विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 61, कुल 493 में से
संदर्भ में पढ़ें( ३६ ) व्याख्या अत्र क्षितौ धर्मद्रुहां धर्मद्वेषिणामधर्मपरायणानां निवारणाय विनाशाय त्वया ग्रहणाद्वायंमप्रतिहतं वीर्यं पराक्रमो यस्यैवम्भूत्तः कश्चित् कोऽप्यप्रतिहतशक्ति- मान्वीरः कार्यः समुत्पाद्यनीयः । रवेः सूर्यस्यांशुप्रसरेण प्रभासन्तानेनेव (यथा सर्वा दिशस्तमोविनाशेन प्रकाशिता भवन्ति तत्स्थाश्च प्राणिनः सुखेन स्वकार्यकरणेन जीवनमतिवाहयन्ति तथैव) यस्याऽप्यंवीर्यस्य वीरस्य वंशेन कुलेन ककुभः सर्वा दिशः 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । तत्स्थाः प्राणिन इत्यर्थः । सुखेन तिष्ठन्तीति सुस्था निरुपद्रवाः क्रियन्ते सम्पाद्यन्ते । राज्ञि सूर्यस्य साम्यात्तद्वंशे चांशुप्रसरस्य साम्यादुपमा । भाषा (इसलिये) इस पृथ्वी पर अधर्मियो का नाश करने के लिये आप किसी अप्रतिहतशक्तिशाली वीर की उत्पत्ति करिए, जिसके वंश के फैलने से सब दिशाओं में रहने वाले लोग, उपद्रवो से दूर होकर, प्रसन्न हो, जिस प्रकार सूर्य की किरणो के फैलने से अन्धकार दूर होकर सब दिशाएं प्रसन्न हो जाती हैं। पुरन्दरेण प्रतिपाद्यमान-मेवं समाकर्ण्य वचो विरिञ्चिः । सन्ध्याम्बुपूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि ॥४६॥ अन्वयः विरिञ्चिः पुरन्दरेण एवं प्रतिपाद्यमानं वचः समाकर्ण्य सन्ध्याम्बुपूर्णे चुलुके ध्यानानुविद्धानि विलोचनानि मुमोच । व्याख्या विरिञ्चिर्धाता 'धाताऽब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः' इत्यमरः । विरिञ्चिर्विरञ्चिरित्युभयमपि साधु । पुरन्दारयतीति पुरन्दरस्तेनेन्द्रेणैवं पूर्वोक्तं प्रतिपाद्यमानं कथ्यमानं वचो वाणीं समाकर्ण्य श्रुत्वा सन्ध्या-सन्ध्यार्घ्याम्बु जलं तेन पूर्ण पूरिते चुलुकेऽञ्जलौ ध्यानेनानुविद्धानि ध्यानप्रसक्तानि विलोचनानि नयनानि, चतुर्मुखत्वाद्वहुवचनम् । मुमोच निक्षिप्तवान् ।