता है। पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियन्तो न बभूवुरुर्व्यां जानाति नामाऽपि न कोऽपि तेषाम् ॥२६॥ अन्वयः यस्य पृथ्वीपतेः पार्श्वे कवीश्वराः न सन्ति तस्य यशांसि कुतः। उर्व्यां कियन्तः भूपाः न बभूवुः तेषां नाम अपि कः अपि न जानाति। व्याख्या यस्य पृथ्वीपते राज्ञः पार्श्वे कवीश्वराः कवीन्द्रा न सन्ति न शोभन्ते तस्य भूपस्य यशांसि कीर्तयः 'यशः कीर्तिः समज्ञा च स्तवस्तोत्रं स्तुतिर्नुतिः' इत्यमरः। कुतो, न कुतोऽपीत्यर्थः। यशसः प्रख्यापकानामभावात्कुतो यशःप्रतिष्ठेतिभावः। उर्व्यां महीमण्डले कियन्तः कतिसंख्याका भूपा राजानो न बभूवुर्न जाताः (परं) तेषां नामाऽपि संज्ञामपि कोऽपि मनुष्यो न जानाति। काव्यैकनिबद्धमेव राज्ञां यशश्चिरस्थायि भवतीति राज्ञां यशसोऽपयशसो वा कवीश्वरा एव निदान- मिति भावः। भाषा जिस राजा के पास में (दरबार में) अच्छे कवि नहीं हैं उसका यश कहाँ से फैल सकता है। इस पृथ्वी पर क्या कितने ही राजा ऐसे नहीं हुए हैं जिनका नाम भी कोई मनुष्य नहीं जानता है। १ भावोऽयमत्राऽपि प्रदर्शितः। भुजवनतरुच्छाया येषां निषेव्य महौजसा, जलधिरशना मेदिन्यासीदसावकुतोभया। स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं, प्रकृतिमहते तस्मैसत्त्वं नमः कविवर्ष्मणे॥ राजतरङ्गिण्याम्।
( २२ ) लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः । स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥ अन्वयः यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः एव आदिकवेः प्रभावः, क्षितीन्द्रैः कवयः न कोपनीयाः । व्याख्या यल्लङ्कापते रावणस्य यश कीर्ति 'यश कीर्ति समज्ञा च स्तम स्तोत्र स्तुति- र्नुति' इत्यमर । सङ्कुचितमविस्तृतं नष्टमित्यर्थं । यद्रघुराजस्य दशरथस्य पुत्रो राम कीर्तिपात्र यशोभाजन जात स सर्व एवाऽऽदिकवेर्वाल्मीके प्रभाव- कौशलं कार्यमित्यर्थं । अतः क्षितीन्द्रै राजभि कवयो न कोपनीया न क्रोधनीया नापमाननीया इतिभाव । यदिति वाक्यार्थपरामर्शकः । भाषा रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जो कीर्ति के पात्र हुए, यह सब आदि कवि वाल्मीकि का ही प्रताप है । इसलिए राजाओ को कभी भी कवियो को कुपित न करना चाहिये । गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः । के वा न शुष्कां मृदमभ्रसिन्धु-सम्बन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥ अन्वयः मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति । व्याख्या मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्ति प्रवर्तन व्यापारो वा नृपते राज्ञो विक्रमाङ्कदेवस्य चरित्रैश्चरितैर्हेतुभिर्मान्या पूज्या भवित्री भाविनी । प्रकृत्या चारु राज्ञश्चरितमत्र वर्णितमिति हेतोरिदं काव्यं विदुषा रसनीयत्वमुप- यास्यत्येवेति भावः । के वा मनुष्या शुष्कां रसरहितामभ्रसिन्धोर्जाह्नव्या सम्बन्धिनीं तटगतां मृदं मृत्तिकां मूर्द्धनि शिरसि न धारयन्ति नाऽवतंसयन्ति ।
( २७ ) गङ्गासम्बन्धादेव मृदोऽप्यभ्यर्हितत्वं न तु स्वतः । अत्र दृष्टान्तालङ्कारः । अन्यसम्बन्धेन श्लाघ्यत्वकथनादुदात्तालङ्कारश्च । 'लोकातिशय-सम्पत्तिवर्ण- नोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्' । भाषा मेरी नीरस वाणी का भी व्यापार (यह काव्य) राजा विक्रमाङ्कदेव के चरितों के कारण आदरणीय होगा। कौन मनुष्य गङ्गा की नीरस मिट्टी (सूखी मिट्टी) को अपने मस्तक पर धारण नहीं करते अर्थात् नहीं लगाते । अर्थात् गङ्गा का सम्बन्ध होने से सूखी मिट्टी भी जैसे आदरणीय होती है वैसे ही महाराज विक्रमाङ्कदेव का सम्बन्ध होने से मेरा नीरस काव्य भी आदरणीय होगा । कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् । निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टक-जालमेव ॥२६॥ अन्वयः खलानां कर्णामृतं सूक्तिरसं विमुच्य दोषे सुहान् प्रयत्नः । क्रमेलकः केलिवनं प्रविश्य कण्टकजालम् एव निरीक्षते । व्याख्या खलानां पिशुनानां 'पिशुनो दुर्जनः खलः' इत्यमरः । कर्णयोरमृतं श्रुति- रसायनं सूक्तिरसं सुभाषितानन्दं विमुच्य परित्यज्य दोषे दोषावेषणे (एव) सुमहान्विरोषः प्रयत्नः प्रयासो भवति । क्रमेलक उष्ट्रः केलिवनं क्रीडोद्यानं प्रविश्य गत्वा कण्टकानां कण्टकीयवृक्षाणां जालं समूहमेव निरीक्षते पश्यत्यन्विष्य- तीत्यर्थः । तेषां कृते कण्टकीवृक्षाणामेव प्रियत्वं न तु सुगन्धिपुष्पादिभिरुद्यान- रमणीयताया इति भावः । अत्र दृष्टान्तालङ्कारः । भाषा खललोग कान को अमृत के समान सुख देने वाले अच्छे सुभाषितों के रस का आस्वादन छोड़कर उनमें दोष देखने में ही अत्यन्त प्रयत्न शील रहते हैं । सुन्दर बाग में जाकर उसकी पुष्पवृक्ष आदि की शोभा से आनन्द न प्राप्तकर ऊँट, कांटे की झाड़ियों की ही खोज में रहता है । अर्थात् ऊँट को जिस प्रकार अच्छे बाग में जाकर भी काँटे की झाड़ी ही प्रिय मालूम होती है वैसे भलो को
( २४ ) अच्छे काव्य सुनकर उनसे आनन्द न मिलकर केवल उनमें दोष निकालना ही प्रिय मालूम होता है। एषाऽस्तु चालुक्यनरेन्द्रवंश-समुद्गतानां गुणमौक्तिकानाम् । मद्भारती-सूत्रनिवेशितानामेकावली कण्ठविभूषणं वः ॥३०॥ -अन्वयः एषा चालुक्यनरेन्द्रवंशसमुद्गतानां मद्भारतीसूत्रनिवेशितानां गुणमौक्ति- कानाम् एकावली वः कण्ठविभूषणम् अस्तु । व्याख्या एषा वाग्यावली चालुक्यनरेन्द्राणां वंशः कुलमेव वंशो वेणुस्तस्मात्समुद्गतानां समुत्पन्नानां, वेणौ मुक्तास्समुद्भवन्ति बहुमूल्याश्च भवन्तीति प्रसिद्धिः । मद्भारती मदीयवाग्येव सूत्रं गुणस्तस्मिन्निवेशितानां गुम्फितानां, गुणा दयादा- क्षिण्यादय एव मौक्तिकानि तेषामेकावल्येकावृतो हारो वो युष्माकं कण्ठवि- भूषणमस्तु । राज्ञां गुणाः कण्ठेनोच्चार्यमाणास्सन्तः कण्ठविभूषणानि मौक्तिकानि कण्ठे धार्यमाणानि कण्ठविभूषणानीति भावः । अत्र गुणेषु मौक्तिकारोपे, वंशे वेणुत्वारोपस्य कारणत्वात्परम्परितं रूपकम् । वाक्यावल्यामेकावल्यारोपे भारत्यां सूत्रत्वारोपस्य कारणत्वाच्च परम्परितं रूपकम् । 'नियता रोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा' इति । भाषा चालुक्य राजाओं के वंश रूपी बांस में से उत्पन्न यह दया दाक्षिण्यादि गुण रूपी मोतियों का, मेरी वाणी रूपी डोरे में परोया हुआ, वाक्यावली रूपी एकलड़ा हार, आप लोगों के कण्ठ का आभूषण हो । अर्थात् चालुक्य वंशीय राजाओं के दयादाक्षिण्यादिगुणों की मेरी वाणी में वर्णित वाक्यावली आप लोगों के कण्ठ से उच्चारित होकर उसे सुशोभित करे जिस प्रकार बांस की मोतियों का डोरे में परोया हुआ एकलड़ा हार कण्ठ को सुशोभित करता है। साम्प्रतं चालुक्यवंशमूलपुरुषोत्पत्तिं प्रस्तौति- लोकेषु सप्तस्वपि विश्रुतोऽसौ सरस्वतीविभ्रमभूः स्वयम्भूः । चत्वारि काव्यानि चतुर्मुखस्य यस्य प्रसिद्धाः श्रुतयश्चतस्रः ॥३१॥
( २५ ) अन्वय चतुर्मुखस्य यस्य चत्वारि काव्यानि चतस्रः श्रुतयः प्रसिद्धाः, असौ सरस्वतीविभ्रमभूः स्वयम्भूः सप्तसु अपि लोकेषु प्रसिद्धः । व्याख्या चत्वारि मुखानि यस्य स चतुर्मुखस्तस्य चतुर्मुखस्य यस्य ब्रह्मण सम्बन्धीनि तन्मुखेभ्यो निसृतानीत्यर्थः । चत्वारि चतु सङ्ख्याकानि काव्यानि काव्यरूपाणि चतस्र श्रुतयो वेदा प्रसिद्धा ख्याता असौ प्रसिद्ध सरस्वत्या वाग्देव्या वाङ्मयस्य वा विभ्रमाणां विलासानां भूत्पत्तिस्थानमाश्रयो वा स्वयम्भू्र्ब्रह्मा सप्तस्वपि भूर्भुवःस्वर्महोजनस्तपःसत्येषु लोकेषु भुवनेषु 'लोकस्तु भुवने जने' इत्यमरः । प्रसिद्धो विख्यात अस्तीति । सरस्वती वेधस कन्येति पत्नीतिवेत्युभयं लोक- प्रसिद्धम् । सरस्वत्या पतिर्ब्रह्मेति हेतो सरस्वती तस्मिन्स्वमञ्जुलविलासावि- र्चेष्टाभिस्सरसतामापादयति कन्यात्वेनाऽऽवन्त्वञ्च जगत्पति । भाषा जिस चार मुख वाले ब्रह्मा के चार मुखो से निकले हुए चार काव्य चार वेद हैं, ऐसी प्रसिद्धि है वह सरस्वती के विलास का स्थान स्वयम्भू ब्रह्मा सातो लोको में प्रसिद्ध है । एकस्य सेवातिशयेन शङ्के पङ्केरुहस्यासनतां गतस्य । आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपदमम्बुजानाम् ॥