विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 46, कुल 493 में से
संदर्भ में पढ़ें( २१ ) राजा के यहाँ रह कर ही अपने काव्यों से उसका गुणगान कर उसकी यशः पताका फहराता है। पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियन्तो न बभूवुरुर्व्यां जानाति नामाऽपि न कोऽपि तेषाम् ॥२६॥ अन्वयः यस्य पृथ्वीपतेः पार्श्वे कवीश्वराः न सन्ति तस्य यशांसि कुतः। उर्व्यां कियन्तः भूपाः न बभूवुः तेषां नाम अपि कः अपि न जानाति। व्याख्या यस्य पृथ्वीपते राज्ञः पार्श्वे कवीश्वराः कवीन्द्रा न सन्ति न शोभन्ते तस्य भूपस्य यशांसि कीर्तयः 'यशः कीर्तिः समज्ञा च स्तवस्तोत्रं स्तुतिर्नुतिः' इत्यमरः। कुतो, न कुतोऽपीत्यर्थः। यशसः प्रख्यापकानामभावात्कुतो यशःप्रतिष्ठेतिभावः। उर्व्यां महीमण्डले कियन्तः कतिसंख्याका भूपा राजानो न बभूवुर्न जाताः (परं) तेषां नामाऽपि संज्ञामपि कोऽपि मनुष्यो न जानाति। काव्यैकनिबद्धमेव राज्ञां यशश्चिरस्थायि भवतीति राज्ञां यशसोऽपयशसो वा कवीश्वरा एव निदान- मिति भावः। भाषा जिस राजा के पास में (दरबार में) अच्छे कवि नहीं हैं उसका यश कहाँ से फैल सकता है। इस पृथ्वी पर क्या कितने ही राजा ऐसे नहीं हुए हैं जिनका नाम भी कोई मनुष्य नहीं जानता है। १ भावोऽयमत्राऽपि प्रदर्शितः। भुजवनतरुच्छाया येषां निषेव्य महौजसा, जलधिरशना मेदिन्यासीदसावकुतोभया। स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं, प्रकृतिमहते तस्मैसत्त्वं नमः कविवर्ष्मणे॥ राजतरङ्गिण्याम्।