भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 60, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 60

( ३५ ) निवेदितश्चारजनेन नाथ तथा क्षितौ सम्प्रति विप्लवो मे। मन्ये यथा यज्ञविभागभोगः स्मर्तव्यतामेष्यति निर्जराणाम् ॥४४॥ अन्वयः नाथ, चारजनेन सम्प्रति क्षितौ तथा विप्लवः मे निवेदितः यथा निर्ज- राणां यज्ञविभागभोगः स्मर्तव्यताम् एष्यति (इति) मन्ये । व्याख्या हे नाथ हे स्वामिन् ब्रह्मन् ! चार एव चारश्चार एव जनस्तेन गुप्तचरेण सम्प्रत्यधुना क्षितौ पृथिव्यां तथा तादृशो विप्लवो डिम्बो 'डिम्बे डमरविप्लवौ' इत्यमरः। नगरलुण्ठनाद्युपसर्गविशेष इत्यर्थः । मे मह्यं निवेदितो विज्ञापितो यथा येन प्रकारेण निर्जराणां देवानां 'अमरा निर्जरा देवाः' इत्यमरः । यज्ञेषु क्रतुषु विभागा देवेभ्योऽर्पणीयद्रव्यविभागास्तेषां भोगो ग्रहणमुपभोगश्च स्मर्तव्यतां स्मरणीयतामेष्यति प्राप्स्यतीति मन्ये जानामि तर्कयामीत्यर्थः । विप्लववरेण देवेभ्यो यज्ञभागा नार्पिता भविष्यन्तीति तर्कयामीतिभावः । भाषा हे नाथ ब्रह्मा जी ! गुप्तचर ने पृथ्वीपर होनेवाले ऐसे उपद्रवों की मुझे सूचना दी है जिससे देवताओं का, यज्ञों में मिलने वाले भागों का उपभोग, केवल स्मरण करने का ही विषय हो जाएगा, ऐसा में अनुमान करता हूँ । अर्थात् ऐसे उपद्रव से भविष्य में यज्ञों में देवताओं को भाग नहीं दिया जाएगा ऐसा मेरा अनुमान है । धर्मद्रुहामत्र निवारणाय कार्यस्त्वया कश्चिदयर्यवीर्यः । रवेरिवांशुपमरेणु यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥४५॥ अन्वयः अत्र धर्मद्रुहां निवारणाय त्वया अवार्यवीर्यः कश्चित् कार्यः । रवेः अंशुपमरेणु इव यस्य वंशेन ककुभः सुस्थाः क्रियन्ते ।

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक) · पृष्ठ 60, कुल 493 में से · BharatKosha