३२॥ अन्वय आसनता गतस्य एकस्य पङ्केरुहस्य सेवातिशयेन आराधितः यः अम्बुजानां सकल कुटुम्ब लक्ष्मीपदं चकार (इति) शङ्के। व्याख्या (ब्रह्मन्) आसनतामुपवेशनस्थानता गतास्य प्राप्तस्यैकस्य कस्यचित्पङ्केरुहस्य सरसीरुहस्य 'पङ्केरुहं तामरस सारस सरसीरुहम्' इत्यमरः । सेवातिशयेन स्वपत्रस्योपर्यासनदानरूपसेवाप्रकर्षेणाऽऽराधित सेवितो यो ब्रह्माऽम्बुजानां पद्मानां सकल समग्रं 'समग्र सकल पूर्णम्' इत्यमरः । कुटुम्बं जाति कमलजाति मित्यथः । लक्ष्म्या श्रियः पदं निवासस्थानं चकारेति शङ्के तर्कयामि । अतएव लक्ष्म्या पद्मालयेति नाम लोके प्रसिद्धमिति भावः । अत्रोत्प्रेक्षालङ्कारः ।
( २६ ) भाषा किसी एक कमल ने, आसन बनकर अत्यधिक सेवा करने से प्रसन्न होकर ब्रह्मा ने सम्पूर्ण कमल जाति को ही लक्ष्मी का निवास स्थान बना दिया, ऐसा मैं सोचता हूँ। ब्रह्मर्षिभिर्ब्रह्ममयीममुष्य सार्द्धं कथां वर्धयतः कदाचित् । त्रैलोक्यबन्धोः सुरसिन्धुतीरे प्रत्यूषसन्ध्यासमयो बभूव ॥३३॥ अन्वयः कदाचित् सुरसिन्धुतीरे ब्रह्मर्षिभिः सार्द्धं ब्रह्ममयीं कथां वर्धयतः त्रैलोक्यबन्धोः अमुष्य प्रत्यूषसन्ध्यासमयः बभूव । व्याख्या कदाचित्कस्मिंश्चित्समये सुरसिन्धो स्वर्गङ्गायास्तीरे तटे ब्रह्मर्षिभि श्रेष्ठ- मुनिभिस्साद्धं सह ब्रह्ममयीं परब्रह्मविषयिणीं कथां वार्तां वर्धयतो विकास नयतस्त्रैलोक्यस्य बन्धुर्मित्र तस्य त्रैलोक्यहितकारकस्याऽमुष्य ब्रह्मण प्रत्यूषस्य प्रातःकालस्य ‘प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्यूषसी अपि’ इत्यमरः । सन्ध्याया सन्ध्यावन्दनादेस्समयः कालो बभूव जात । कथारसे मग्नानां तेषां समयज्ञाना- भावात्प्रातःकालसन्ध्यावन्दनावसरः सम्प्राप्त इति भावः । भाषा किसी समय आकाशगङ्गा के किनारे ब्रह्मर्षियों के साथ परब्रह्मसम्बन्धि कथा का विस्तार करते करते तीनों लोका के मित्र अर्थात् हित चाहने वाले ब्रह्मा जी का प्रातःकाल का सन्ध्यावन्दन करने का समय उपस्थित हो गया । अर्थात् परब्रह्म की चर्चा में इतने लीन हो गये थे कि बातें करते करते सब रात बीत गई । मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः । अन्योन्यविश्लेषणयन्त्रसूत्र- भ्रान्त्येव चञ्चुस्थितमाचकर्ष ॥३४॥ अन्वय निजवल्लभायाः चाटुषु समुत्सुकः चक्रवाकः अन्योन्यविश्लेषणयन्त्रसूत्र- भ्रान्त्या इव चञ्चुस्थितं मृणालसूत्रम् आचकर्ष ।
( २७ ) व्याख्या (प्रत्यूषे) निजवल्लभायाः स्वप्रियायाश्चाटुषु चाटुकरणेषु प्रेमालापादिव्य- हारेषु समुत्सुकः समुत्साहितश्चक्रवाकः कोकः 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वय नामकाः, इत्यमरः । अन्योन्यस्य परस्परस्य यद्विश्लेषणं वियोगस्तस्य यन्त्रसूत्रं तद्धटकयन्त्रस्य सूत्रं तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र- सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थितं 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । मृणालसूत्रं बिसतन्तुमाचकर्षऽऽकृष्टवान् । रात्रौ चक्रवाक- मिथुनस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे जाते चक्रवाकस्य स्व- प्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधकं मृणालतन्तुं निरीक्ष्यैतदेवास्मद्रात्रिवियोगकारणमिति भ्रमावतःपरमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः । चक्रवाककर्तृकचञ्चुस्थितमृणाल- सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्वेन सम्भावनप्रति- पादनादुत्प्रेक्षालङ्कारः । भाषा (प्रात काल हो जाने पर, रातभरके वियोग के अनन्तर सयोग होने से) अपनी स्त्री चकई से उत्सुकता से रस भरी मीठी मीठी बातें कहने और सुनने की अभिलाषा से, चकई की चोंच में विद्यमान कमल के डण्डे के डोरे को मानो परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है ।) आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन । बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ॥३५॥ अन्वयः अर्ध्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजी- वितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे । व्याख्या अर्घ्यस्य पूजोपचारमिश्रितजलस्य 'यत् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यादिरमरः । अर्पणे प्रदाने तत्पराणां लग्नानां सिद्धाङ्गनानां देवयो-
( २८ ) निर्विशेषपतितानां कुङ्कुमेनेवाऽग्निशिखेनेव कुङ्कुममिश्रितजलरूपार्घ्यस्य रक्तकान्त्येवाऽरक्तमासमन्ताद्रक्तवर्णं राजीविन्द्याः कमलिन्या जीवितं जीवनं तस्य वल्लभः स्वामी तस्य सूर्यस्य बिम्बं मण्डलं 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । बिम्बफलस्य कुन्दू इति लोके प्रसिद्धस्य रक्तवर्णशाकफलस्य प्रतिष्ठां सवर्णतासारूप्यं दधे दधार । कुङ्कुमार्ययुक्ताम्बुरूपार्घ्यस्य सूर्यबिम्बे प्राप्त्याऽर्घ्यस्य रक्तत्वात्सूर्य-बिम्बस्याऽपि रक्तत्वं जातमिति भावः । प्रातः- कालिकसूर्यबिम्बस्य बिम्बफलस्य च सादृश्यदर्शनादुपमा । सूर्यबिम्बस्य रक्तत्वे कुङ्कुमस्य कारणत्वेन सम्भावनाद्धेतूत्प्रेक्षा । भाषा अर्घ्य देने में तत्पर सिद्धाङ्गनाओ के अर्घ्य के केसर से मानो लाल भया हुआ कमलिनी के जीवन के स्वामी सूर्य का मण्डल (पके हुए) कुन्दू के समान लाल दिखाई देने लगा । सुधाकरं वार्धकतः क्षपायाः संप्रेश्य मूर्द्धानमिवानमन्तम् । तद्विप्लवायेव सरोजिनीनां स्मितोन्मुखं पङ्कजवक्त्रमासीत् ॥३६॥ अन्वयः क्षपायाः वार्धकतः आनमन्तं मूर्द्धानम् इव सुधाकरं संप्रेक्ष्य सरोजिनीनां पङ्कजवक्त्रं तद्विप्लवाय इव स्मितोन्मुखम् आसीत् । व्याख्या क्षपाया रजन्या वृद्धस्य भावो वार्धकं तस्माद्वार्धकतोरजन्या गतप्रायत्वाद्वृ- द्धावस्थात आनमन्तमधोगच्छन्तं (अस्तोन्मुखत्वात्) मूर्द्धानमिव शिर इव सुधाकरं चन्द्रं सम्प्रेक्ष्य दृष्ट्वा सरोजिनीनां कमलिनीनां पङ्कजमेव वक्त्रं मुखं, तस्य चन्द्रस्य सरोजिनीरिपुत्वात् तस्याः क्षपायाश्च रिपुस्त्रीत्वात् विप्लवायेव विडम्बनाया इव स्मितोन्मुखमीषद्विकस्युक्त विकासयुक्तं वाऽऽसीद्वभूव । यथा काचिन्नायिका स्वरिपु- मस्तोन्मुखं स्वरिपुस्त्रियश्च वृद्धावस्थाप्रयुक्तां नम्राननत्वादितुरवस्थां वीक्ष्य सुखमनुभवन्ती तद्विडम्बनाय हसेरानना भवति तथैवेयं कमलिनी गतप्रायां रात्रिं अस्तोन्मुखं चन्द्रञ्च वीक्ष्य विकसिताभूदिति भावः । कमलिनी रात्रौ न विकसतीति प्रसिद्धम् । अत्राप्रस्तुत-व्यवहारस्य कमलिनीव्यवहारे समारोपात्समासोक्त्य- लङ्कारः । चन्द्रे च वार्धक्यप्रयुक्तनम्रीभूतरात्रिरूपनायिकाशीर्षस्योत्प्रेक्षणाद्वस्तू- त्प्रेक्षा । पङ्कजे वक्त्रत्वाभेदाद्रूपकम् । अत उत्प्रेक्षारूपकमूला समासोक्तिः । इति त्रयाणामङ्गाङ्गीभावसङ्करः ।
( २९ ) भाषा वृद्धावस्था के कारण रात्रि रूपी कामिनी के चन्द्ररूपी मस्तक को लटका हुआ देखकर चन्द्र के अस्तोन्मुख होने से और उसकी (रात्रि की) वृद्धावस्था की बुरी हालत से प्रसन्न होकर कमलिनी मानो उसे चिढाने के लिये मुस्कुराने लगी। अर्थात् रात समाप्त होने से और चन्द्रमा के अस्तोन्मुख होने के कारण नीचे लटक जाने से कमलिनी धीरे २ खिलने लगी। कमलिनी रात को नही खिलती यह बात प्रसिद्ध है। ज्ञात्वा विधातुश्चुलुकात्प्रसूतिं तेजस्विनोऽन्यस्य समस्तजेतुः । प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥३७॥ अन्वयः पङ्कजिनीवधूनां प्राणेश्वरः विधातुः चुलुकात् समस्तजेतुः अन्यस्य तेज- स्विनः प्रसूतिं ज्ञात्वा इव दुर्गं पूर्वाचलम् आरुरोह। व्याख्या पङ्कजिन्यो नलिन्यस्त एव वध्वस्तासां प्राणेश्वरो जीवितेश्वरस्तरणिर्विधातु- र्ब्रह्मणश्चुलुकाञ्जलपूरिताञ्जलेः समस्तस्य राजवंशस्य जेतुर्जयशीलस्यान्यस्य कस्यचित्तेजस्विनः प्रतापिनश्चालुक्यवंशमूलपुरुषस्य प्रसूतिमुत्पत्तिं ज्ञात्वेव विज्ञा- यैव सकलजेतुरन्यतेजस्विनो भयादात्मरक्षार्थं दुर्गं दुष्प्राप्यस्थानं दुर्गाश्रयं वा पूर्वाचलमुदयाचलमारुरोह गतवानिति । सूर्योदयो जात इति भावः । अत्र पद्मिन्यां वधूतादात्म्यारोपः सूर्ये प्राणेश्वरस्याऽभेदारोपे कारणत्वात्परम्परितं रूपकम्। पूर्वाचले दुर्गाभेदरूपकम् । सूर्यस्य दुर्गारोह अन्यतेजस्विन उत्पत्ति- ज्ञानस्य कारणत्वेनोत्प्रेक्षणादुत्प्रेक्षा । सूर्यवृत्तान्ते तादृशाप्रकृतान्यपुरुषवृत्तान्ता- भेदसमारोपात्समासोक्तिः । अत एतेषां सङ्करः । भाषा ब्रह्मा के चुल्लू से सबको जीतने वाले चालुक्य वंश के मूल पुरुष रूपी किसी दूसरे तेजस्वी की उत्पत्ति होने वाली है ऐसा मानो जानकर कमलिनी रूपी ललनाओ के पति सूर्य भय से पूर्वाचल रूपी अगम्य किले पर चढ गये। अर्थात् जिस प्रकार प्रतापी, वीर और सबको जीतने वाले योद्धा के आने पर कोई प्रतापी भय से दुर्गाश्रय कर लेता है उसी प्रकार चालुक्य वंश के प्रतापी मूल पुरुष की ब्रह्मा जी के चुल्लू से उत्पत्ति होने वाली है ऐसा मानो जान कर
( ३० ) प्रतापी सूर्य ने उदयाचल रूपी अभेद्य किले का आश्रय लिया । अर्थात् सूर्य पूर्वाचल पर उदित हुआ । जगाम याङ्गेषु रथाङ्गनाम्नां परस्परदर्शनलेपनत्वम् । - सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणफलके ममज्ज ॥३८॥ अन्वयः या रथाङ्गनाम्नाम् अङ्गेषु परस्परदर्शनलेपनत्वं जगाम सा चन्दनपङ्क- कान्तिः चन्द्रिका शीतांशुशाणफलके ममज्ज । व्याख्या या रथत्वाऽङ्ग चक्र नाम येषां तेषां रथाङ्गनाम्नां चक्रवाकपक्षिणामङ्गेष्ववयवेषु परस्परस्यान्योन्यस्य यद्दर्शनं तदेव लेपनं तस्य भावस्तत्वमन्योन्यादर्शनप्रयोज- कलेपनद्रव्यत्वं जगाम प्राप्तवती, रात्रौ चन्द्रिकया निखिललोके नितान्तं धवलितेऽपि चक्रवाकयुगलस्यान्योन्यदर्शनं न सम्भवतीति कविलोकप्रसिद्धम् । तत्रोत्प्रेक्ष्यते तेषां पक्षिणामङ्गेषु चन्द्रिकारूपविलेपनद्रव्यविशेषेण लेपस्य जायमानत्वाद्विलि- प्तत्वेनाङ्गानामविभावनम् । सा चन्दनपङ्कस्य कान्तिरिव कान्तिर्यस्या सा चन्द्रिका (प्रात कालसमये) शीतांशुश्चन्द्र शाणफलकमिवेत्युपमितसमासः, चन्द- नघर्षणोपलमिव तस्मिन् ममज्ज तिरोहिता बभूव । जाते प्रत्यूषे चन्द्रस्य निष्प्रभ- त्वात्तस्य शरीरे चन्द्रिका समाविष्टा सती नान्यत्र परिदृश्यते । चन्दनस्य यथा शाणोपरि घर्षणेन चन्दनाऽभावेऽपि तत्कान्ति शाणोपरि दृश्यते तथैव साम्प्रतं चन्द्रिकाया सर्वत्राऽभाव सञ्जात किन्तु तत्स्वरूपं शाणफलकसदृशावर्तुलाकार- चन्द्रोपरि केवलं परिदृश्यते । अत इद ज्ञायते यच्चन्द्रिकाऽस्मिन्सुधांशावेव प्रविष्टा सती निमग्ना जाताऽदृश्यत्व गतेत्यर्थ । चन्द्रिकायाश्चन्दनपङ्केन सह सादृश्यादुपमा । भाषा रात को चकवा और चकई का वियोग होता है और वे परस्पर देख नही सकते ऐसी कविप्रसिद्धि है। अतः कवि कल्पना करते हैं कि चकवा और चकई के अङ्गों को अदृश्य कर देने वाले लेप के समान एक दूसरे को परस्पर देखने में बाधक, चन्दन के द्रव के समान शोभावाली चांदनी, चन्दन घिसने के गोल होरसा के सदृश चन्द्र में प्रविष्ट हो गई अर्थात् प्रात काल में चाँदनी अन्यत्र कहीं न दिखाई
( ३१ ) देकर केवल चन्द्र में दिखाई देती थी जैसे चन्दन हटा लिये जाने पर भी होरसे
- पर चन्दन की आभा दिखाई पड़ती ही है । सन्ध्यासमाधौ भगवाँस्थितोऽथ शक्रेण बद्धाञ्जलिना प्रणम्य । विज्ञापितः शेखरपारिजात-द्विरेफनादद्विगुणैर्वचोभिः ॥३६॥ अन्वयः अथ सन्ध्यासमाधौ स्थितः भगवान् बद्धाञ्जलिना शक्रेण प्रणम्य शेखरपारिजातद्विरेफनादद्विगुणैः वचोभिः विज्ञापितः । व्याख्या अथाऽनन्तरं 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्यैष्वथो अथ' इत्यमरः । सन्ध्या- समाधौ सन्ध्याकालिकध्यानयोगे स्थितो लीनो भगवान् ब्रह्मा बद्धोऽञ्जलिय॑स्य तेन कृताञ्जलिना शक्रेणेन्द्रेण प्रणम्य नमस्कृत्य शेखरे शिरसि शिरोभूषणरूपो यः पारिजातो देवकुसुमविशेषस्तस्मिन् ये द्विरेफा भ्रमराः 'द्विरेफपुष्पलिड्भृङ्गषट्पद- भ्रमरालयः' इत्यमरः । तेषां नादेन झङ्कारेण द्विगुणैर्द्विगुणीभूतैरुच्चैरुद्यमानैर्व- चोभिर्वचनैर्विज्ञापितो निवेदितः । भाषा इस के अनन्तर सन्ध्याकाल के ध्यान में मग्न ब्रह्मा जी को इन्द्र ने हाथ जोड़कर प्रणाम कर के, अपने मस्तक पर शोभा के लिये धारण किये हुए पारि- जात के फूलों पर गूंजने वाले भौरों की झङ्कार से प्रतिध्वनित, दूने ऊँचे स्वर में निवेदन किया । इतः परं शक्रश्चतुर्भिः श्लोकैः स्वीयमैश्वर्यं निरूपयन् ब्रह्माणं स्तौति— आस्ते यदैरावतवारणस्य मदाम्बुसङ्गान्मिलितालिमाला । साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये वन्दनमालिकेव ॥४०॥ अन्वयः यत् ऐरावणवारणस्य साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये मदाम्बु- सङ्गात् मिलितालिमाला वन्दनमालिका इव आस्ते । (अत्र यच्छब्दो
( ३२ ) वाक्यार्थं परामृशन् तच्छब्देन सह नित्यसाकाङ्क्षत्वात् 'स्वामिन् स सर्वोऽ- पी'त्यादि-त्रिचत्वारिंशत्तमे पद्ये तच्छब्देन सहाऽन्वेति ।) व्याख्या यद्यैरावणनाम्नो वारणस्येन्द्रहस्तिन 'ऐरावतोऽभ्रमातङ्गैरवाणामुवल्लभा' इत्यमरः । साम्राज्यलक्ष्म्या सार्वभौमश्रियो जयसूचक तोरण बहिर्द्वार तस्याऽऽभा कान्तिरिवाऽऽभा यस्य तत्तस्मिन् दन्तद्वये रदनयुग्मे 'रदना दशना दन्ता रदा' इत्यमरः । मदाम्बुसङ्गान्मदजलसंसर्गान्मिलिता समागताऽलिमाला भ्रमर- पङ्क्तिर्वन्दनमालिकेव चूताशोकादिपत्रमालेव' वन्दनवार इति लोके प्रसिद्धा । आस्ते शोभते—स सर्व एव त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेनाऽन्वयः । आम्राऽशोकपल्लवं सग्रथिता माला मङ्गलकार्येषु द्वारोपरि निबध्यते । दन्तद्वये विजयतोरणसाम्यादलिमालिकायाश्च वन्दनमालिकासाम्यादुपमा । भाषा यह जो (मेरे) ऐरावण नामक हाथी के, सब भुवनो की विजय श्री के बाहरी फाटक के समान शोभा देने वाले दोनो दातो पर, मदजल के चून से एकत्रित भौंरे बन्दनवार से दिखाई देते है (वह आपकी चरण सेवा की धूलि का ही प्रभाव है) इसका ४३ वें श्लोक से सम्बन्ध है । यदातपत्रं मम नेत्रपद्म-सहस्रलोलालिकदम्बनीलम् । कुरङ्गनाभीतितकप्रतिष्ठां मुखे समारोहति राजलक्ष्म्याः ॥४१॥ अन्वयः यत् मम नेत्रपद्मसहस्रलोलालिकदम्बनीलम् आतपत्रं राजलक्ष्म्याः मुखे कुरङ्गनाभीतिलकप्रतिष्ठा समारोहति (स त्वत्पादसेवारजसा प्रभाव इत्य- ग्रिमेण श्लोकेनाऽन्वितम्) । व्याख्या यच्छब्दो वाक्यार्थपरामर्शकः । मम मदीय नेत्राण्येव नयनान्येव पद्मानि कमलानि तेषां सहस्रमिन्द्रस्य सहस्राक्षत्वात् । तस्मिन्येsलोलालीना चञ्चल- भ्रमराणां लोलालित्वेनाध्यवसितकृष्णवर्णकनीनिकाना च कदम्ब समूहस्तद्वन्नील, आतपत्रञ्छातृ राजलक्ष्म्या राज्यशियो मुखे वकत्रे कुरङ्कनाभी कस्तूरी तस्या स्तिलवस्य भालनूषणाङ्गविशेषस्य प्रतिष्ठां स्थितिसमतां समारोहति प्राप्नोति ।
( ३३ ) • (स त्वत्पादसेवारजसां प्रभाव इत्यग्रे सम्बन्धः) नीलभ्रमरसमूहेन नीलच्छत्रस्य साम्यादुपमा। नेत्रेषु पद्मत्वारोपाद्रूपकम्। कृष्ण चञ्चलताराणां लोलालि- त्वेनाध्यवसितत्वादतिशयोक्तिः। अत्रैषामङ्गाङ्गिभावसङ्करः। भाषा यह जो मेरे सहस्रनेत्र रूपी सहस्र कमलो में स्थित चञ्चल पुतलियो के स्वरूप चञ्चल भ्रमर समूह की नीलिमा के समान नीले रंग का छत्र, राज्य श्री के मुखपर कस्तूरी के तिलक की शोभा दे रहा है। (वह आपकी चरण सेवा की धूली का प्रभाव है। यह ४३ वें श्लोक से सम्बन्धित है।) यन्नन्दने कल्पमहीरुहाणां छायासु विश्रम्य रतिश्रमेण। गायन्ति मे शौर्यरसोज्जितानि गीर्वाणसारङ्गदृशो यशांसि ॥४२॥ अन्वयः यत् गीर्वाणसारङ्गदृशः रतिश्रमेण नन्दने कल्पमहीरुहाणां छायासु विश्रम्य मे शौर्यरसोज्जितानि यशांसि गायन्ति (स त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेन सम्बन्धः) व्याख्या यदिति वाक्यार्थपरामर्शकः, “स्वामिन् स सर्वोपी”त्यत्र तच्छब्देनाऽन्वेति। शारङ्गरस्य मृगस्य दृगिव दृग् नेत्रं यासां ता गीर्वाणानां देवानां सारङ्गदृशो मृगनयन्यः कान्ता रतिश्रमेण सम्भोगजनितपरिश्रमेण खिन्नाः सत्यो नन्दने नन्दनाम्केन्द्रो- द्याने 'स्य उच्चैः श्रवासूतो मातलिर्नन्दनं वनम्' इत्यमरः। कल्पमहीरुहाणां कल्पवृक्षाणां छायासु विश्रम्य श्रमं निवार्य मे ममेन्द्रस्य शौर्यरसेन वीररसेनोर्ज्जि- तानि प्रवृद्धानि यशांसि स्तोत्राणि गायन्ति भजन्तीत्यर्थः। भाषा यह जो सम्भोग से थकी हुई मृगनयनी देवियां नन्दन वन में कल्पवृक्षो की छाया में विश्राम कर मेरे वीररस से परिवर्द्धित यशो का गान करती है (यह आपकी चरण सेवा की धूलि का प्रभाव है—यह ४३ वे श्लोक से सम्बन्धित है।) ३
( ३४ ) किं वा बहूक्तैः पुरुहूत एष पात्रं महिम्नो यदनङ्कुशस्य । स्वामिन् स सर्वोऽपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः ॥४३॥ अन्वयः वा बहूक्तैः किम् । यत् एषः पुरुहूतः अनङ्कुशस्य महिम्नः पात्रं, स्वामिन्, सः सर्वः अपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः (अस्ति) । व्याख्या वाऽथवा बहून्युकतानि कथितानि तै बहूक्यनैः कि, कि प्रयोजनम् न किम- पीत्यर्थः । यदिति वाक्यार्थपरामर्शकः । एष सन्मुखस्यः पुरुहूत इन्द्रो 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः । वृद्धश्रवाः सुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः । नास्त्यङ्कुशः प्रतिबन्धको यस्य तस्याप्रतिहतस्य महिम्नो महत्त्वस्य पात्रं भाजनमस्तीत्यर्थः । हे स्वामिन् हे निग्रहानुग्रहसमर्थ ब्रह्मन् स सर्वोऽपि शिरोधृतानां मस्तकोपरि धारितानां सेवाया रजांसि धूलिकणानि सेवासम्बन्धि- रजांस्यर्चनीयधूलिकणानीत्यर्थः, त्वत्पादयोस्तव चरणयोस्तेजारजांसि तेषां प्रभावः प्रतापः कार्यमित्यर्थः, अस्ति । चकलकमर्थात् कलापकम्१ । शब्दोऽयं कलापकार्थे काश्मीरे रूढः । भाषा अथवा, अधिक कहने से क्या लाभ । हे स्वामिन् यह मैं इन्द्र जो असीम महिमा का पात्र हुआ हूँ, यह सब सिर पर धारण की हुई आपकी चरण सेवा की धूलि का ही प्रताप है । (जहां चार श्लोको में अर्थ की पूर्ति होती है उसे कलापक कहते है । कश्मीर में कलापक को चक्रलक कहते है ।)
१ छन्दोबद्वपद पद्य तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मकं सदानितक त्रिभिरिष्यते ॥ कलापकं चतुर्भिञ्च पञ्चभिः कुलक मतम् । अत्र पञ्चभिरिति न्यूनसंख्या व्यवच्छेदः । पञ्चभि, पञ्चाधिकैश्चेत्यर्थः । संदानितक विशेषक तिलक वा ।
( ३५ ) निवेदितश्चारजनेन नाथ तथा क्षितौ सम्प्रति विप्लवो मे। मन्ये यथा यज्ञविभागभोगः स्मर्तव्यतामेष्यति निर्जराणाम् ॥४४॥ अन्वयः नाथ, चारजनेन सम्प्रति क्षितौ तथा विप्लवः मे निवेदितः यथा निर्ज- राणां यज्ञविभागभोगः स्मर्तव्यताम् एष्यति (इति) मन्ये । व्याख्या हे नाथ हे स्वामिन् ब्रह्मन् ! चार एव चारश्चार एव जनस्तेन गुप्तचरेण सम्प्रत्यधुना क्षितौ पृथिव्यां तथा तादृशो विप्लवो डिम्बो 'डिम्बे डमरविप्लवौ' इत्यमरः। नगरलुण्ठनाद्युपसर्गविशेष इत्यर्थः । मे मह्यं निवेदितो विज्ञापितो यथा येन प्रकारेण निर्जराणां देवानां 'अमरा निर्जरा देवाः' इत्यमरः । यज्ञेषु क्रतुषु विभागा देवेभ्योऽर्पणीयद्रव्यविभागास्तेषां भोगो ग्रहणमुपभोगश्च स्मर्तव्यतां स्मरणीयतामेष्यति प्राप्स्यतीति मन्ये जानामि तर्कयामीत्यर्थः । विप्लववरेण देवेभ्यो यज्ञभागा नार्पिता भविष्यन्तीति तर्कयामीतिभावः । भाषा हे नाथ ब्रह्मा जी ! गुप्तचर ने पृथ्वीपर होनेवाले ऐसे उपद्रवों की मुझे सूचना दी है जिससे देवताओं का, यज्ञों में मिलने वाले भागों का उपभोग, केवल स्मरण करने का ही विषय हो जाएगा, ऐसा में अनुमान करता हूँ । अर्थात् ऐसे उपद्रव से भविष्य में यज्ञों में देवताओं को भाग नहीं दिया जाएगा ऐसा मेरा अनुमान है । धर्मद्रुहामत्र निवारणाय कार्यस्त्वया कश्चिदयर्यवीर्यः । रवेरिवांशुपमरेणु यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥४५॥ अन्वयः अत्र धर्मद्रुहां निवारणाय त्वया अवार्यवीर्यः कश्चित् कार्यः । रवेः अंशुपमरेणु इव यस्य वंशेन ककुभः सुस्थाः क्रियन्ते ।
( ३६ ) व्याख्या अत्र क्षितौ धर्मद्रुहां धर्मद्वेषिणामधर्मपरायणानां निवारणाय विनाशाय त्वया ग्रहणाद्वायंमप्रतिहतं वीर्यं पराक्रमो यस्यैवम्भूत्तः कश्चित् कोऽप्यप्रतिहतशक्ति- मान्वीरः कार्यः समुत्पाद्यनीयः । रवेः सूर्यस्यांशुप्रसरेण प्रभासन्तानेनेव (यथा सर्वा दिशस्तमोविनाशेन प्रकाशिता भवन्ति तत्स्थाश्च प्राणिनः सुखेन स्वकार्यकरणेन जीवनमतिवाहयन्ति तथैव) यस्याऽप्यंवीर्यस्य वीरस्य वंशेन कुलेन ककुभः सर्वा दिशः 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तत्स्थाः प्राणिन इत्यर्थः । सुखेन तिष्ठन्तीति सुस्था निरुपद्रवाः क्रियन्ते सम्पाद्यन्ते । राज्ञि सूर्यस्य साम्यात्तद्वंशे चांशुप्रसरस्य साम्यादुपमा । भाषा (इसलिये) इस पृथ्वी पर अधर्मियो का नाश करने के लिये आप किसी अप्रतिहतशक्तिशाली वीर की उत्पत्ति करिए, जिसके वंश के फैलने से सब दिशाओं में रहने वाले लोग, उपद्रवो से दूर होकर, प्रसन्न हो, जिस प्रकार सूर्य की किरणो के फैलने से अन्धकार दूर होकर सब दिशाएं प्रसन्न हो जाती हैं। पुरन्दरेण प्रतिपाद्यमान-मेवं समाकर्ण्य वचो विरिञ्चिः । सन्ध्याम्बुपूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥४६॥ अन्वयः विरिञ्चिः पुरन्दरेण एवं प्रतिपाद्यमानं वचः समाकर्ण्य सन्ध्याम्बुपूर्णे चुलुके ध्यानानुविद्धानि विलोचनानि मुमोच । व्याख्या विरिञ्चिर्धाता 'धाताऽब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः' इत्यमरः । विरिञ्चिर्विरञ्चिरित्युभयमपि साधु । पुरन्दारयतीति पुरन्दरस्तेनेन्द्रेणैवं पूर्वोक्तं प्रतिपाद्यमानं कथ्यमानं वचो वाणीं समाकर्ण्य श्रुत्वा सन्ध्या-सन्ध्यार्घ्याम्बु जलं तेन पूर्ण पूरिते चुलुकेऽञ्जलौ ध्यानेनानुविद्धानि ध्यानप्रसक्तानि विलोचनानि नयनानि, चतुर्मुखत्वाद्वहुवचनम् । मुमोच निक्षिप्तवान् ।
( ३७ ) भाषा ब्रह्माने, इन्द्र द्वारा इस प्रकार कहे हुए वचनों को सुन कर, सन्ध्या सम्बन्धि जल से भरी अँजुली पर अपने ध्यानयुक्त नेत्रों को डाला अर्थात् उसे ध्यान पूर्वक देखा । १कुलकारम्भः— प्रकोष्ठपृष्ठस्फुरदिन्द्रनील-रत्नावलीकङ्कणडम्बरेण । बन्धाय धर्मप्रतिबन्धकानां वहन्सहोत्थानिव नागपाशान् ॥४७॥ अन्वयः प्रकोष्ठपृष्ठस्फुरदिन्द्रनीलरत्नावलीकङ्कणडम्बरेण धर्मप्रतिबन्धकानां बन्धाय सहोत्थान् नागपाशान् वहन् इव । (सुभटो विधातुश्चुलुकादा- विरासीदिति पञ्चपञ्चाशत्संख्याकश्लोकेन सम्बन्धः ।) व्याख्या प्रकोष्ठस्य कूर्पराधोभागस्य पृष्ठे पृष्ठभागे स्फुरन्ती देदीप्यमाना येन्द्रनील- रत्नानामिन्द्रनीलमणीनां रत्नविशेषाणामावली पङ्क्तिस्तस्याः कङ्कणङ्करभूषणं 'कंकणं करभूषणम्' इत्यमरः । तस्य डम्बरेण मिषेण प्रकोष्ठस्थितेन्द्रनीलमणि- घटित-करभूषण-मिषेण धर्मप्रतिबन्धकानां धर्मप्रतिरोधकानामधार्मिकाणामित्यर्थः । बन्धाय नियन्त्रणाय जन्मना सहोत्तिष्ठन्तीति प्रादुर्भवन्तीति सहोत्थांस्तान्, राज्ञो जन्मकालादेव समुत्पन्नान् नागपाशान् सर्परज्जूंवहन्निव धारयन्निव—सुभटो धातु- श्चुलुकादाविरासीदिति सम्बन्धः । इन्द्रनीलरत्नावलीकङ्कणे नागपाशस्य संभावनातदुत्प्रेक्षा । सा च 'डम्बरेण' इत्यपह्नुतिमूलत्वात्सापह्नुवा । भाषा कलाई पर बधे हुए इन्द्रनीलमणि के कंगन के मिष से, धर्म द्रोहियों को बाधने के लिए मानो साथ ही में उत्पन्न भये हुए नागफाश को धारण करता हुआ (एक वीर ब्रह्मा जी की अजुली से उत्पन्न हुआ ।) (इसका सम्बन्ध ५५ वें श्लोक से है ।) १ कुलकलक्षणं त्रिचत्वारिंशत्तमश्लोकटिप्पण्यां द्रष्टव्यम् ।